________________
सापतिचरितापरनामक . तो तयोः श्रेष्ठिनोर्यत्नात् , संवर्धतेसहोदरौं । यथा बलक्षपक्षस्य, कौमुदी-कौमुदीपती ॥ १४९ ॥ अङ्गुलीमुद्रिकानाम्ना, ख्यातयोरेतयोमिथः । विवाहं चक्रंतुः श्रेष्ठिमुख्यौ तौ युग्मिनोरिव ॥ १९० ॥ क्षिप्ता कुबेरदत्चेन, प्रेमवत्याः करेऽन्यदा । निजनामाकिता मुद्रा, वैराग्यस्येव पत्रिका ॥१९१ ॥ वीक्ष्य मुद्रा स्वमुद्रावत् , प्रियं सा प्राह विस्मिता। नाम्नाऽङ्गेन च किं साम्यमनयोरावयोरिव १ ॥ १९२ ।। तदावा सौदरौ शङ्के, नानयोः श्रेष्ठिनोः सुतौ । आभ्यामपि कचिल्लब्धावज्ञानात् परिणायितौ ॥ १९३ ॥ सत्यमत्याग्रहादद्य, प्रष्टव्यौ पितरौ ततः । ज्ञातव्यमेव जन्म स्वमालोच्येति समुत्थितौ ॥१९४ ॥ पितरावाग्रहात् पृष्ट्वा, मत्वाऽऽत्मचरितं च तत् । निश्चित्य सोदरत्वं च, पाणिग्रहमशोचताम् ॥ १९५ ॥ इति निःसारसंसारवैराद वैराग्यवासितौ । स्थितावधोमुखावेव, प्रगे कुमुदिनीन्दुवत् ॥ १९६ ॥ ततः कुबेरमापृच्छय, पितरौ च विरक्तया । कुबेरदत्तयाऽग्राहि, जिनदीक्षाऽतिदक्षया ॥ १९७ ॥ स्वयं नामांङ्कितं मुद्रारलमस्थगयच्च सा । बोधं कुबेरदत्तस्य, मूर्तिमन्तमिवोज्वलम् ॥१९८॥ गतः कुबेरदत्तस्तु, भूरिक्रीतक्रयाणकः । मथुरायां पुरि स्फारव्यवहारविहारतः ॥१९९ ॥
यस्यां कुबेरसेनायामुत्पन्नः स किलाऽभवत् । "
शशी निशीव कान्तोऽभूत् , तस्या एव स धिग् ! विधिम् ॥२०० ।। कालात् कुबेरसेनायां, कुबेरस्य सुतोऽभवत् । भवव्यामोहसर्वस्वसारेणेव विनिर्मितः ॥२०१॥ ____ अथोत्पन्नावधिज्ञाना, बन्धोर्बोधार्थिनी ततः । सर्व कुवेरदत्ता तदपश्यदसमञ्जसम् .॥ २०२ ॥ गोपितस्वाङ्गुलीयाऽसावनुज्ञाप्य प्रवर्तिनीम् । भवाब्धौ मज्जतो भ्रातुर्वेडेव मथुरां ययौ ॥ २०३ ॥ पुरः कुबेरसेनाया, याचित्वा वसतिं च सा । तस्थावस्थानकेऽप्यन्योपकृतिः कृतिनां व्रतम् ॥ २०४ ॥ पुरः स्फुरन्तमालोक्य, कुवेराङ्गाजमन्यदा । व्रतिनी व्रतिनीतिज्ञा, सा बभाषे मृषोज्झिता ॥२०५ ॥ ___बाली त्वमसि मे पत्युः, सोदरत्वेन देवरः । माता तथाऽऽवयोरेका, तेनासि मम सोदरः ॥२०६॥ जातोऽसि मैम पत्या त्वमपत्यमिति तेन मे । त्वत्पिता मे सपत्नीभूः, पौत्रस्त्वमसि मे ततः ॥ २०७॥ मन्मातुः पतिसोदर्यस्त्वं पितृव्योऽसि तन्मम । सहोदरस्य सूनुस्त्वं, भ्रातृव्योऽप्यसि मे ततः ।। २०८ ।। माताऽपि तव माता मे, धृतावावां ययोदरे । सा मन्मातृभुजङ्गस्य, माता तन्मे पितामही ॥ २०९ ॥ मत्सपत्नीतनूजस्य, पत्नी सा मे वधूरिति । मद्भर्तुः साऽभवन्माता, मम श्वश्रूरतो मता ॥२.१० ॥ मदान्धवस्य पत्नी सा, भ्रातृजाया ततो मम । सा पुनर्मत्पतेः पत्नी, सपत्नीति ममाभवत् ॥२११ ॥ .
मज्जनन्या भुजङ्गो यत्, त्वत्पिता तत् पिता मम ।
मत्पितॄन्यस्य ते सोऽभूत् , पिता तन्मे पितामहः ॥२१२ ॥ मम तस्य च माताऽभूदेका मे सोदरः स तत् । मद्भर्तृजननीभर्ता, स तेन श्वशुरोऽपि मे ॥ २१३ ॥ स च जग्राह मत्पाणि, जातः पतिरतो मम । स मदीयसपत्न्याश्च, सूनुः सूनुर्ममाऽप्यतः ॥ २१४ ॥ .. । अथो मिथोविरुद्धं तन्निशम्य शमिनीवचः। कुबेरोऽपृच्छदागत्य, किमेतदिति विस्मयी ॥ २१५ ॥ इति तस्मै कुबेराय, पृच्छते व्रतिनी ततः । तन्मुद्रारत्नमज्ञानध्वान्तदीपमिवाऽऽर्पयत् ॥ २१६ ॥ मुद्रारत्नेन तेनाथ, दिननाथनिभेन सः । प्रबुद्धोऽन्तर्गतं मोहं, भृङ्गं पद्म इवामुचत् ॥ २१७ ॥ . लज्जितः स्वचरित्रेण, गृहीत्वा व्रतमुज्वलम् । धीमान् कुबेरदत्तोऽसौ, यौवनेऽपि ययौ वने ॥ २१८ ॥ .. १नोगेंहे, संव खंता० ॥२ त्यमित्या खता० ॥ ३ मत्सपत्न्यात्व संता०॥ ४ व्यः स ते पाता.॥ .