Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 207
________________ ' [एकादश - सवपतिचरितापरनामकं तवैतया पुनर्वाचा,प्रीतोऽस्मि द्विज!, तद्वंद । कथं तयोवियोगोऽभूद्, वैदर्भी कथमागताः ॥ ४५३॥ ..', , ,अथ द्विजोऽवदद् देव !, प्रविवेश नलो वनम् । :: ...!' कान्तांमेकाकिनी सुप्तां, त्यक्त्वाऽन्येधुर्ययौ कचित् तद् विरामे विभावर्या, भैमी स्वप्नमलोकयत् । सपुष्प-फलमारूढा, सहकारमहं पुरः। ॥ ४५५ ।। स्वादितान्यस्य पीयूषजित्वराणि फलान्यथ । आम्रो व्यालेन भनोऽथ, भ्रष्टाऽहमपि भूतले ॥ ४५६ ॥ स्वमान्ते निद्रेया मुक्ता, प्रफुल्लनयनाम्बुजा । प्रातः प्रियमपश्यन्ती, व्याकुलैवमंचिन्तयत् ॥ ४५७ ॥ जहार चनदेवी वा, खेचरी वा प्रियं मम । स ययौ जलमानेतुं, प्रातःकृत्याय वा स्वयंम्। ॥ ४५८ ॥ अथवा नर्मणा तस्थौ, वल्लीजालान्तरे क्वचित् । तत् पश्यामि जलस्थान-वल्ली छमतलान्यहम् ॥ ४५९ ॥ इत्युत्थाय प्रियं द्रष्टुं, यत्र यत्र जगाम सा । तत्र तत्राप्यपश्यन्ती, वैलक्ष्येणातिबाधिता ॥ ४६० ॥ । साचरन्ती लतालीषु, मृगान् वीक्ष्य रवोत्थितान् । मुमुदे च प्रियभ्रान्त्या, मुहुः खिन्ना चे निश्चयात् ॥४६॥ प्रामं भ्राममथ श्रान्ता, नलकान्ता समाकुला । पाणिपल्लवमुत्क्षिप्य, पूत्कर्वन्तीदमभ्यधात् ।।४६२ ॥ एहि दर्शनं देहि, परिरम्भ विधेहि मे। नर्मापि शर्मणे नातिक्रियमाणं भवेत् प्रिये ॥४६३ ॥ .. इति प्रतिरवं श्रुत्वा, निजोक्तेरेव हर्षिता । आकारयति मां भात्यागाद् गिरिगुहासु सा · ॥ ४६४ ॥ तत्राप्यसावपश्यन्ती, वैदर्भी प्राणवल्लभम् । स्वप्नं सचेतना रात्रिप्रान्तदृष्टं व्यचारयत् ॥ ४६५ ॥ रसालोऽयं नः पुष्प-फलानि नृपवैभवम् । तत्र देवीपदारूढा, जाताऽहं फलभोगभार ॥ ४६६ ॥ द्विपोऽस्य कूबरो भङ्गा, अंशो मे विरहस्त्वयम् । स्वप्नार्थेनामुना तन्मे, सुलभो नैव वल्लभः ॥ ४६७ ॥ , . . . . . घिग्! मां दिग्मण्डनयशा, यन्मुमोच नलो नृपः।। । । 5, ', तं मानिनं पितुर्वेश्म, नेतुं घिग् ! मे कदाग्रहम् .. ॥४६८॥ . अवाञ्छन् श्वसुरावासवासं मानधनः सुधीः। ममाऽऽग्रहं च तं वीक्ष्य, साधु तत्याज मामपि ॥ ४६९ ॥ प्राणान् 'मुञ्चन्ति नो मानं, धीरास्तन्मां मुमोच सः।मानच्छिदाग्रहग्रस्तां, मानी प्राणसमामपि ॥ ४७० ॥ हा कान्त ! कुलकोटीर!, हा विवेकनिकेतन ।। एकोऽपि नापराधोऽयं, दास्या मे किमसह्यत ॥ ४७१॥ त्वदादेशस्य किं दूरे, कदाचिदभवं विभो! । यदेवं देव! मुक्ताऽहं; न निषिद्धा कदाग्रहात् ।। ४७२ ॥ । ज्ञातं वा नान्यथा चक्रे, मद्वचोऽपि कचिद् भवान् । 1 , : ततस्त्यक्ताऽस्मि नोक्लप्सा. वागमाननेमानना ॥४७३ ॥ हा दैव! दुर्मतिर्दूर, निर्ममे किं ममेडशी ? । तदा कदाग्रहेऽमुष्मिन् , नलस्येव दुरोदरे ॥ ४७४॥ , ध्यायं ध्यायमिदं मन्दभाग्यमन्या वियोगिनी। प्राणेश! पाहि पाहीति, वदन्ती मूर्च्छिताऽपतत् ॥.४७५ ॥ ।। अथ 'क्षणेन मूर्ध्वान्ते, बाढं विरहविह्वला,मास्म गा नाथ ! नाथेति, तारं दीना रुदोद सा ॥ ४७६ ॥ तदा चक्रन्द सा भर्तृनामग्राहं मुहुस्तथा. । हृदयानि विदीर्णानि, शैलानामप्यहो! यथा ॥ ४७७ ॥ . अथास्या नलवश्यायाः, कृपयोल्लास्य चीवरम् । अनलस्य वयस्योऽपि, तां वर्णालीमदीदृशत् ॥ ४७८ ॥ स्वपाणिना स्वरक्तेन, प्रियेण लिखितां लिपिम् । दृष्ट्वा नलमिवाऽऽधत्त, हृदयेऽन्तर्बहिश्च सा ॥ ४७९॥ अथ प्रमुदिता देवी, व्यचिन्तयदिदं हृदि । अहो! अद्यापि विद्येऽहं, हृदये हृदयेशितुः ॥ १८०॥ . यदादिदेश मे वर्त्म, स्वरक्तलिखिताक्षरैः । गमिष्यामि पितुर्गेहमेतैरेव सहायकैः ॥४८१ ॥ . .. योन्मु खताः ॥ २ बता० विनाऽन्यत्र नतान खंता ॥.... ।

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284