________________
. [एकादशः
१३२ . . . सवपतिवरितापरनामक 'इत्याकर्ण्य, विलोक्याथ, पटप्रान्तं नृपोऽक्षिपत् । सर्प तदप्रमारूढे, क्षणेन पुनराक्षिपत् ॥ ४०० ॥
अथ निःसृत एवास्य, भुजागं भुजगोऽदशत् । तदात्वमेव कुब्जत्वमाससाद ततो नृपः ॥४०१ ॥ दृष्ट्वाऽथ भूपः स्वं रूपं, दध्यौ दृष्टं मया रयात् । धिग्! देवीत्यागपापगुफलोत्पत्तिप्रसूनकम् ॥ ४०२ ॥ अधुना वनमायान्त्या, देव्या यादृक् कृतो मया। उपकारोऽमुना ताहर, दवाकृष्टेन मे कृतः ॥४०३ ॥ सविलक्षं हसन्नाह, सरीसृपमथो नृपः । उपकारस्त्वयाऽकारि, स्वस्ति ते गम्यतामिति ॥ ४० ॥ , अथ कोऽप्यग्रतो भूत्वा, प्रीतः प्राह नरो नृपम् । वत्स! जानीहि मां देवीभूतं पितरमात्मनः ॥ ४०५॥ " भास्वन्तं दुर्दिनेऽपि त्वां, तेजसा मास्म शत्रवः ।
। जानन्तु हन्त ! तेन त्वं, मया नीतोऽसि कुब्जताम् ॥१०६ ॥ समुद्कं गृहाणेदं, यदा कार्य भवेत् तव । परिधेयं तदाऽमुष्माद्, देवदूष्यांशुकद्वयम् ॥ ४०७ ॥ इत्थं समर्पयन्नेव, देवः प्राह पुनः सुतम् । क भवन्तं विमुञ्चामि ?, क्रमचारो हि दुःखदः ॥ ४०८ ॥, सुंसमारपुरे मुञ्च, नलेनेस्थमथोदिते । देवः क्वचिद् ययौ स्वं तु, तत्रापश्यदसौ पुरे ॥४०९ ॥
___ अकस्माद् विस्मयस्मेरस्तत् पश्यन् पुरतः पुरम् । यावच्चलति सोऽनौषीत् । तावत् कोलाहलं पुरः
॥४१०॥ ततः किमेतदित्यन्तश्चिन्तयत्याकुले नले । नश्यतां नश्यतामित्थमूचुरुच्चैस्तुरङ्गिणः ॥४११ ॥ स्पर्द्धयेव प्रधावन्ती, मन्तं छायामपि स्वकाम् । मुहुःकृताकृतस्पर्श, वायुनाऽपि भयादिव ॥ ४१२ ॥ मधुव्रतैरतितरां, धावद्भिर्मदलिप्सया । अनासादितकर्णान्तमतित्वरितचारतः । ॥४१३ ॥ उदस्तशुण्डमुड्डीनानपि खण्डयितुं खगान् । क्षयोत्क्षिप्तमहादण्डमिव दण्डधरं क्रुधा । ॥४१४ ॥ धर्मपुत्रानिवाब्दस्य, स्वशब्दस्पर्द्धितध्वनेः । भिन्दन्तं दन्तघातेन, पादपौधान् पदे पदे ॥४१५ ॥ मूर्धातिधूननैर्गण्डप्रोड्डीनालिकुलच्छलात् । क्षिपन्तं खण्डशः कृत्वा, व्योमाङ्गणमपि क्षणात् ॥ ४१६ ॥ अस्यन्तं कुम्भसिन्दूररेणूनुद्धतधूननैः । मूर्धाध्वनिःसृतध्मातक्रोधानलकणानिव , , ॥ ४१७ ॥ कञ्चिदुच्चालितक्षोणिखण्डं चण्डांहिपाततः । व्यालं व्यालोकयामास, नलः प्रबलविक्रमम् ॥ ४१८ ॥
॥ सप्तभिः कुलकम् ।। ___ऊर्तीकृत्य भुजामुर्वीभुजा वाहयुजा ततः । व्याहृतं दधिपणेन, क्षणव्याकुलचेतसा ॥ ४१९ ॥ 'यः कोऽपि कोपिनममुं, करिणं कुरुते वशे । लक्ष्मी तनोमि तद्नेहोत्सारङ्गैकनर्तकीम् ॥४२० ॥ 'अथाऽऽकर्येति कुतुकी, सत्वरं प्राचलनलः । कालप्रायमपि व्यालं, मन्यमानः शृगालवत् ॥ ४२१ ॥ '
भो कुब्ज ! कुब्ज! कीनाशमुखे मा विश मा विश । ' : .. इत्युक्तोऽपि जनैर्धारः, केसरीव ययौ गजम्
॥ ४२२ ॥ रे,रे शुण्डाल ! मा. बाल-विप्र-धेनु-वधूवधीः । एोहि मददुर्दान्त !, दान्ततां दर्शयामि ते ॥ ४२३ ।।
वल्गन्तमिति वाचालं, कोपादनुचचाल तम् । करी कराग्रविक्षेपप्राप्ता-प्राप्तशिरोरुहम् ॥४२४ ॥ .. पतन्नुधन मिलनस्य, निनन् घातं च वञ्चयन् । अङ्गुष्ठाङ्गुलिसम्मरर्दयन् पुष्करं छलात् ॥ ४२५॥ . प्रान्त्वा दक्षिणपक्षेण, चक्रवद् भ्रमयन् मुहुः । चतुर्णामपि पादानां, प्रविश्याधोऽपि निःसरन् ॥ ४२६ ॥
१. यान्त्यां, देव्यां या पाता० ॥ २ स्य, शब्दस्य स्प खता० ॥ ३ रेणुमुद्ध - 'खंता० ॥ ४ 'नैवीरः खता०॥
.