________________
१३०
सङ्घपतिचरितापरनामकं । * [एकादशः निधायाथ नलं राज्ये, यौवराज्ये च कूबरम् । आत्मानं शमसाम्राज्ये, न्यधत्त निषधाधिपः ॥३४३ ॥ पयोधिपरिखामुर्वीमपालयदथो नलः । निरन्तरचतुर्वर्णावासकीर्णा पुरीमिव .. .. ॥ ३४४॥ महीभृद्धशसन्दोहपरिदाहपटीयसः । तेजसा नान्तरं दावानलस्य च. नलस्य च , ' ॥ ३४५ ॥ कूबरस्तं छलान्वेषी, बन्धुतावत्सलं नलम् । दुरोदरविनोदेषु, चिक्षेप क्रूरमानसः, .' । ॥ ३४६ ॥ वदन्त्या च मित्रैश्व, द्यूतव्यसनतस्तदा । विरराम निषिद्धोऽपि, नैषधिर्नैष धिम्। विधिम् ।। ३४७ ॥ कुबरेण सह क्रीडन् , मोहध्वान्ताकुलो नलः । अहारयत् तदा राज्य, सान्तःपुर-परिच्छदम् ॥ ३४८॥ निकृतः कूबरेणाथ, क्ष्मानाथः क्रूरचेतसा । गात्रमात्रपरीवारोऽचलद्देशान्तरं प्रति . . .॥ ३४९ ॥ नलानुगामिनी भैमी, कूबरः प्राह साहसी । हारिता यनलेनासि, न त्वं तद् गन्तुमर्हसि ॥ ३५० ॥ अथेदं स वदन्नुक्तः, पौरैः क्रूर! करोषि किम् ? । जननीमिव मन्यन्ते, भ्रातृजायां हि साधवः ।। ३५१ ॥ जननीति. न चेन्नीतिस्तवैतां प्रति सम्प्रति । तदस्याः पाप!,शापेत, भृशं भवसि भस्मसात् ।। ३.१२ ॥ इत्यय भाषितः पौरैः, शिक्षितश्च नलानुजः । रथमारोप्य वैदी, न्ययुतानुनलं तदा ॥ ३५३ ॥ अथ त्यक्तरथः कान्तायुक्तो निषधनन्दनः। चचार चरणापातपवित्रितधरातलः ॥ ३५४ ॥ सिक्तो घण्टापथस्तस्य, प्रस्थितस्य वनं प्रति । पौरैनॆत्राम्बुजोपान्तवान्तैः सलिलबिन्दुभिः ॥ ३५५ ॥ हा हा.! हताः स्मो देवेनेत्यार्तेः प्रतिगृहं खनैः। शब्दाद्वैतं तदा जज्ञे, रोदःकन्दरमन्दैिरे ॥३५६,॥. पुरीपरिसरोपान्ते, तस्थिवानथ पार्थिवः । अमात्य-पौरप्रभृतीन् , बोधयित्वा न्यवर्तयत् ॥ ३५७ ॥ राज्यत्यागे निषिद्धोऽपि, नैषधिस्तैरनेकशः । सत्यमेव पुरस्कृत्य, प्रतस्थे सुस्थमानसःः । ॥३५८. ॥ प्रपद्य, जननीत्वेन, कूबरेण निवारिता । नलेनानुमताऽप्यस्थान्नैव सा भीमनन्दनी ॥ ३५९ ॥ तद् वनं भवनं वृक्षाः, कल्पवृक्षास्त एव मे । चरणैरायपुत्रस्य, पावित्र्यं यत्र सूच्यते ॥३६०॥ दवदन्ती तदित्युक्त्वा, विसृज्य च परिच्छदम् । चचालोज्ज्वलवक्त्रेन्दुर्नलवानुवर्तिनी ॥ ३६१ ॥ असिस्वदत् फलश्रेणी, पयःपूरमपीप्यत । व्यशिश्रमन्मुहुर्मार्गे, भैमी भूमीशपुङ्गवः ॥ ३६२ ॥ अथ कामप्यरण्यानी, निरन्तरतैरद्रुमाम् । दुर्घहामिव दुर्गोवी, तमसामासदन्नृपः। ॥३६३ ॥ तत्राऽऽह वल्लभं भैमी, लगित्वा पादपद्मयोः। अलङ्कुरु कुलोत्तंस !,,पद्भ्यां तातपुरीमिति ॥ ३६४ ॥ ... . यद् वदिष्यसि देवि! त्वं, तत् कार्य ह्य(श्व)स्तनेऽहनि ।
. . कृतकृत्येव भैमीति, पिप्रिये प्रेयसो गिरा अथास्तमगमद् भानुर्नलस्येव महोदयः । दुष्कीर्त्या कूबरस्येव, व्यानशे तमसा जगत् ॥ ३६६.॥ उत्तरीयं धराधीशो, नीत्वा पल्यङ्कतां ततः । भुजोपधान एवाऽऽप, स्वापं वल्लभया सह ॥ ३६७ ॥ निशीथे पृथिवीनाथो, निद्रास्पृशि मृगीहशि । अचिन्तयचिरं चित्ते, नियत्या निहतोद्यमः ॥ ३६८ ॥ आकारयिष्यति प्रातः, प्रिया निजपितुहे। श्रयन्ते श्वशुरं नीचाः, क यामि?, करवाणि किम् ? ॥ ३६९ ॥
.. श्वः करिष्यामि यद् देवि !, वक्तासीति मयोदितम् । , . . . i
तद्दाक्षिण्यमयं वाक्यं, बाढू दुःखाकरोति माम् । . . . . ॥ ३७० ॥ त्यजामि यद्यम सुप्तां, तत् प्रसर्पति दुर्यशः । अन्यथा मासियं,प्रातः, प्रापयत्येव कुण्डिनम् ॥ ३७१॥
१'चाल. खता० पाता०॥ २ निदरम् खंता ॥ .३ निवासी भी खंता० ॥ ४ युग्मम् पाता० ॥ ५ तरु-द्रुमामू खंता० ॥ ६ 'हम् खता० ॥ ७ 'ति प्रतिश्रुतम् खंता० ॥