________________
सङ्घपतिचरितापरनामकं'
[ अष्टमः
॥ ३५७ ॥
यत्र लोक चमत्कारि, भवताऽकारि शब्दितम् । तदत्याजि पयो दूरे, वायुपूरेद्धपोततः उत्तीर्य तन्मनः खेदानेदानीं लभ्यते मणिः । नौवित्तेनेति नीतिज्ञो, बोधितो मौनमाप सः ॥ ३५८ ॥ तद्वत्र भवाम्भोधौ, रत्नं मानुषजन्म यत् । सुधर्मस्वामिपोतेऽपि, लब्धे किं हारयामि तत् ॥ ३५९ ॥ पद्मसेनाऽथ निश्छद्मसेना कन्दर्पभूभुजः । श्रीजम्बूस्वामिनं प्राह व्रतोत्साहधुरन्धरम् ॥ ३६० ॥ मो भूत्वमुभयभ्रष्टस्तौ राज्ञी - जम्बुकौ यथा । तयोः शृणु कथामेतामस्मिन्नेव पुरे पुरा ॥ ३६१ ॥ राशी- जम्बुकयोराख्यानकम्
126
॥ ३६२ ॥
३६३ ॥
॥
॥
३६७ ॥
धनेन धनदाकारः, स्वर्णकारशिरोमणिः । देवदत्त इति ख्यातिपात्रं धात्रीतलेऽभवत् तस्याभूद् देवदिन्नाख्यः, सूनुर्विष्णोरिव स्मरः । कामभूमीपतेर्दुर्गं, दुर्गिलाऽस्य प्रियाऽभवत् ॥ एकदा सा स्वयं नद्यास्तीरे नीरेच्छया ययौ । वक्षोजतुल्यताप्रीत्या, कुम्भौ मूर्धनि बिभ्रती पटौ तटे तटिन्याः सा मुक्त्वा मज्जनकाङ्क्षया । विवेश पयसः क्रोड, निवडक्रीडया रयात् सहेलं तत्र खेलन्तीं, महिलां महिलां मदात् । व्यालोकयद् युवा कोऽपि कन्दर्पज्वरजर्जरः ॥ तरुणस्तां प्रति प्राह स साहसनिधिस्ततः । तव पृच्छन्ति सुखातं, तरवस्तन्वि ! नन्विमे ॥ तयाऽपि तन्मनःसभ्यमभ्यधायि तदा मुदा । एभ्यः स्वस्ति तरुभ्योऽस्तु, स्पृहा पूर्णाऽस्तु पृच्छते ॥ मंदनस्तदनेनामुं, वचसा जितपत्रिणा । जघान हृदये तूर्णं, घूर्णमानशिरोऽम्बुजम् तत्तद्भाषितपीयूषैः, सिक्तेऽस्य वपुषि क्षणात् । श्यामो रराज रोमाञ्चः, शृङ्गाराङ्कुरकोटिवत् ॥ ३७० ॥ बालान् फलार्थिनस्तीरसहकारतरोस्तले । कृत्वा फलभरैः प्रीतानपृच्छत् केयमित्यसौ नाम्ना धाम्ना च तां मत्वा, शिशुभ्यः स वहन् मुदम् । कृतार्थप्रायमात्मानं, मेने मन्मथसन्निभः ॥ ३७२ ॥ स्नात्वां साऽपि सरितीरे, स्थिता साकं सखीजनैः । जलक्किन्नाङ्गसंलग्नस्वप्रभानिहुतांशुका ॥ ३७३ ॥ शती `कटाक्षनाराचैरमुं भ्रूचापचापलात् । चचालाथ मनःस्मेरमदना सदनासा
३६८ ॥
॥ ३६९ ॥
॥ ३७१ ॥
३७४ ॥
॥
॥
चक्षुष्प॑थमथ त्यक्त्वा, गतायां तत्र तापवान् । तदङ्गसङ्गसुभगे, तत्राम्भसि ममज्ज सः उपचारैस्ततः स्फारैः, कामी कामपि तापसीम् । अयमाराधयामास, कुलटाकुलदेवताम् ॥ तापसी तापशीर्णाङ्गमनङ्गाहतमाह तम् । प्रीता क्रीताऽस्मि दानेन, किङ्करेव करोमि किम् ? युवाऽप्युवाच तां मातर् !, देवदिन्नस्य वल्लभाम् । देवदत्तस्नुषां नाम्ना, दुर्गिलां मम मेलय ॥ प्रार्थिता कुर्वती केलिलीलां कल्लोलिनीजले । मम भ्रूभङ्गभङ्गीभिः, सङ्गमङ्गीचकार सा तंदूरीकृत्य सा भैक्षच्छद्मना सद्मगामिनी । जगाद दुर्गिलां व्यग्रां, स्थालीक्षालनकर्मणा तया कुपितया ताह, वदन्ती तापसी ततः । निर्भर्त्स्य पृष्ठे हस्तेन हता स्थालीमषीजुषा इत्यवज्ञावशाज्जातपश्चात्तापाऽथ तापसी । तदेतत् कथयामास, तस्यावासमुपेयुषी वीक्ष्य दक्षः स तं हस्तं, श्यामं पञ्चाङ्गुलीयुतम् । स्वं कृष्णपञ्चमीरात्रौ, निमन्त्रितममन्यत सं पञ्चेषुप्रपञ्चेषु, विपश्चित् पञ्चमीतिथौ । तपस्विनीं पुनः प्रैषीद्, भक्तिभिर्दुर्गिलां प्रति अविक्षा च सौ भिक्षादम्भसंरम्भसंवृता । देवदत्तगृहं गत्वा, पुनस्तामाह साहसात्
३६४ ॥
३६५ ॥
३६६ ॥
॥ ३७५ ॥
३७६ ॥
३७७ ॥
३७८ ॥
३७९ ॥
३८० ॥
॥ ३८१ ॥
॥ ३८२ ॥
॥ ३८३ ॥ ॥ ३८४ ॥
॥ ३८५ ॥
१ तार्य त पाता० ॥ २ मा भूदुभयथा भ्रष्टो दुर्गिलावद् भवानपि । तथा शृणु खंता• ॥ ३ कदापि सा खता० ॥ ४ लीवृतम्' खेता पाता० ॥ ५ सा दक्षा खंता० ॥
1