________________
सर्गः] धर्माभ्युदयमहाकाव्यम्।
७५ करटेऽन्तर्गते तत्र, क्रूरे चौर इव क्षणात् । आरक्षक इव ग्रीष्मो, गुदद्वारममीमिलत् ॥२७० ॥ भूरिवर्षासु वर्षासु, परासुस्तदसौ द्विपः । क्रोडे वीचीकरैर्नीतो, मात्रेव सरिता सुतः ॥२७१ ॥ गतोऽन्तर्वारिधेरेव, रेवावारिप्रवाहितः । इभः पोतनिमः काकं, साकं तमपि सोऽनयत् ॥ २७२ ।। अथ तस्य गुदद्वारि, विशद्वारिविदारिते । निःससाराहिदष्टस्य, चिराज्जीव इव द्विकः ॥२७३ ॥ आशु निःसृत्य संश्रित्य, वपुस्तस्य द्विपस्य सः । दिक्षुकाको वराकोऽथ, साक्षेपं चक्षुरक्षिपत् ॥ २७४ ॥ अयं तोयमयं विश्वं, पश्यन् नश्यश्चतुर्दिशम् । पुनावृत्य तत्रैव, तस्थौ करिकलेवरे ॥२७५ ॥ अथ वारिभरापूर्णे, ममे करिणि मनवान् । द्विकः सोऽपि तदाधारः, स्वामिनीवानुजीवकः ॥ २७६ ॥ काकवत् करिणः काये, स्त्रीनिकायेऽनुरागवान् । कथं नाम निमज्जामि, सोऽहं मोहेऽम्बुधाविव ? ॥२७७ ॥
अथाभाषिष्ट निश्छद्मश्रीः पद्मश्रीरदस्तदान वा नरवर ! प्रज्ञा, वानरस्येव तस्य ते ॥ २७८ ॥ वानराख्यानकम् जातख्याति क्षितावस्ति, हस्तिनागपुरं पुरम् । चन्द्राश्मकलशैर्यत्र, स्वयम्भुपयसः प्रपाः ॥ २७९ ॥ तत्रारिकेशरी नाम, क्षोणिसुश्रोणिवल्लभः । यद्यशोभिरशोभिष्ट, विष्टपं नित्यचन्द्रिकम् ॥ २८० ॥ अनेकदास-भूपालैरेकदा सहितो नृपः । मृगव्यायां जगामायमानीलनिचुलाञ्चितः ॥ २८१ ॥ वीरैः सह सहस्रेण, स विवेश वनाद् वनम् । घनाघनं निशानाथ, इव ताराभरैः समं ॥ २८२ ॥ वर्षत्सु शरधाराभिर्वी रेषु जलदेष्विव । निकुञ्जपुञ्जगेहेषु, निलीनं वनचारिभिः ॥२८३ ॥ गर्वात् तथा स्थिरीभूताः, सिंहास्तद्दत्तदृष्टयः । यथा मृगैर्मयोत्तालैर्दत्तफालैर्ललविरे ॥२८४ ॥ अथायं पृथिवीनाथो, मृगमाथोद्तश्रमः । अवाप तापच्छेदाय, जाह्नवी स्वयशःसखीम् ॥ २८५ ॥ जाह्ववीतीरकान्तारे, तद्वीरैः स्वैरचारिमिः । नानाविधसुधाहृयविद्यमानफलोत्सुकैः ॥२८६ ॥ अदर्शि कामिनी काऽपि, पुष्पभूषणभूषिता । प्रत्यक्षा वनदेवीव, वनश्रीरिव जङ्गमा ॥ २८७ ॥
॥युग्मम् ॥ अथाऽऽदाय नरेन्द्राय, ताममी काममूर्तये । अदर्शयन् वनाम्भोधिलब्धां श्रियमिव स्त्रियम् ॥ २८८ ।। एतां सुरनदीसेवाफलमाकलयन् नृपः । आदाय कुन्ददायाददशनामविशत् पुरीम् ॥२८९॥ सपत्नी रत्नगर्भाया, रलगर्मितभूषणाम् । पुण्यपण्यपरिक्रीतस्तां वितेने नरेश्वरः ॥२९० ।। अपरेधुः पुमान् कश्चिदिदं पुरमरञ्जयत् । अनात नर्तयन्नेकं, वानरं नरजित्वरम् ॥२९१ ।। अथ भूपाय केनापि, तदकथ्यत कौतुकम् । सोऽपि चाऽऽकारयाञ्चक्रे, तं नरं धृतवानरं ॥ २९२ ॥ तां प्रियां स्वर्वधूबद्धस्पर्धामर्धासनस्थिताम् | कुर्वन्नुर्वीपतिर्भजे, सम्मदैकास्पदं सदः ॥२९३ ॥ अनीनृतत् ततः सोऽपि, नरस्तं वानरं पुरः । तूर्याणि वादयन् दिक्षु, जिघृक्षुर्जनमानसम् ॥ २९४ ।। न वानरो नरीनर्ति, ताडितोऽप्यमुना पुनः । नृपप्रियामुखाम्भोजन्यस्तदृष्टिस्तु रोदिति ॥२९५ ॥ विलक्षे भिक्षुकेऽथास्मिन् , सा राज्ञी वानरं जगौ । अये! मया निषिद्धस्त्वं, तदा किमकृथास्तथा ॥२९६ ।। कृतक्षोमेण लोभेन, लम्भितोऽसीदृशीं दशाम् । हृताखिलकलाशोभोऽतिलोभो हि न शोभनः ॥ २९७ ॥
१'द्वारे, वि वता० ॥ २ ाघुट्य तत्रै पाता० ॥ ३ चीतार' खंता० ॥ ४ ना ततः। नृप खंता० ॥