________________
वर्ग:] .. धर्माभ्युदयमहाकाव्यम्। विलाय भूभृतो भूरीन् , नले लावण्यवारिधौ । दमयन्त्यास्ततो दृष्टिस्तटिनीव न्यलीयत ।। ३१५ ॥ अथो विशददृक्पातद्युतिजातविलेपने । मालामयोजयद् बाला, नलस्य गलकन्दले ॥३१६ ॥ बद्धकुधोऽपि भूपास्ते, तदा न प्राभवन् नले । दवदन्तीसतीत्वेन, स्तम्भिता इव वह्नयः ॥ ३१७ ।। प्रमोदमेदुरामेनां, मेदिनीनाथनन्दिनीम् । नलस्तदनलः स्वाहामिव व्यवहदुन्महाः ॥३१८ ॥ ततश्चकार सत्कार, जामातुर्भीमभूपतिः । हर्षेण हास्तिका-धीय-वसना-ऽऽभरणादिभिः ॥ ३१९ ।। अन्यानपि धराधीशानशनैर्वसनैरपि । सत्कृत्य कृत्यवित् प्रैषीदसौ निजनिजं पुरम् ॥ ३२० ॥ अर्थ नक्तं पुरीलोकविलोकनसमुत्सुकः । व्यदधान्निपधक्षमापः, प्रयाणं प्रति कोशलाम् ॥ ३२१ ॥ कियन्तमप्ययाध्वानमनुव्रज्य निवय॑ता । जगदे गद्गदं तेन, नन्दनी मेदिनीभुजा ॥३२२ ॥ चरित्रेण पवित्राऽसि, पुत्रि! किं तव शिक्षया । तथापि जनकस्नेहमोहेन मुखरोऽस्म्यहम् ॥ ३२३ ॥ पतिमाराधयेः शुद्धैमिनः कर्मभिस्त्रिभिः । स एव देवता स्त्रीणां, चित्तं वित्तं गुरुः सुहृत् ।। ३२४ ॥ किञ्च वैभवमभ्येत्य, सकालुष्यान्तराशया । पातयन्ती जवादेव, स्वयं सविधवर्धितान् ॥ ३२५ ॥ स्वच्छतामुपगच्छन्ती, पुनः प्रक्षीणवैभवा । सत्यतां पुत्रि! मा नैषीः, स्त्रीनदीवदिदं वचः ॥ ३२६ ।।
॥ युग्मम् ।। पतिमेवानुगच्छेश्च, वत्से ! स्वच्छेन चेतसा । क्षिप्ताऽपि दूरतः प्रातश्छायेव निजपादपम् ॥ ३२७ ।। शिक्षयित्वा सुतामित्थमथ भीमो न्यवर्तत । तद्विश्लेषोत्यसन्तापमश्रुभिः शमयन्निव ,॥ ३२८ ॥ बद्धाविव प्रेमगुणैः, शक्तौ विघटितुं न तौ । दवदन्ती-नलावेकरथारूढौ प्रचलतुः ॥३२९ ।। स्थपुटाध्वस्खलचक्ररथपूर्णिस्तयोर्मुहुः । मिथःसङ्घट्टसङ्कल्पकल्पपादपतां ययौ ॥ ३३० ॥ तदा दीप्तौषधीनुन्नैर्गुहाभ्य इव भूभृताम् । ध्वान्तः कोकवियोगाग्निधूमैरिव विजृम्भितम् ॥ ३३१ ॥ धाराधरैरिव ध्वान्तैर्निरुद्धे मरुदध्वनि । चुम्बना-ऽऽलिङ्गनैराशु, तयोः प्रेमलताऽफलत् ॥ ३३२ ।। ध्वान्तरध्वनि रुद्धेऽपि, नृपे वासमतन्वति । जनो जगाम सैन्येभरलादर्शप्रभामनु ॥ ३३३ ॥ तदा च धुर्यमाधुर्य, मधुव्रतकुलध्वनिम् । निशम्य भीमनन्दन्या, वल्लभः समभाष्यत ॥ ३३४ ॥
न तावद् भाति सौरभ्यसंरम्भः कानने क्वचित् । तत् कुतः कुतुकोल्लासकारिणी भृङ्गझात्कृतिः ? '
॥ ३३५॥ प्रिये! किं ज्ञायते ध्वान्ते , तदा कान्ते वदत्यदः । ममार्ज पाणिपझेन, भालं भीमनृपाङ्गजा ।। ३३६ ॥ दासोऽथ तिलकस्तस्याः, प्रताप इव भास्वतः । अकस्माद् भस्मयामास, तमःसमुदयं वने ॥ ३३७ ॥ वनेमगण्डसक्रान्तमदाविलमथो नलः । कायोत्सर्गजुषं कञ्चिन्मुनि वीक्ष्य मुदं दधौ ॥ ३३८ ॥
करिघट्टेऽपि नाचालीत्, कर्मभिस्तद्वहिप्कृतैः ।।
व्याख्यातोऽयमलिव्याजाद, गुणा ग्राह्या रिपोरपि ॥३३९ ॥ पदानद नलस्तूर्णमुत्तीर्णः प्रियया सह । नमस्कृत्य च तं साधु, पुनः स्यन्दनमागमत् ॥ ३४० ॥ कोकणीरलविस्पर्द्धिभैमीतिलकतेजसा । ध्वान्ते हतेऽथ तत्सैन्यं, चक्रिसैन्यमिवाचलत् ॥ ३४१ ।। दय पुरं प्राप, निधः क्षमापकुञ्जरः । चलच्चेलाञ्चलोल्लासः, प्रणर्तितभुजामिव ॥ ३४२ ॥ १ टिर्नलिनीव न्य खता० ॥ २ लान् खता० ॥ ३°षधक्ष्मापनन्दनः खंता० ॥