SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सङ्घप्रतिचरितापरनामकं . - [अष्टमः सेयं मुग्धा मम वधूश्चौरेण जगृहे' पुनः । नाहं चौर इदं जल्पन् , स ततश्चकृषे भटैः ॥ ४७६ ॥ समं मलिम्लुचेनाथ, नाथभूतेन पांशुला । चचाल चैत्यतस्तस्मात् , कलङ्ककनिकेतनम् ॥४७७ ॥ प्रस्थिताभ्यामथैताभ्यां, ददृशे पुरतः सरित् । अम्भःकुम्भिकरोदश्चदम्बुचुम्बितटद्रुमा ॥४७८॥ चौरोऽथ चिन्तयाञ्चक्रे, न, या निजविभोरभूत् । भविष्यति कुतः सा मे, कामेषुविवशीकृता । ॥ ४७९ ॥ अस्याः सर्वस्वमादाय,, मायया तद् बजाम्यहम् । मनोरथं मदीयं हि, नदीयं पूरयिष्यति ॥ १८ ॥ इति निश्चित्य तामूचे, चौरश्चपललोचनाम् । दुस्तरा, सिन्धुरेषाऽस्ति, गतिनिर्जितसिन्धुरे । ॥ ४८१ ।। एककालं न भवती, वसना-ऽऽभरणादि. च । उत्तारयितुमीशोऽहं, तत् पूर्व सर्वमर्पय ॥ ४८२ ॥ ततस्तीरे विमुच्यैतत् , सर्वं सर्वाङ्गसुन्दरि ! । भवतीं पुनरानेतुमहमेष्यामि सत्वरम् . ॥४८३ ।। ..... साऽपि तद्वचसा प्रीता, वसना-ऽऽभरणादिकम् । तस्याऽर्पयित्वा चौरस्य, शरस्तम्बान्तरे स्थिता । . .॥ ४८४ ॥ स्वभावनिस्त्रपां दौश्यनिस्त्रपस्तां विलोकयन् । दायादवत् तदादाय, स विवेशाऽऽपगापयः ।। ४८५ ॥ स्वपतित्यागिनींन त्वां, स्वमेऽपि स्पृहयाम्यहम् । तामित्युक्त्वा नदीं तीर्थ्या, तस्करः स तिरोदधे ॥ ४८६ ॥ साऽपि किं करवाणीति, वाणिनी मूढमानसा । एकं जम्बुकमद्राक्षीन्मांसखण्डजुषं मुखे ॥ ४८७ ॥ जिघृक्षुःसतिमि सिन्धोरम्बुकच्छेऽथ जम्बुकः ।मांसखण्ड,पुरो मुक्त्वाऽधाव यावदयं रयात् ॥ ४८८ ॥ ... तावदम्बुनिमग्नेऽस्मिन्, मत्स्ये विवलितस्तदा । । " .. .. . . चक्रन्द जम्बुको दुःखी, शकुन्या पिशिते हृते ॥ ४८९ ॥ युग्मम् ।। तं तथास्थितमालोक्य, गतदुःखेव साहसत् । प्रौढान्यपि हि दुःखानि, विस्मयन्तेऽतिकौतुकैः ॥ ४९० ॥ हसन्तीमसतीमेतां, व्यक्तमूचेऽथ जम्बुकः । मां किं मांस-तिमिभ्रष्टं, नग्ने! हससि नित्रपे!? ॥ ४९१ ॥ अष्टं जाराच चौराच, किं नात्मानं हुसस्यहो!! । मूढो ह्यद्रौ ज्वलत् पश्येन्न पुनः पादयोरधः ॥ ४९२ ॥ जल्पाके जम्बुके तस्मिन्निति वृत्तं नृभाषया । चिन्तयामास सा यावदाविष्कृतचमत्कृतिः ॥ ४९३ ॥ स दिव्यपुरुषो भूत्वा, भूरिभूषणभूषितः । जगाद जम्बुको वाचं, भूयस्तां तावदुञ्चकैः ॥ ४९४ ॥ ॥ युग्मम् ।। निजं जानीहि मां पूर्णहिमांशुमुखि ! कामुकम् । अहं स-हंसगमने !, शिखारत्न निषादिनाम् ॥ ४९५ ।। त्वामादाय गते चौरे, चौरबुद्ध्याऽथ रक्षकैः । अहं दुःखलतामूलशूलायामधिरोपितः ॥१९६ ॥ जिनदासं तदाऽऽसन्नचरं वीक्ष्य वणिग्वरम् । आतोऽयाचं पयः पातुं, पयोदमिव चातकः ॥ ४९७ ॥ नमोऽर्हदय इति न्यस्य, मन्त्रं मयि तदाऽऽतुरे । पानीयाय जगामाऽयमन्तामं वणिग्वरः ॥ ४९८ ॥ . अथ.शूलास्थितस्तेन, मन्त्रेण मुखरस्तदा । जातोऽहं केतकीपत्रमाग्रजापतिरेफवत् ॥ ४९९ ॥ आरक्षानुज्ञया श्रेष्ठी, पयः पाययितुं मया । दृष्टो हृष्टेन मातेव, वेगादागामुकस्तदा ॥५०० ॥ अपीतेनापि तृप्तोऽहं, पयसा दृक्पथस्टशा । स्मरन्नतितरां मन्त्रं, प्राणैर्मुक्तोऽस्मि तत्क्षणात् ॥ ५०१ ॥ {. .., तन्मन्त्रध्यानमाहात्म्याद्, भूत्वाऽहं ज्ञानवान् सुरः । ..तब मोहन्यपोहाय, व्यधां फेरुण्डताण्डवम् ॥ ५०२ ।। जैनं भूज ततो धर्मममुं त्वमपि भामिनि !| नैव स्वर्गा-ऽपवर्गश्रीर्यत्प्रसादाद्-दुरासदा ॥ ५०३ ॥ १ हेऽमुना । ना खता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy