________________
सर्गः1 ।
धर्माभ्युदयमहाकाव्यम् । कपिः कोऽप्यसलंमन्यः, कदाचिन्मदनातुरः । वञ्चयित्वाऽधिपं रेमे, तत्प्रियाभिर्मयोज्झितः ॥ ५५७ ।। तं युवानं बलिष्ठं च, वीक्ष्य शाखामृगस्त्रियः । जरत्कपिरतोद्विग्ना, दधुर्मुदमुदित्वरीम् ॥ ५५८ ॥ सममेष परीरम्भसम्भ्रमेण कपिस्त्रियः । काम-कोपवशात् कम्पसम्पदा पदमादधौ ॥ ५५९ ॥ स ताश्च नख-दन्तादिमृदुकण्डूयनादिकम् । रचयामासुरन्योन्यं, रहो गलितचेतनम् ॥ ५६० ॥ अथ यूथपतिर्दूरादेतदालोक्य दुःसहम् । अधावत् तावूत्कार, लहरीजित्वरत्वरः युवा कपिरपि प्रेक्ष्य, तं समायान्तमभ्यगात् । जवान्जितंतु चेतोऽपि, मुक्त्वा स्त्रीमध्य एव सः ॥ ५६२ ॥ गृहीतगृहिणीकोपसाटोपहृदयं तदा । स तं वालीव सुग्रीवमुग्रक्रोधमयोधयत्
॥ ५६३ ।। परस्परपरिक्षिप्तप्रतीष्टयावलोष्ठकैः । तौ घ्नन्तौ वनदेवीनामाश्चर्य चक्रतुश्विरम् ॥५६४ ॥ अथ कच्छाभपुच्छौ तौ, क्षुरीकाराविव क्षणात् । ऊवौं पाश्चात्यपादाभ्यामहं विविशतुर्मिथः ॥ ५६५ ॥ जवेनाथ जरन् दूरागतिखिन्नः कपीश्वरः । यूना स्त्रीदृष्टिपुष्टेन, निर्भग्नस्त्रासमासदत् ॥ ५६६ ॥ शिलाजतुनि स क्षित्वा, मुखं सलिलकाङ्कया । उद्धर्तुमक्षमः पाणी, मूर्खः प्राणकृतेऽक्षिपत् ॥ ५६७ ॥ तावत् तावपि तत्रैव, विलग्नौ वज्रलेपवत् । तदुद्धारघिया मूर्खः, पश्चात् पादौ न्ययुङ्ग तत् ॥ ५६८ ॥ लैनौ तावपि तत् तत्र, सतृप्णस्य क्रमौ हरेः । तेन कीलितसर्वाङ्ग, इव मृत्युमवाप सः ॥ ५६९ ॥ तदक्षिसपदः पूर्वमाकृषेद् वदनं स चेत् । अवश्यं तस्य तन्न स्याद् , दुर्मतेर्मृत्युरीदृशः ॥ ५७० ।। भवादृशां वचस्तृष्णाप्रेरितोऽहमपि भ्रमात् । सजामि रागगैरेये, गौराङ्गि! कपिवन्नहि ॥ ५७१ ॥ - नभःसेनाऽथ वक्ति स्म, व्यक्त लोभेन भूयसा ।नाथ! यास्यसि निर्बुद्धिबुद्धिस्त्रीवोपहास्यताम् ॥५७२॥
बुद्धिस्त्रिया आख्यानकम्
ग्रामः सस्यश्रियां धाम, नन्दिग्राम इति श्रुतः। अस्ति विस्तीर्णकेदारसङ्कीणीभूतभूतलः ॥ ५७३ ॥ तन्त्र सिद्धिश्च बुद्धिश्च, प्रसिद्ध वृद्धयोषितौ । अभूतां स्फारदारियमन्दिरे सख्यसोदरे ॥५७४ ॥ प्रामेऽत्र भोलिगो नाम, यक्षो विख्यातवैभवः । वित्तस्याभूत् प्रभूतस्य, दाता सेवाधने जने ॥ ५७५ ॥ सिद्धिराराधयामास, ततस्तं भक्तिभासुरा । दीनारद्वितयं तुष्टो, ददौ तस्यै स चान्वहम् ॥ ५७६ ॥ अभुक्त काठपात्रे या, सा भुङ्के हेमभाजने। दास्य व्यधत्त याऽन्येषां, तस्या दास्योऽभवन् गृहे ॥ ५७७ ।। कुटीरे याऽवसद् भग्ने, सौधे वसति साऽनिशम् । दधौ या चीवरं जीर्ण, दुकूलैः साऽनुकूल्यते ॥ ५७८ ।। इत्थमालोक्य तां वुद्धिः, सिद्धिं सिद्धोरुवैभवाम् । प्रीत्या रहसि पप्रच्छ, साकूतं कौतुकादिति ॥ ५७९ ।।
॥ विशेषकम् ॥ कुलक्रमागतः स्वामी, दारिनं तावदावयोः । कुतो विभवपाथोधिजलदेवीव वर्तसे ? ॥५८० ॥ अथ सा कथयामास, तुष्टो यक्षः स भोलिगः । दीनारद्वितयं दत्ते, सम्पन्नेत्राभमन्वहम् ॥५८१ ॥ इति तस्य निशम्यासौ, वाचं निश्चित्य चेतसि । तमाराद्धवती यक्षं, बुद्धिर्भक्तिभरोतरा ॥ ५८२ ॥
१°रपूत्कारलह पाता० ॥ २ °वनोलकैः खंता० पाता० ॥ ३ ५६९-७० श्लोकयुगलस्थाने-लग्नौ • तावपि तत् तत्र, मृत्युमाप स दुर्मतिः । अप्रक्षिप्तपदः प्राणानाचकर्ष यदाननम् ॥ इत्येवंरूप
एक एव श्लोकः पाता. पुस्तके वर्तते ॥ ४ तत्रैव, सत खंता०॥ ५ दृशवच पाता० ॥ ६ द्धिस्त्वं बुद्धिस्लीव हास्य खंता. पाता०॥ ७ अभुङ खंता०॥ ८ थोघर्जल पाना० ॥