________________
सर्गः]
।।
धर्माभ्युदयमहाकाव्यम् । चन्द्रचारूणि चीराणि, परिधाप्य प्रबोध्य ताम् । अथायमानयत् कापि, पत्तने तिनीमठे ॥ ५०४ ।। इत्यसौ बोधिता तेन, रविणेव सरोजिनी । दधौ हृदि तदा साधुधर्म हंसमिवोज्ज्वलम् ॥ ५०५।। तत् त्वं सा कम्बुकण्ठीव, स जम्बुक इवापि च । मास्म भूरुभयभ्रष्टो, मुक्त्यर्थ मुक्तवैभवः॥ ५०६॥
अथ श्रीजम्बूरूचे तां, स्त्रीचेतांसि प्रबोधयन् । विद्युन्मालीव नैवाह, मोहे मज्जामि कामिनि ! ॥५०७॥
विद्युन्माल्याख्यानकम् अस्ति सन्ततसञ्चारिताराविश्रामभूमिका । नमः स्तम्वेरमस्तम्भो, वैतात्य इति भूधरः ॥ ५०८ ॥ तस्यावनिस्तनस्येव, मूर्ध्नि काश्मीरपत्रवत् । पुरमस्ति मणिस्तोममयं गगनवल्लभम् ॥५०९ ॥ तत्र विद्याधरौ विद्युन्मालि-मेघरथाविति । वैताव्यश्रीमुखस्यास्य, नगरस्य दृशाविव ॥ ५१० ॥ अथ साधयितुं विद्या, मातङ्गीसंज्ञया श्रुताम् । मन्त्रयामासतुर्विद्याधरौ प्रीतिधुरन्धरौ ॥५११ ॥ चण्डालकन्यामुदाय, तहे विहितास्पदैः । विद्या वर्षावधि ब्रह्मचर्यादेषा तु साध्यते ॥ ५१२ ।। भूखण्डमण्डने गत्वा, साधयावः क्वचित् पुरे । तदेतामिति निश्चित्य, तौ वसन्तपुरं गतौ ॥ ५१३ ॥ स्थित्वा चण्डालवेषेण, तत्र चण्डालपाटके । एतौ चण्डालमुख्यानां, चक्रतुः सेवनक्रियाम् ।। ५१४ ।। ततस्तैः सेक्या प्रीते, रतौ सम्भाषितौ मिथः । किमॉजौ कुतः प्राप्तौ ?, किमारम्भौ युवामिति ॥ ५१५ ।। तावूचतुरिति म्लेच्छराजपुत्राविहागतौ । साकेतपुरवास्तव्यावावां पित्रा निराकृतौ ॥ ५१६ ।। तदावाभ्यामिहागत्य, यूयमेव निषेविताः । विना सत्प्रभुसेवाभिः, क पूर्यन्ते मनोरथाः ? ॥ ५१७ ॥ इति श्रुत्वा तयोर्वाचं, तदा चण्डालशेखराः । ते बभूवुर्मुदाऽऽमोदमन्दिरं मेदुरप्रभाः ॥५१८ ॥ तदाऽऽनन्दमयैरेभिस्तावेतौ परिणायितौ । स्वाजन्याय स्वपुत्रीभ्यां, लताभ्यामिव भूरहो ॥ ५१९ ॥ ब्रह्मचर्येण रोचिष्णुरथ मेघरथः कृती | वसँस्तत्रैव वर्षेण, तां विद्यां वशमानयत् ॥ ५२० ॥ विद्युन्माली तु चाण्डाली, तामकामयताधमः।साऽपि गर्म दधौ तस्य, स्थिरीकरणकार्मणम् ॥ ५२१ ॥ असिद्धमथ सिद्धस्तमाह मेघरथस्तदा । किमकारि त्वया मूढ !, मग्नोऽसि म्लेच्छवारिधौ ॥ ५२२ ॥ इत्याकर्ण्य त्रपानम्रो, विद्युन्माली जगाद तम् । एकवारं सदाचार ! १, क्षम्यतां विप्लवो मम ॥ ५२३ ॥ इदानीं साधयिष्यामि, विद्या निर्जितमन्मथः । वाच्यः प्रीतिप्रकर्षेण, वर्षेणाहं त्वया पुनः ॥ ५२४ ।। एवमस्तु गदित्वेति, स्फुरद्विद्यापदच्छदः। धीमान् पक्षीव वृक्षाग्रमासरोह नभस्तलम् ॥ ५२५ ॥ समयान्ते समायातः, समया तं पुनः कृती । बन्धुप्रेमगुणाकृष्टो, म्लेच्छं विद्याधरोऽपि सः ॥ ५२६ ॥ अमे तावदसौ विद्युन्माली बालं करे धरन् । पुनर्गर्भितचण्डालीशाली तेन विलोकितः ॥ ५२७ ॥ सोऽपि मेघरथं वीक्ष्य, त्रपयाऽभूदधोमुखः । रसातलप्रवेशाय, द्रष्टुं रन्ध्रमिवावनौ ॥५२८ ॥ उक्तो मेघरथेनाथ, वन्धो ! बन्धोऽयमेतया । कुतः शटितया रज्ज्वा, गजस्येवाभवत् तव? ॥ ५२९ ॥
अथाघोमुख एवेदं, विद्युन्माली जगाद तम् । वन्धो । विद्याऽमुनाऽब्देन, साध्या शोध्योऽस्म्यहं पुनः ॥ ५३०॥
१ "दि सदा साधु पाता० ॥ २ ततस्तौ सेवया प्रीती, रतौ पता० ॥ ३ हतौ ? कुतः वता॥४तेनावलोखंता॥