________________
धर्माभ्युदयमहाकाव्यम् । स्वशीलरक्षितात्मानं, वरं मुञ्चामि तामिमाम् । न कुण्डिनगतो दैन्यं, मन्दो मन्दाक्षमुद्वहे ॥ ३७२ ।। निम्बित्येति नलः कान्ताकपोलतलतो भुजम् । मन्दं चकर्ष निर्यातुमवाञ्छन्तमिव प्रियात् ॥ ३७३ ॥ उत्तरीयस्य पर्यकीकृतस्यार्द्धग्रहेच्छया। आचकर्ष ततः शस्त्रीं, निस्त्रिंशत्वेन सत्रपः ॥३७४ ॥ बाष्पोर्मिरुद्धदृग्वा, शुचा गलितचेतनः । वसनाय करं ब्योम्नि, न्ययुक्त व्याकुलो नलः ॥३७५ ॥ तस्य ध्यात्वा क्षणेनाक्ष्णी, पंरिमृज्यैकपाणिना । चेलं चिकर्तिषोः कम्पान्निपपात क्षुरी करात् ॥ ३७६ ॥ पुनः कृपाणिकां पाणी, गृहीत्वा दुर्मनायितः । उवाच नैपधो दुःखमग्नमन्दतरस्वरम् ॥३७७ ॥ दमयन्त्या वनत्यागे, सपल्या मत्करग्रहात् । अपि निस्त्रिंशपुत्रीयं, पपात भुवि घिग्! नलम् ॥ ३७८ ॥
धाराधिरूढविज्ञाने !, सद्वंशे ! स्निग्धतानिधे ! । निष्कृपस्य कुकार्येऽपि, कृपाणि ! कुरु मे कृपाम्
॥३७९ ॥ इत्युक्त्वा क्षणमुद्धृत्य, धैर्य वैक्लव्यतो नलः । चकत चीवरं प्रेमवन्धनेन समं तदा ॥ ३८० ॥ अथ देव्या मुखाम्भोजमालोकयितुमुन्मनाः । ममार्ज पाणिना भालमुन्मीलतिलकप्रभम् ॥३८१ ।। अथाऽध्यायनलो मुग्धामुखस्याऽहो! महो महत् । येन जागर्ति शेते का, नेति निश्चिनुते मतिः ॥३८२॥
उवाच देवि ! त्वद्वक्त्रालोके भाग्यं न मे दृशोः । न च त्वत्परिचर्यायां, योग्यताऽपि हतात्मनः ।
॥ ३८३ ॥ प्रियाननोपरिन्यस्तदृष्टिरेवं वदन् नलः । दधौ हस्तेन बाष्पाम्भस्तत्प्रवोधभयान्मुहुः ॥ ३८४ ।। अकृपः सकृपे! गोत्रकलङ्को गोत्रदीपिके ! | दुराचारः सदाचारे!, कुर्वे नतिमपश्चिमाम् ॥ ३८५ ॥ देवि! त्वच्चरितेनेन्दुरकलङ्कः किलाभवत् । अन्ववायगुरुः किन्तु, मद्वत्तेन कलङ्कितः ॥ ३८६ ॥ अहो! अभीरुर्बलवान् , यद्भीरुमवलां नलः । मुक्त्वा वनान्तरे याति, स्वयं वसति पत्तने ॥ ३८७ ।। ब्रुवन्निति क्षतस्वाक्षरत्क्षतजलेखया । अक्षराण्यलिखद् दीनो, देव्याश्चेलाञ्चले नलः ॥३८८ ॥ विदर्मेषु वटेनाध्वा, वामे ! वामेन गच्छति । दक्षिणे! दक्षिणेनैतैः, कोशलायां तु किंशुकैः ॥ ३८९ ।। यत्र ते प्रतिभात्येव, देवि! तत्र स्वयं बजेः । आत्मानं दर्शविण्येऽहमुत्तमे ! न तवाधमः ॥ ३९० ॥ लिखित्वेति नलो मन्दपदपातमथाचलत् । पिवन् मुखाम्बुजं देव्या, दृग्भ्यां वलितकन्धरः ।। ३९१ ॥
रक्षामि शयितां यावद्, यामिनी स्वामिनीमिति । नलः पश्यन् प्रियां वल्लीमण्डलान्तरितः स्थितः
॥ ३९२॥ विभातायां विभावर्या, देव्या जागरणक्षणे । मृदु-द्रुतपदापातमचलनलभूपतिः
॥ ३९३ ।। प्रथा हृदयसन्तापं, स्फुटीभूतमिवाऽऽत्मनः । नलो व्यलोकयद दावानलं ज्वलितमग्रतः ॥ ३९४ ॥
सनराचस!, निषधक्षमापनन्दन! । महावल! नल! त्राणदक्ष ! संरक्ष मां दवात् ॥ ३९५ ॥ इत्याकर्ण्य गिरं दावानलमध्योत्थितां नलः । अचिन्तयदिदं वेत्ति, कोऽत्र मां निर्जने वने ? ॥ ३९६ ॥ अथोवाच नृपः कस्त्वं, मां परिज्ञाय भाषसे । इत्युक्ते पुनरुद्भूता, भारती दावपावकात् ॥ ३९७ ॥ उजगाऽहमदग्धायां, वल्लौ सङ्कचितः स्थितः। निर्गन्तुं भूमितापेन, न शक्नोमि दवानलात् ॥ ३९८ ॥ उपकार करिष्यामि, महान्तं ते महीपते! । मूर्तादिव यमक्रोधादमेस्तत् कर्ष कर्ष माम् ॥ ३९९ ।।
तामेनां, वरं मुनामि भामिनीम खंता० ॥ २ परिमाज्यक' वता. खंता० ॥ ३ निस्सप खंता०॥ ४ तस्थि खंता. पाता० ॥