________________
सर्गः " ]
धर्माभ्युदयमहाकाव्यम् ।
व्रतव्रततिवृक्षेण, यशोनिर्झरभूभृता । कर्मकुञ्जरसिहेन, तेनारण्यानि रेजिरे
भावनां भावयन्नेष, स्मृतपञ्चनमस्कृतिः । जगाम त्रैदिवं धाम, कामसामजकेशरी
- मत्वा कुबेरसेनाऽपि तादृग् विषयविप्लवम् । भवे विरक्ता जग्राह गृहवासोचितं व्रतम् इत्थं कथाप्रथापाथोधौतमोहमलस्य मे । कुतो ज्ञातेयसम्बन्धः, प्रभव ! प्रभविष्यति ?
राजपुत्रः पुनः प्राह, कुतोऽपुत्रस्य ते गतिः । जगाद जम्बूः पुत्रस्य, कथयामि कथां शृणु ॥ २२३ ॥
महेश्वरदत्ताख्यानकम्
७३
॥ २१९ ॥
॥ २२० ॥
॥
२२९ ॥
॥ २२२ ॥
- अस्ति देवालयस्तम्भोत्तम्भितव्योममण्डपा । निकेतमालिनी ख्याता, पुरी नाम्ना तमालिनी ॥ २२४ ॥ श्रीमहेश्वरदत्तोऽभूदिभ्यस्तत्र पुराग्रणीः । प्रथितः प्रौढमिथ्यात्वपाथोधिजलकुञ्जरः ॥ २२५ ॥ दुश्चारिणीकुलाचार्यभूता भूताऽस्य वल्लभा । नागिलेति पुरि ख्याता, कामारामैकसारणिः ॥ २२६ ॥ सोऽन्यदा महिषं हत्वा जनकश्राद्धपर्वणि । अङ्कस्थं तस्य मांसेन, लग्नो भोजयितुं सुतम् ॥ २२७ ॥ तदा च गृहमभ्येत्य, वलितो वक्रिताननः । दृष्टश्रेष्ठी मुनिश्रेष्ठः पठन् श्लोकमिमं मुहुः ॥ २२८ ॥ पुष्णाति स्वपितुर्मासैः, शत्रुमुत्सङ्गसङ्गिनम् । विधत्ते च पितुः श्राद्धमहो ! मोहविजृम्भितम् ॥ २२९ ॥ महेश्वरस्तदाकर्ण्य, तूर्णमेत्य मुनीश्वरम् । नत्वाऽपृच्छत् प्रभो ! प्रोक्तं, किमेतदसमञ्जसम् ॥ २३० ॥ इत्याग्रहपरे तत्रोवाच वाचंयमाग्रणीः । विज्ञाय ज्ञानतस्तस्योपकारं करुणापरः ॥ २३१ ॥ नागिलायाः किलाssयातो, यस्त्वयोपपतिः पुरा । अघानि घनमावासक्रोडे क्रीडन् यदृच्छया
॥
तत्कालमेव मुक्तात्मवीर्य एवावतीर्य सः । नागिलोदरजातत्वात्, तवायं तनयोऽभवत् महिषस्याऽऽमिषैर्यस्य, भवता तर्पितः पिता । जीवः समुद्रदत्तस्य स एष भवतः पितुः याऽसौ शुनी पुनर्द्वारि, महिषास्थीनि खादति । मन्यस्व मतिमन्नेतां, स्वामम्बां बहुलाभिधाम् त्वद्गृहे ज्ञानतो ज्ञात्वा, तदेतदसमञ्जसम् । तद्बोधाय तव श्लोकं, पठित्वा बलितोऽस्म्यहम् ॥ यदिदं भवताऽख्यातमत्र कः प्रत्ययः प्रभो !! । पृष्टो महेश्वरेणेति स मुनिः पुनरब्रवीत् ॥ २३७ ॥ अन्तर्गृहं शुनी नीता, जातजातिस्मृतिः सती । रत्नजातं तदेषा तन्निखातं दर्शयिष्यति ॥ २३८ ॥ इत्युदित्वा मुनौ याते, या तेन कथिता शुनी । तत्तथा दर्शितं तस्मै, तयाऽन्तर्गृहनीतया ॥ २३९ ॥ साधोराधोरणस्येव, स तस्माद् वचनाङ्कुशात् । उत्पथस्थितिमव्याजं, तत्याज श्रेष्ठिकुञ्जरः ॥ २४० ॥ पितृ-पुत्रादिसम्बन्धमवबुध्येति विप्लुतम् । मन्यते मित्र ! नत्राना, तदात्माऽपि कुतः सुतः ॥
२४१ ॥
अमुद्रश्रीः समुद्रश्रीः, प्रियमित्थमथाभ्यधात् । प्रेममुक्त! मयाऽप्युक्तं, युक्तमित्यवधार्यताम् ॥ २४२ ॥ इमां विभूतिमुद्भूतां, मुक्तत्वा मुक्त्यै कृताग्रहः । मा भूस्त्वमुभयभ्रष्टः, स्वामिन्! स इव कर्षुकः ॥ २४३ ॥ कृषिकाराख्यान कम्
॥ २३२ ॥
॥ २३३ ॥
॥ २३४ ॥
२३५ ॥
२३६ ॥
ग्रामः सुसीमनामाऽस्ति, सीमन्तो देशसम्पदः । निवासदुर्ग यः श्रीणां सर्वतः कणपर्वतैः ॥ २४४ ॥ १ प्रथितप्रौढ संता• ॥
६० १०