________________
सर्गः]
..
धर्माभ्युदयमहाकाव्यम् । गृहं कलाकलापस्य, निष्पुण्यानां शिरोमणिः। तनयस्तव भावीति, तां कोऽपि ब्राह्मणोऽवदत् ॥ ३२७ ।। अथासौ वासरैः पूर्णैः, पुण्यसाराभिधं सुतम् । असूत नूतनं चूतमिव काननमेदिनी ॥ ३२८ ॥ कलाचार्यकदम्वेभ्यः, स पपौ सकलाः कलाः । मुखेभ्यः सरितां श्रीमानपः पतिरपामिव ॥ ३२९ ॥ नन्दनी बन्धुदत्तस्य, नान्ना वन्धुमतीमसौ । धनावहेन सप्रीतिप्रवाहेण विवाहितः ॥३३० ।। कदाचित् त्रिदिवं याते, ताते कृतमृतक्रियः । समुद्धरतरस्कन्धो, गृहभारं वभार सः ॥३३१ ॥ अभाग्यैर्वैभवं तस्य, क्षीणं तच्चिरसञ्चितम् । सलिलं पल्वलस्येव, चण्डरोचिर्मरीचिभिः ॥३३२ ॥ अथासौ वैभवभ्रंशविगलत्पौरगौरवः । समारुरोह वोहित्थं, सुस्थितश्रेष्ठिना समम् ॥३३३ ।। लड्डयन लहरीः पोतो, हरीनिव महाभटः । तीर्खा युद्धमिवाम्भोधि, परं पारमवातरत् ॥३३४ ॥ आकारितं पताकाभिरिव सम्मुखमागतम् । रत्नद्वीपमथ प्राप्तः, पोतः पवनवेगतः ॥ ३३५ ॥ अन्तर्नलघि चाविश्य, दर्शितस्फारगौरवैः । नागरैस्त्याजितः कामं, पोतस्तरलतां तदा ॥३३६ ॥ उत्तीर्य धैर्यमालम्व्य, पोतात् प्राणभयादिव । अहंपूर्विकया लोकः, प्रपेदे द्वीपमेदिनीम् ॥ ३३७ ।। पुण्यसारस्तदा रत्नद्वीपे रत्नमहीतलम् । नित्यं खनत्यनिर्विणः, स्वदारियमिवोन्नतम् ॥ ३३८ ॥ निष्पुण्यः पुण्यसारोऽसावसाराणि कथञ्चन । रत्नान्यवाप नो चिन्तामणिं तु चिरचिन्तितम् ॥ ३३९ ॥ अहं समं समेष्यामि, नासम्पूर्णमनोरथः । इत्थं स कथयामास, गन्तुकामोऽथ सुस्थिते ॥ ३४०॥ समं तमसमायान्तमपि वित्तप्रदानतः । कृत्वा समुदितं तीर्णः, पोतेनार्णःपति वणिक् ॥ ३४१ ॥ स तथैव ततो रत्नखानि खनति नित्यशः । शतशो वार्यमाणोऽपि, तदधिष्ठातृदैवतैः ॥ ३४२ ॥ अपरेछुः खनन्नेप, दारिबध्वान्तदीपकम् । चिन्तामणि पुरोऽपश्यद्, दुरापं किमु निश्चितैः ।। ३४३ ॥ असावथ नमस्कृत्य, चिन्तामणिमयाचत । स्वर्णलक्षमपश्यञ्च, तत् तदैव गृहान्तरे ॥३४४ ॥ स्वर्ण रलं च तत् प्राप्य, तीरे नीरेशितुः स्थितः । नरस्य भमपोतस्य, संज्ञापदमुदञ्चयन् ॥ ३४५ ॥ नौवित्तधनदेवस्य, गैन्तुर्भोगपुरं प्रति । आरुरोह स वोहित्थे, नीतस्तत्प्रेषितैर्नरः ॥३४६ ।। पोते तद्विदितं हेनामारोपयदयं चयम् । तेषामकथयचिन्तामणिं न तु रहस्यवत् ॥३४७ ॥ एकदाऽसौ त्रियामायां, यामयुग्मे समुत्थितः । प्रीतो विभुं विभावर्या, विभावर्य न्यभालयत् ॥ ३४८ ॥
एताः श्वेतांशुभासः किं ?, किं ताश्चिन्तामणित्विषः । भान्ति क्लान्तिभिदः सोऽथ, चेतस्येतदचिन्तयत्
॥ ३४९॥ अथ प्रान्तिमिदे मूढः, कटीपटर्कुटीपुटात् । चकर्ष हर्षसम्पूर्णः, पूर्णेन्दुस्पर्धिनं मणिम् ॥३५० ॥ पश्यन्नसौ निशारत्नं, चिन्तारलं च तन्मुहुः । युतजातसुतद्वन्द्वनिभालिस्त्रीनिमो बभौ ॥ ३५१ ।। पपात वातकम्पेन, प्रमोद इव पिण्डितः । मणिस्तस्य करादधौ, रविरस्तगिरेरिव ॥ ३५२ ।। स्थाप्यतां स्थाप्यतां पोतो, मुषितोऽस्म्यहमब्धिना । इत्थं कलकलैः पूर्ण, तेने तेनेदमम्वरम् ।। ३५३ ॥ धनदेवस्ततः पोतं, मरुद्भगतिमतिष्ठिपत् । कुतस्त्वमाकुलतमस्तमपृच्छतुच्छधीः ॥ ३५४ ॥ प्रभाजितनभोरलं, चिन्तारत्नं ममापतत् । तदुद्धारय पाथोघेरस्मादस्माँश्च दुःखतः ॥३५५ ॥ जीवितव्यं मयि स्वस्मिन् , कीर्तिरारोप्यतां त्वया । हर्षात् कर्षय रलं तमित्युवाच शुचैव सः ॥ ३५६ ॥
१ सह खंता० ॥ २ सह समें खंता० ॥ ३त्वा प्रमुदि खंता० पाता० ॥ ४ कि सुनि खैता० ॥ ५ गन्तुं भोग खता० ॥ ६ कुटीपटा खता. पाता० ॥