________________
७१
: सर्गः] ।' पर
धर्माभ्युदयमहाकाव्यम् । '. सिन्धुरेणोद्धरेणाथ, समारब्धः स कानने । धावन् मृत्युभयाज्जीर्णकूपे झम्पामयं ददौ ॥१६१ ॥
तत्रावटतटोद्धृतवटशाखाविनिर्गतम् । पादं बन्धुमिवाभीष्टमाश्लिष्टः सोऽन्तरापतन् ॥१६२ ।।
अथ कूपतलेऽद्राक्षीत् , करालमुखकोटरम् । क्षणादजगरं कालनगरोदरसोदरम् ॥१६३ ॥ • परितोऽपश्यदाशासु, निराशासु स्थितिश्च सः। चतुरो यमनिर्मुक्तान् , यामिकानिव पन्नगान् ॥ १६४ ॥ किञ्चाऽऽलम्बनशाखायामीक्षामास सिता-ऽसितौ । आखू मूलं खनन्तौ स, निष्कारणखलाविव ॥ १६५ ॥ तस्य दुर्भूपवत् कूपद्वारस्थस्य विषाणिनः । स ददर्श कुटुम्बीव, क्लीवः प्रसृमरं करम् ॥१६६ ॥ मधुच्छनोत्थिता हस्तिहस्ताहतिचले वटे । लगाश्च मक्षिकास्तस्मिन् , ऋजौ लुब्धा इवेश्वरे ॥ १६७ ॥ मधुमण्डाच्युतास्तस्य, वदने मधुबिन्दवः । निपेतुश्चातकस्येव, मन्दवारिदविग्रुषः ॥१६८ ॥ नासौ मधुरसास्वादसुखलालसमानसः । तदनेकविधं दुःखं, स्मरति स्म रतिं वहन् ॥१६९ ।। अथ व्योमपथकोडे, कोऽपि विद्याधरश्चरन् । तं वीक्ष्य करुणाविष्टः, क्रष्टुं बन्धुरिवाऽऽययौ ॥ १७० ॥ दत्तहस्ते ततस्तस्मिन्नुपहासिनि हर्षितः । स्थिति निर्गमो वाऽस्य, किं युक्तमिति कथ्यताम् ॥ १७१ ॥ ___ अथो हसन्नसावाह, कुमारमिति राजसूः । किं पृष्टं ? वेत्ति मूढोऽपि, निःसृतिस्तस्य शस्यते ॥ १७२ ।। व्यक्तमित्युक्तवत्यस्मिन्नुपहासिनि हर्षितः । ऊचे जम्बूकुमारोऽपि, सुधाकवचितं वचः ॥ १७३ ।। मधुविन्द्वाख्यानकोपनयः पुरुषो यः स संसारी, संसारस्तु महाटवी । मानुष्यं जन्म कूपश्च, नरकोऽजगरस्त्वधः ॥ १७४ ॥ तथा कषायाश्चत्वारश्चतुर्दिक्षु भुजङ्गमाः । यमश्च मूर्ध्नि मातङ्गो, मक्षिका व्याधयः पुनः ॥१७५ ॥ छिन्तश्च द्रुलतामायुराखू पक्षौ सिता-ऽसितौ ।प्रीणन्ति जन्तुं कष्टेऽस्मिन् , विषया मधुबिन्दवः ॥ १७६ ॥ -सुधर्मस्वामिना विद्याधरेणेवेति कष्टतः । कृष्यमाणो निषिध्येऽहं, किं त्वया विषयेच्छया ? ॥ १७७ ॥
इत्थं विषयसम्बन्धनिषेधेन निरुत्तरः । प्रभवः प्राह दन्तांशुनासीरविदितं वचः ॥१७८ ।। कुटुम्बमिति सन्त्यज्य, निःशेषं निर्विशेषधीः । कुर्वन् जनकयोः पीडां, बीडामपि विमुञ्चसि ॥ १७९ ॥ उक्ते च प्रभवेणेति, श्रीजम्बूरवदत्तदा । महात्मन् ! श्रूयतामेकं, ज्ञातेयस्य कथानकम् ॥ १८० ॥ कुबेरदत्त-कुवेरदत्ताख्यानकम् • आसीत् कुवेरसेनेति, मथुरायां पणाङ्गना । यदीयवदनस्येव, स्नपनप्रतिमा शशी ॥ १८१ ।। सा कदाऽप्यथ कष्टेन, तनयां तनयं च तौ । कीर्ति-प्रतापी भूपासिलेखेवासूत नूतनौ ॥ १८२ ॥ तो त्याजयन्त्या कुट्टिन्या, निराकृत्य वचोविषम् । एकादशाहंसा हन्त !, पाययामास तौ पयः ॥ १८३ ॥ कुबेरदत्त इत्याख्याजुषं पुत्रस्य मुद्रिकाम् । पुत्र्याः कुवेरदत्तेति, नाममाजं च सा व्यधात् ॥ १८४ ॥ मञ्जूषायामथो रत्नराजिभाजि न्ययोजयत् । तदपत्यद्वयं माता, कातरा कुट्टनीभयात् ॥१८५॥ . यमुनाम्भसि मञ्जूषां, सुखपेटामिवात्मनः । चिक्षेप वितरन्तीव, सा जलाञ्जलिमश्रुभिः ॥१८६ ॥
अथ सूर्यपुरोपान्ते, यमुनावारिवाहिता । पेटेयमिभ्ययुग्मेन, दृष्टा हृष्टान्तरात्मना ॥१८७ ॥ . आकृष्योद्धाव्य तां पेटामन्तर्वीक्ष्य शिशुद्वयम् । दायादाविव सर्वस्वमाददातां विभज्य तौ ॥ १८८ ।।
:. १ ण्डच्यु' पाता० ॥ २ स्मिन्, मधुविन्दुविलोमिनः । स्थिति खंता० पाता० ॥ ३ "ति वेश्या .वापि पुरे पुरा । यदी पाता० ॥ ..