________________
सर्गः] धर्माभ्युदयमहाकाव्यम् ।
१३५ निश्चित्येत्यचलद् भीमनन्दनी वटवर्त्मना । स्वपादहतपत्रालीध्वनितेभ्योऽपि विभ्यती ॥४८२ ॥ वृक्षेषु रलगायाः, सपल्या अपि सूनुषु । मुहुः स्निग्धेषु विश्रान्ता, साऽचलद् भूपतिप्रिया ॥ १८३ ॥ तस्यास्तिलकविद्योतपिङ्गदिग्गमनक्षितेः । चलन्त्या दावकीलाया, इव हिंसा वनेऽत्रसन् ॥ ४८४॥ अथावासितमग्रे सा, सार्थमेकं व्यलोकयत् । व्याप्तं शकटमण्डल्या, सवप्रमिव पत्तनम् ॥ ४८५ ।। सार्थेन सममेतेन, सुखं गहनलङ्घनम् । चिन्तयन्तीति वैदर्भी, दधौ मुदमुदित्वरीम् ॥४८६ ।। सार्थ यावदलञ्चक्रे, सा मरालीव परवलम् । तावत्तं रुरुधुश्चौराः, क्रूराः कृषिमिवेतयः ॥४८७ ॥ अत्र सार्थे मया त्राते, रे! मा कुरुत विप्लवम् । सिंहीजुषि वने शाखिमङ्गाय न मतङ्गजाः ॥ ४८८ ॥ भाषमाणामिदं भैमी, वातूलामिव तस्कराः । अवज्ञाय तदा पेतुः, सार्थे भृङ्गा इवाम्बुजे ॥ ४८९ ॥ पञ्चषानथ हुकारान् , सा चकार पतिव्रता । नेशुश्चौरास्तमःपूरास्तैर्भास्करकरैरिव ॥ ४९०॥ शीलावधिरधिष्ठातृदेवतेव तदैव सा । अर्चिता सार्थवाहेन, जगृहे च गृहे जवात् ॥ ४९१ ॥ मातेति मन्यमानस्य, सार्थवाहस्य पृच्छतः । भिन्दन्ती हृदयं दुःखैस्तद् द्यूतादि जगाद सा ॥ ४९२ ॥ अथासौ सार्थवाहेन, विवेकाद्भुतभक्तिना । अस्थाप्यत गृहे भैमी, नलपत्नीति यलतः ॥१९३ ॥ धनागमेऽन्यदोदामैापि व्योम घनाघनैः । तुच्छीभूतार्णवोन्मीलदौर्वधूमभरैरिव ॥ ४९४ ।। गर्जावायैस्तडिन्नतैर्धाराध्वनितगीतिभिः । मेघो दिनत्रयं यात्रामनुद्धाटेन निर्ममे ॥४९५ ॥ तत्र कर्दमसम्मर्दभीममालोक्य भीमजा । अविज्ञाता जनैः शुद्धभूवासाय ततोऽचलत् ॥ ४९६ ॥ तडित्तुल्यमुखज्वालं, घोरनिर्घोषदुर्धरम् । बलाकाकुलसङ्काशकीकसावलिभूषणम् ॥ ४९७ ॥ अतिवृष्ट्या तदा व्योम्नस्त्रुटित्वाऽब्दमिव च्युतम् । पथि सा कौणपं कालं, करालं कञ्चिदैक्षत ॥ ४९८ ।।
युग्मम् ॥ अथैनां राक्षसः प्राह, भोक्ष्यसे त्वं स्थिरीभव । चातकेनेव लब्धाऽसि, मेघधारेव यच्चिरात् ॥ ४९९ ॥ अथावष्टम्भमुद्भाव्य, भैमी भीमं जगाद तम् । कुर्वन्नज्ञ! ममावज्ञां, त्वं भविष्यसि भस्मसात् ।। ५०० ।। पश्यन्नित्यभयां भैमी, मुदितः कौणपोऽवदत्।तुष्टोऽस्मि तव धैर्येण, रुचितं याच्यतामिति ॥ ५०१ ॥ ततोऽवददमुं भैमी, यदि तुष्टोऽसि तद् वद । ज्वलिष्यति कियत्कालं, नलस्य विरहानलः ? ॥ ५०२ ॥ आख्यत् तदवविज्ञानात् , सैष भैमि! भविष्यति । हर्षाय द्वादशे वर्षे, पतिसङ्गः पितुर्गृहे ।। ५०३ ।। मुञ्चामि भवती तत्र, यदि वैदर्भि! भाषसे । अहं क्षणार्धमात्रेण, किमु भ्रमसि दुःखिता? ॥ ५०४ ।। इत्याकर्ण्य वचः कर्ण्यमस्य हृष्टमनास्ततः । बभाषे भीमभूमीशनन्दनी विशदाशया ॥५०५ ।। पत्युः कथयता सङ्गं, त्वयोपकृतमेव मे । गम्यतां स्वस्ति ते नाहं, यामि साकं परैर्नरैः ॥ ५०६ ॥ सदा भवेद् भवान् धर्मगृह्य इत्युदितस्तया ।स्वं रूपं दर्शयन् दिव्यं, कौणपः स तिरोदधे ॥ ५०७ ॥ प्राप्यो द्वादशवर्षान्ते, वर्षान्त इव भास्करः । नलिन्या इव मे भर्ता, मत्वेत्यभ्यग्रहीच सा ॥ ५०८ ॥ ताम्बूलमरुणं वासः, कुसुमं विकृतीस्तथा । नादास्ये सत्यमेतानि, प्रियाण्याऽऽप्रियसङ्गमात् ॥ ५०९ ॥ निश्चित्येदं तदा देवी, चलिता मन्थरं पुरः । गिरेर्ददर्श कस्यापि, कन्दरां फलितगुमाम् ॥ ५१० ॥ वर्षाकालविरामाय, रामेयं तत्र कन्दरे । एका केसरिकान्तेव, तस्थौ निर्भयमानसा ॥५११ ॥ भावितीर्थकृतः शान्तिनाथस्य प्रतिमामिह । निवेश्य मृन्मयी पुष्पैः, साऽर्चयद् गलितैः स्वयम् ॥ ५१२ ॥
१ सर्वे भृ खंता० ॥ २ °र नृपात्मजा । खता० ॥ ३ न्तेि विशदच्छदः । खता० ॥ ४ प्रियाण्यप्रिय वता० ॥