________________
७४।
सङ्घपतिचरितापरमामकं .
. भमा { ,' तत्राऽभूत् कषुकः कोऽपि, ग्रामीणग्रामणीमहान् । . . . . '..: कङ्गु-क्रोद्रवमुख्यानि, धान्यानि वपति स्म सः
॥२४५॥ अथ धान्योत्करे तस्मिन् , प्राच्यपुण्य इवोदते । अकुण्ठस्वजनोत्कण्ठो, दूरग्राम जगाम सः ॥ २४६ ।। जहषुः कर्षके तत्र, दृष्टेऽपि स्वजनास्ततः । घनाघन, इवौत्सुक्यप्रचलाः प्रचलाकिनः , ॥२४७ ।। तं नमश्चक्रिरे केऽपि, केऽपि तेन च नीचकैः । गृहं तदा तदीयं तत् , तोषैकार्णवतां गतम् ॥ २४८ ॥ अथो पृथुगुडस्पष्टस्वादुमण्डकमण्डलीम् । अभुक्तपूर्वी पूर्णेन्दुमालामिव स भोजितः ॥ २४९॥ .
सहर्षः कर्षकोऽवादीत् , ततस्तान् स्वजनान् निजान् । भोः! सुधाऽपि मुधा तत्र, यत्रैते गुडमण्डकाः
॥ २५०.॥ तद् दत्त बीजमेतेषां, निजग्रामे वपामि यत्। येन तस्मिन् समस्तोऽपि, स्यात् सुधाभोजनो जनः ॥ २५१ ॥ . ' इक्षु-गोधूमयो/जमेतैस्तस्य समर्पितम् । अरघट्टेटुवाटादिकर्मापि ज्ञापितं ततः ॥२५२ ।। बीजं मुदा तदादाय, सदनाय समुत्सुकः । दुःस्थो धनमिवोपायॆ, तदाऽनार्यः स निर्ययौ ॥ २५३ ।। सद्यः स्वग्राममासाद्य, वार्यमाणोऽपि नन्दनैः । जातकल्पमपि स्वल्पमतिः क्षेत्रं लुलाव सः ॥ २५४ ॥ सञ्चितेनाथ वित्तेन, तेन मण्डकलोभिना । पातालरूपः कूपोऽत्र, निर्मातुमुपचक्रमे ॥२५५ ॥ खानं खानं ततः कूपं, नोदबिन्दुरपीक्षितः । तेन-भाग्यच्युतेनेव, द्रव्यांशोऽपि धनार्थिना ॥२५६ ॥ अधन्यस्य न धान्यानि, न चार्थश्विरसञ्चितः। अतिलुब्धस्य तस्याऽऽसन् , न च ते गुडमण्डकाः॥ २५७ ॥ त्वमप्युपनतानेवं, प्रभो! भोगान् परित्यजन् । मुक्तिश्रीसुखलोभेनोभयभ्रष्टो भविष्यसि ॥२५८ ॥ " अथ जम्बूकुमारोऽपि, तामुवाच वचस्विनि!। मांसातिलोलकाकोलकेलिं न कलयाम्यहम् ॥२५९॥
"
मांसलोलुपस्य काकस्याख्यानकम्
धात्रीधम्मिलतुल्योऽस्ति, प्रसिद्धो विन्ध्यभूधरः। सोत्सेकाः केकिनो यत्र, गर्जद्भिः कुरैनैः ॥ २६० ॥ सझेप इव विन्ध्यस्य, महिमेव च जङ्गमः । कोऽपि क्रोडेऽस्य चिक्रीड, दुर्धरः सिन्धुरेश्वरः ॥ २६१ ॥ अथ दुर्भूपवद् भीष्मे, ग्रीष्मे तापयति क्षितिम् । विन्ध्याद्रितनयां रेवां, सेवार्थमुपजग्मिवान् ॥ २६२ ॥ स कुञ्जरो जरोपात्तशक्तिविस्खलत्पदः । श्रोतस्तीरावनीखण्डे, गण्डशैल इवापतत् ॥ २६३ ॥
" || युग्मम् ॥ दन्तिनो दुर्बलस्यास्य, कान्तारान्तरपातिनः । असुरत्नं हृतं कालकिङ्करैस्तस्करैरिव ॥२६४ ।। दुष्टाः संवेष्टयामासुर्गतासुमथ तं द्विपम् । शृगालप्रमुखाः स्वामिमुक्तं पुरमिवारयः ॥२६५ ॥ आहृत्यांऽऽहृत्य मांसानि, विस्तीर्ण ते वितेनिरे । द्विरदस्य गुदे द्वार, नरकस्येव दुर्धियः ॥ २६६ ॥ द्वारेण करिणस्तेन, करटाश्चरटा इव । सारमास्वादयामासुः, प्रविश्याऽऽशु सहस्रशः ॥२६७ ॥ निगोद इव तत्रैव, तन्वानानां गताऽऽगतम् । जन्तूनामिव काकानां, कोऽप्यभव्य इव स्थितः ॥२६८ ॥ अन्तरन्तर्ययौ काको, मांसान्यास्वादयन्नयम् । खनन् गजपतेरङ्ग, सुरङ्गाकृदिव क्षितिम् ॥ २६९ ॥
१ धाऽप्यत्र पाता० ॥ २ मतिस्व खंतासं० पाता. ॥ ३ चार्थाश्चिरसञ्चिताः खंता० ॥ . ४ °मग्री खंता० ।। ५ आहार्याऽऽहार्य मां पाता० ॥ ६ द्वारा करटिनस्तेन, पाता० ॥