________________
' [एकादश
- सवपतिचरितापरनामकं तवैतया पुनर्वाचा,प्रीतोऽस्मि द्विज!, तद्वंद । कथं तयोवियोगोऽभूद्, वैदर्भी कथमागताः ॥ ४५३॥
..', , ,अथ द्विजोऽवदद् देव !, प्रविवेश नलो वनम् । :: ...!' कान्तांमेकाकिनी सुप्तां, त्यक्त्वाऽन्येधुर्ययौ कचित् तद् विरामे विभावर्या, भैमी स्वप्नमलोकयत् । सपुष्प-फलमारूढा, सहकारमहं पुरः। ॥ ४५५ ।। स्वादितान्यस्य पीयूषजित्वराणि फलान्यथ । आम्रो व्यालेन भनोऽथ, भ्रष्टाऽहमपि भूतले ॥ ४५६ ॥ स्वमान्ते निद्रेया मुक्ता, प्रफुल्लनयनाम्बुजा । प्रातः प्रियमपश्यन्ती, व्याकुलैवमंचिन्तयत् ॥ ४५७ ॥ जहार चनदेवी वा, खेचरी वा प्रियं मम । स ययौ जलमानेतुं, प्रातःकृत्याय वा स्वयंम्। ॥ ४५८ ॥ अथवा नर्मणा तस्थौ, वल्लीजालान्तरे क्वचित् । तत् पश्यामि जलस्थान-वल्ली छमतलान्यहम् ॥ ४५९ ॥ इत्युत्थाय प्रियं द्रष्टुं, यत्र यत्र जगाम सा । तत्र तत्राप्यपश्यन्ती, वैलक्ष्येणातिबाधिता ॥ ४६० ॥ । साचरन्ती लतालीषु, मृगान् वीक्ष्य रवोत्थितान् । मुमुदे च प्रियभ्रान्त्या, मुहुः खिन्ना चे निश्चयात् ॥४६॥ प्रामं भ्राममथ श्रान्ता, नलकान्ता समाकुला । पाणिपल्लवमुत्क्षिप्य, पूत्कर्वन्तीदमभ्यधात् ।।४६२ ॥ एहि दर्शनं देहि, परिरम्भ विधेहि मे। नर्मापि शर्मणे नातिक्रियमाणं भवेत् प्रिये ॥४६३ ॥ .. इति प्रतिरवं श्रुत्वा, निजोक्तेरेव हर्षिता । आकारयति मां भात्यागाद् गिरिगुहासु सा · ॥ ४६४ ॥ तत्राप्यसावपश्यन्ती, वैदर्भी प्राणवल्लभम् । स्वप्नं सचेतना रात्रिप्रान्तदृष्टं व्यचारयत् ॥ ४६५ ॥ रसालोऽयं नः पुष्प-फलानि नृपवैभवम् । तत्र देवीपदारूढा, जाताऽहं फलभोगभार ॥ ४६६ ॥ द्विपोऽस्य कूबरो भङ्गा, अंशो मे विरहस्त्वयम् । स्वप्नार्थेनामुना तन्मे, सुलभो नैव वल्लभः ॥ ४६७ ॥ , . . . . . घिग्! मां दिग्मण्डनयशा, यन्मुमोच नलो नृपः।। । । 5, ', तं मानिनं पितुर्वेश्म, नेतुं घिग् ! मे कदाग्रहम् .. ॥४६८॥ . अवाञ्छन् श्वसुरावासवासं मानधनः सुधीः। ममाऽऽग्रहं च तं वीक्ष्य, साधु तत्याज मामपि ॥ ४६९ ॥ प्राणान् 'मुञ्चन्ति नो मानं, धीरास्तन्मां मुमोच सः।मानच्छिदाग्रहग्रस्तां, मानी प्राणसमामपि ॥ ४७० ॥ हा कान्त ! कुलकोटीर!, हा विवेकनिकेतन ।। एकोऽपि नापराधोऽयं, दास्या मे किमसह्यत ॥ ४७१॥ त्वदादेशस्य किं दूरे, कदाचिदभवं विभो! । यदेवं देव! मुक्ताऽहं; न निषिद्धा कदाग्रहात् ।। ४७२ ॥ ।
ज्ञातं वा नान्यथा चक्रे, मद्वचोऽपि कचिद् भवान् । 1 , : ततस्त्यक्ताऽस्मि नोक्लप्सा. वागमाननेमानना
॥४७३ ॥ हा दैव! दुर्मतिर्दूर, निर्ममे किं ममेडशी ? । तदा कदाग्रहेऽमुष्मिन् , नलस्येव दुरोदरे ॥ ४७४॥ , ध्यायं ध्यायमिदं मन्दभाग्यमन्या वियोगिनी। प्राणेश! पाहि पाहीति, वदन्ती मूर्च्छिताऽपतत् ॥.४७५ ॥ ।। अथ 'क्षणेन मूर्ध्वान्ते, बाढं विरहविह्वला,मास्म गा नाथ ! नाथेति, तारं दीना रुदोद सा ॥ ४७६ ॥ तदा चक्रन्द सा भर्तृनामग्राहं मुहुस्तथा. । हृदयानि विदीर्णानि, शैलानामप्यहो! यथा ॥ ४७७ ॥ . अथास्या नलवश्यायाः, कृपयोल्लास्य चीवरम् । अनलस्य वयस्योऽपि, तां वर्णालीमदीदृशत् ॥ ४७८ ॥ स्वपाणिना स्वरक्तेन, प्रियेण लिखितां लिपिम् । दृष्ट्वा नलमिवाऽऽधत्त, हृदयेऽन्तर्बहिश्च सा ॥ ४७९॥ अथ प्रमुदिता देवी, व्यचिन्तयदिदं हृदि । अहो! अद्यापि विद्येऽहं, हृदये हृदयेशितुः ॥ १८०॥ . यदादिदेश मे वर्त्म, स्वरक्तलिखिताक्षरैः । गमिष्यामि पितुर्गेहमेतैरेव सहायकैः ॥४८१ ॥ . .. योन्मु खताः ॥ २ बता० विनाऽन्यत्र नतान खंता ॥.... ।