Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 202
________________ वर्ग:] .. धर्माभ्युदयमहाकाव्यम्। विलाय भूभृतो भूरीन् , नले लावण्यवारिधौ । दमयन्त्यास्ततो दृष्टिस्तटिनीव न्यलीयत ।। ३१५ ॥ अथो विशददृक्पातद्युतिजातविलेपने । मालामयोजयद् बाला, नलस्य गलकन्दले ॥३१६ ॥ बद्धकुधोऽपि भूपास्ते, तदा न प्राभवन् नले । दवदन्तीसतीत्वेन, स्तम्भिता इव वह्नयः ॥ ३१७ ।। प्रमोदमेदुरामेनां, मेदिनीनाथनन्दिनीम् । नलस्तदनलः स्वाहामिव व्यवहदुन्महाः ॥३१८ ॥ ततश्चकार सत्कार, जामातुर्भीमभूपतिः । हर्षेण हास्तिका-धीय-वसना-ऽऽभरणादिभिः ॥ ३१९ ।। अन्यानपि धराधीशानशनैर्वसनैरपि । सत्कृत्य कृत्यवित् प्रैषीदसौ निजनिजं पुरम् ॥ ३२० ॥ अर्थ नक्तं पुरीलोकविलोकनसमुत्सुकः । व्यदधान्निपधक्षमापः, प्रयाणं प्रति कोशलाम् ॥ ३२१ ॥ कियन्तमप्ययाध्वानमनुव्रज्य निवय॑ता । जगदे गद्गदं तेन, नन्दनी मेदिनीभुजा ॥३२२ ॥ चरित्रेण पवित्राऽसि, पुत्रि! किं तव शिक्षया । तथापि जनकस्नेहमोहेन मुखरोऽस्म्यहम् ॥ ३२३ ॥ पतिमाराधयेः शुद्धैमिनः कर्मभिस्त्रिभिः । स एव देवता स्त्रीणां, चित्तं वित्तं गुरुः सुहृत् ।। ३२४ ॥ किञ्च वैभवमभ्येत्य, सकालुष्यान्तराशया । पातयन्ती जवादेव, स्वयं सविधवर्धितान् ॥ ३२५ ॥ स्वच्छतामुपगच्छन्ती, पुनः प्रक्षीणवैभवा । सत्यतां पुत्रि! मा नैषीः, स्त्रीनदीवदिदं वचः ॥ ३२६ ।। ॥ युग्मम् ।। पतिमेवानुगच्छेश्च, वत्से ! स्वच्छेन चेतसा । क्षिप्ताऽपि दूरतः प्रातश्छायेव निजपादपम् ॥ ३२७ ।। शिक्षयित्वा सुतामित्थमथ भीमो न्यवर्तत । तद्विश्लेषोत्यसन्तापमश्रुभिः शमयन्निव ,॥ ३२८ ॥ बद्धाविव प्रेमगुणैः, शक्तौ विघटितुं न तौ । दवदन्ती-नलावेकरथारूढौ प्रचलतुः ॥३२९ ।। स्थपुटाध्वस्खलचक्ररथपूर्णिस्तयोर्मुहुः । मिथःसङ्घट्टसङ्कल्पकल्पपादपतां ययौ ॥ ३३० ॥ तदा दीप्तौषधीनुन्नैर्गुहाभ्य इव भूभृताम् । ध्वान्तः कोकवियोगाग्निधूमैरिव विजृम्भितम् ॥ ३३१ ॥ धाराधरैरिव ध्वान्तैर्निरुद्धे मरुदध्वनि । चुम्बना-ऽऽलिङ्गनैराशु, तयोः प्रेमलताऽफलत् ॥ ३३२ ।। ध्वान्तरध्वनि रुद्धेऽपि, नृपे वासमतन्वति । जनो जगाम सैन्येभरलादर्शप्रभामनु ॥ ३३३ ॥ तदा च धुर्यमाधुर्य, मधुव्रतकुलध्वनिम् । निशम्य भीमनन्दन्या, वल्लभः समभाष्यत ॥ ३३४ ॥ न तावद् भाति सौरभ्यसंरम्भः कानने क्वचित् । तत् कुतः कुतुकोल्लासकारिणी भृङ्गझात्कृतिः ? ' ॥ ३३५॥ प्रिये! किं ज्ञायते ध्वान्ते , तदा कान्ते वदत्यदः । ममार्ज पाणिपझेन, भालं भीमनृपाङ्गजा ।। ३३६ ॥ दासोऽथ तिलकस्तस्याः, प्रताप इव भास्वतः । अकस्माद् भस्मयामास, तमःसमुदयं वने ॥ ३३७ ॥ वनेमगण्डसक्रान्तमदाविलमथो नलः । कायोत्सर्गजुषं कञ्चिन्मुनि वीक्ष्य मुदं दधौ ॥ ३३८ ॥ करिघट्टेऽपि नाचालीत्, कर्मभिस्तद्वहिप्कृतैः ।। व्याख्यातोऽयमलिव्याजाद, गुणा ग्राह्या रिपोरपि ॥३३९ ॥ पदानद नलस्तूर्णमुत्तीर्णः प्रियया सह । नमस्कृत्य च तं साधु, पुनः स्यन्दनमागमत् ॥ ३४० ॥ कोकणीरलविस्पर्द्धिभैमीतिलकतेजसा । ध्वान्ते हतेऽथ तत्सैन्यं, चक्रिसैन्यमिवाचलत् ॥ ३४१ ।। दय पुरं प्राप, निधः क्षमापकुञ्जरः । चलच्चेलाञ्चलोल्लासः, प्रणर्तितभुजामिव ॥ ३४२ ॥ १ टिर्नलिनीव न्य खता० ॥ २ लान् खता० ॥ ३°षधक्ष्मापनन्दनः खंता० ॥

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284