________________
समपतिचरितापरनामकं . [अष्टमः 'निशम्येति गतः सोऽपि, यावद् वर्षत्रयं पुनः । एहिरेयाहिरी चक्रे, मनो मोहे तु सोऽधमः ॥ ५३१ ॥ दुःखदावामिदाहाय, नाहं मोहाटवीतरुः । तन्वि ! तद्वद् भविष्यामि, स्त्रीलताजालवेष्टितः ॥ ५३२ ॥ ' गिरं कनकसेनाऽथ, सुधामाथभवामिव । अभ्यधाद्धारिणीपुत्रं, प्रति प्रतिकृती रतेः ॥ ५३३ ॥ शास्त्रव्यापारपारीणो, धुरीणो बुद्धिशालिनाम् । एष्यस्यनुशयं नाथ!, त्वं शङ्खधमको यथा ॥ ५३४ ॥
शङ्खधमकाख्यानकम्
शालिग्राम इतिग्रामः, ख्यातःक्ष्मातलभूषणम् । लोलश्रीकेलिशैलाभकणकूटोऽस्ति विस्तृतः ॥ ५३५ ॥ कौटुम्बिकस्य कस्यापि, तत्रैकः क्षेत्ररक्षकः । प्रेष्योऽजनि ध्वनकम्बुनादत्रासितभक्षकः ॥ ५३६ ॥ एकदाऽयमुपादाय, पाणौ शङ्ख निशामुखे । दूरे जगाम प्रामस्य, क्षेत्ररक्षणदक्षिणः ॥५३७ ॥ निशीथसमये हृत्वा, कुतोऽप्यतिघनं धनम् । तत्क्षेत्रस्य समीपेन, चौराः केचित् तदाऽचलन् ॥ ५३८ ॥ तेन तत्रान्तरे क्षेत्रान्तरे मालाग्रवर्तिना । कम्बुरम्बुधरध्वानवाद्यऽवाद्यत हेलया - ॥५३९ ॥ तदाकर्ण्य तदा कम्बुशब्दितं ते मलिम्लुचाः । त्यक्त्वाऽऽशु गोधनं नेशुः, प्राप्तारक्षकशङ्कया॥ ५४० ॥ तत् तस्य गोधनप्राप्तिपुण्याकर्षणमन्त्रताम् । ततान कम्बुनिःस्वानगौरवं चौरवञ्चकम् ॥ ५४१ ।। विभातायां विभावर्या, चर्या कुर्वन् स गोधनम् । वीक्ष्य निःशेषमादाय, दातुं ग्रामाय चागमत् ॥ ५४२ ॥ अथ ग्रामस्य काम से, पूरयन् भूरिगोधनैः । दत्तस्तदा यथा दुःस्थं, ययौ धनदयक्षताम् ॥ ५४३ ॥ अन्यदाऽपि निशीथिन्या, निशीथे गोधनाशया। क्षेत्रमालाधिरूढोऽसौ, शङ्ख धमति धैर्यवान् ॥ ५४४ ॥. त एव तस्करास्तत्र, निशीथेऽन्येधुराययुः । हृताद्भुतधना धैर्यजितकीनाशकिकराः ॥५४५॥ दध्मौ शङ्ख क्षणेऽमुष्मिन् , सोऽपि क्षेत्रस्य रक्षकः । आह्वातुमिव दुर्बुद्धिर्दूरादापदमात्मनः ॥ ५४६ ॥ आकर्ण्य ते तदा कम्बोः, शब्दमब्दविजित्वरम् । किमेतदिति संरब्धाश्चौराश्चिरमचिन्तयन् ॥ ५४७ ॥ अत्रैव शङ्खशब्दोऽभूत् , पुराऽपि प्रापितज्वरः । भयादकस्मादस्माकमाकस्मिकविकस्वरः ॥ ५४८ ॥ नरः शङ्केऽस्ति केदाररक्षकः शङ्खवादकः । भ्रमिताः स्मः पुरा स्पष्टं, कष्टं तेन दुरात्मना ॥ ५४९ ॥ इति निश्चित्य ते चौराः, शङ्खस्वनमनूद्यताः । स शङ्खधमको यत्र, तत्र क्षेत्रान्तरे ययुः ॥ ५५० ॥ मुष्टिभिस्ताडयित्वा तं, भक्त्वा शङ्ख च सक्रुधः । हृत्वा च तद्धनं मख, चौरास्ते जग्मुरुन्मुदः ॥ ५५१॥ प्रभूते सति वित्तेऽस्मिन्नधिकाधिकवाञ्छया । स इव त्वं विदग्धोऽपि, भव मा पदमापदाम् ॥ ५५२ ॥
, अथ जम्बूः स तामाह, सतामाहतविप्लवः । स्यामहं किमु ? मूर्खत्वान्मुमूर्षुः स कपिर्यथा ॥ ५५३ ॥ वानराख्यानकम् अस्ति हस्तिकुलोत्खातै, रत्नै रेवाम्बुवाहितैः । रलाकरीकृताम्भोधिविन्ध्यो नाम धराधरः ॥ ५५४ ॥ अनेकमुनिमाहात्म्याददाहात्मकतां गतः । तद्वनान्तर्दव इवाभवत् कोऽपि कपीश्वरः ॥५५५ ॥ उद्भूतरुचिसम्भारास्तारा इव निशाकरः । कामं कामयते सर्वाः, स एकः कपिकामिनीः ॥ ५५६ ॥
१.सोऽपूरयद् भू खंतासं० ॥ २ °थाऽतुच्छ, ययौ पाता० ॥ ३ °न्यां, नि' वता० ॥ । ४ °पदः खता० पाता० ॥ ५ अशेषमुनि वता०॥ ६ वाऽभूत् कोऽपि कपियूथपः इत्येवंरूपः पाठः वंता० पाता० ॥ ७ तभूरिसञ्चारा खता० ।।