________________
सङ्घपतिचरितापरनामक
[अष्टमः बोधयित्वा तदात्मानं, मानं वानर ! मा कुरु । यो अथा वर्तते कालस्तं तथैवानुवर्तय , ॥ २९८ ॥ इति प्रबोधितो देव्या, नृत्यन्नत्यद्भुतं तदा । निर्व्याजं रञ्जयामास, वानरः स नरेश्वरम् ॥२९९ ॥ कृतार्थीकृत्य पृथ्वीशस्तं वानरधरं नरम् । किमेतदिति तां राज्ञी, पप्रच्छ सपरिच्छदः ॥ ३०॥ '' विस्मितेनावनीशेन, पृष्टा स्पष्टमुवाच सा । स्वःसोपानतरङ्गाया, गङ्गायास्तीरकानने ॥ ३०१ ॥ किलाऽऽसीद् वानरद्वन्द्वमद्वैतप्रीतिमन्दिरम् । निर्दम्भस्मरसंरम्भरसप्रसरपेशलम् ॥३०२ ॥ तदन्यदा निदाघर्ती, क्रीडारसवशंवदम् । सममेव समारूढं, तीरवानीरभूरुहम् ॥३०३ ॥ ततः शाखामृगः शाखां, मन्दमन्दोलयन्नयम् । दूरतो विनिपाताख्यं, प्राप कापेयतः फलम् ॥ ३०४ ॥ वानरोऽयं नरो भूतस्तीर्थस्यास्य प्रभावतः । प्रियामालोकयामास, हर्षीत्सुक्यस्पृशा दृशा ॥३०५ ॥ भैरवादिव वानीराद्, वानरी साऽपतत् ततः । नारीभूता पतीयन्ती, तमेव निजवल्लभम् ॥ ३०६ ॥ गता ननु मनुष्यत्वमथ साऽप्यहह ! क्षणात् । जातजातिस्मृतिरिव, स्मरन्ती कपिजन्म तत् ॥ ३०७ ॥ ततो रतिः स्मरेणेव, प्रीतेन प्रेयसाऽथ सा । हर्षोत्कर्षादिहारण्ये, चिरं चिक्रीड संयुता ॥३०८ ॥ मुधाकृतसुधासाररससारतरैः फलैः । मुदा तदानीमेताभ्यां, हसिता धुसदोऽपि ते ॥ ३०९॥ क्रीडॅस्तया सहाऽन्येास्तं वानीरमवाप्य सः । तामुवाच युवा चक्षुः, क्षिपन् प्रेमोन्मुखं मुखे ॥ ३१० ॥ असौ पशूनां वानीरो, नरतां प्रथते यथा । तथा मन्ये मनुष्याणां, देवभावं प्रदास्यति ॥ ३११ ॥ प्रिये ! तदेहि वानीरमेनमारुह्य लीलया । पुनर्भूतलपातेन, देवभावोऽनुभूयते ॥ ३१२ ।। मनुष्यत्वेऽपि किं तुच्छमावयोर्विद्यते प्रिय ! ? । तेन वल्लभ ! लोभोऽयमतिमात्रो न युज्यते ॥ ३१३ ॥ वार्यमाणोऽपि वानीरात् , स वानरवरो नरः । झम्पासम्पातमाधाय, पुनर्वानरतां गतः ॥ ३१४ ॥ पूरितो दुःखपूरेण, नरत्वस्पृहयाऽथ सः । पुनः पपात वानीराद् , गतः पुरुषतां न तु ॥ ३१५ ॥ मानुष्यभावमोक्षाय, चटून्यतिपटूनि सः । तस्याश्चकार चक्रे तु, न तया तदमूढया ॥३१६ ॥ साऽहं तस्य प्रिया प्राप्ता, वसन्ती निर्जने वने । त्वत्पत्तिभिः सरित्तीरे, कृष्टैमत्पुण्यतन्तुमिः ॥ ३१७ ॥ अटव्यामटताऽनेन, पतिः प्राप्तः स एष मे । दक्षेण शिक्षितो नृत्यं, मां वीक्ष्य विकलोऽभवत् ॥ ३१८ ॥ तत् प्राणेश ! मया सोऽयं, निर्बुद्धिर्बोधितोऽधुना । ततो मयि विसंस्मार, प्रेमापस्मारमात्मनः ।। ३१९ ॥ इत्याकर्ण्य कृताश्चर्या कपेश्वर्यां स भूपतिः । लोभातिशयमेतस्य, दूषयामास मांसलम् ॥३२० ॥
तत् पुण्यसम्भवान् भोगान् , मुक्त्वा कास्न् परं पदम् । नाथ ! त्वमुभयभ्रष्टो, हास्यः स इव मास्म भूः
॥ ३२१ ॥ अथ स्म वाचमाचष्टे, जम्बूस्तां प्रेयसी प्रति । न स्यां विप्रतिसारस्य, वश्योऽहं पुण्यसारवत् ॥३२२॥ पुण्यसाराख्यानकम् पुरं भोगपुरं भोगहारिनारीमनोहरम् । अस्ति हस्तिमदामोदराजिराजगृहाङ्गणम् ॥ ३२३ ॥ श्रेष्ठी धनावहो नाम, तत्राजनि जनप्रियः । विभाव्य वैभवं यस्य, धनदोऽप्यधनायते ॥ ३२४ ॥ प्रिया गुणवती तस्य, जज्ञे श्रीः श्रीपतेरिव । मीनकेतुः स मीनत्वं, यल्लावण्योदधौ दधौ ॥ ३२५ ॥ देवोपयाचितशतैः, पूज्यपूजोपबृंहितैः । कृतप्रमोदसन्दर्भमथ गर्म बभार सा ॥३२६ ॥ ।
१ तथा प्रतिवर्तय खता० ॥