Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 158
________________ सर्गः1 । धर्माभ्युदयमहाकाव्यम् । कपिः कोऽप्यसलंमन्यः, कदाचिन्मदनातुरः । वञ्चयित्वाऽधिपं रेमे, तत्प्रियाभिर्मयोज्झितः ॥ ५५७ ।। तं युवानं बलिष्ठं च, वीक्ष्य शाखामृगस्त्रियः । जरत्कपिरतोद्विग्ना, दधुर्मुदमुदित्वरीम् ॥ ५५८ ॥ सममेष परीरम्भसम्भ्रमेण कपिस्त्रियः । काम-कोपवशात् कम्पसम्पदा पदमादधौ ॥ ५५९ ॥ स ताश्च नख-दन्तादिमृदुकण्डूयनादिकम् । रचयामासुरन्योन्यं, रहो गलितचेतनम् ॥ ५६० ॥ अथ यूथपतिर्दूरादेतदालोक्य दुःसहम् । अधावत् तावूत्कार, लहरीजित्वरत्वरः युवा कपिरपि प्रेक्ष्य, तं समायान्तमभ्यगात् । जवान्जितंतु चेतोऽपि, मुक्त्वा स्त्रीमध्य एव सः ॥ ५६२ ॥ गृहीतगृहिणीकोपसाटोपहृदयं तदा । स तं वालीव सुग्रीवमुग्रक्रोधमयोधयत् ॥ ५६३ ।। परस्परपरिक्षिप्तप्रतीष्टयावलोष्ठकैः । तौ घ्नन्तौ वनदेवीनामाश्चर्य चक्रतुश्विरम् ॥५६४ ॥ अथ कच्छाभपुच्छौ तौ, क्षुरीकाराविव क्षणात् । ऊवौं पाश्चात्यपादाभ्यामहं विविशतुर्मिथः ॥ ५६५ ॥ जवेनाथ जरन् दूरागतिखिन्नः कपीश्वरः । यूना स्त्रीदृष्टिपुष्टेन, निर्भग्नस्त्रासमासदत् ॥ ५६६ ॥ शिलाजतुनि स क्षित्वा, मुखं सलिलकाङ्कया । उद्धर्तुमक्षमः पाणी, मूर्खः प्राणकृतेऽक्षिपत् ॥ ५६७ ॥ तावत् तावपि तत्रैव, विलग्नौ वज्रलेपवत् । तदुद्धारघिया मूर्खः, पश्चात् पादौ न्ययुङ्ग तत् ॥ ५६८ ॥ लैनौ तावपि तत् तत्र, सतृप्णस्य क्रमौ हरेः । तेन कीलितसर्वाङ्ग, इव मृत्युमवाप सः ॥ ५६९ ॥ तदक्षिसपदः पूर्वमाकृषेद् वदनं स चेत् । अवश्यं तस्य तन्न स्याद् , दुर्मतेर्मृत्युरीदृशः ॥ ५७० ।। भवादृशां वचस्तृष्णाप्रेरितोऽहमपि भ्रमात् । सजामि रागगैरेये, गौराङ्गि! कपिवन्नहि ॥ ५७१ ॥ - नभःसेनाऽथ वक्ति स्म, व्यक्त लोभेन भूयसा ।नाथ! यास्यसि निर्बुद्धिबुद्धिस्त्रीवोपहास्यताम् ॥५७२॥ बुद्धिस्त्रिया आख्यानकम् ग्रामः सस्यश्रियां धाम, नन्दिग्राम इति श्रुतः। अस्ति विस्तीर्णकेदारसङ्कीणीभूतभूतलः ॥ ५७३ ॥ तन्त्र सिद्धिश्च बुद्धिश्च, प्रसिद्ध वृद्धयोषितौ । अभूतां स्फारदारियमन्दिरे सख्यसोदरे ॥५७४ ॥ प्रामेऽत्र भोलिगो नाम, यक्षो विख्यातवैभवः । वित्तस्याभूत् प्रभूतस्य, दाता सेवाधने जने ॥ ५७५ ॥ सिद्धिराराधयामास, ततस्तं भक्तिभासुरा । दीनारद्वितयं तुष्टो, ददौ तस्यै स चान्वहम् ॥ ५७६ ॥ अभुक्त काठपात्रे या, सा भुङ्के हेमभाजने। दास्य व्यधत्त याऽन्येषां, तस्या दास्योऽभवन् गृहे ॥ ५७७ ।। कुटीरे याऽवसद् भग्ने, सौधे वसति साऽनिशम् । दधौ या चीवरं जीर्ण, दुकूलैः साऽनुकूल्यते ॥ ५७८ ।। इत्थमालोक्य तां वुद्धिः, सिद्धिं सिद्धोरुवैभवाम् । प्रीत्या रहसि पप्रच्छ, साकूतं कौतुकादिति ॥ ५७९ ।। ॥ विशेषकम् ॥ कुलक्रमागतः स्वामी, दारिनं तावदावयोः । कुतो विभवपाथोधिजलदेवीव वर्तसे ? ॥५८० ॥ अथ सा कथयामास, तुष्टो यक्षः स भोलिगः । दीनारद्वितयं दत्ते, सम्पन्नेत्राभमन्वहम् ॥५८१ ॥ इति तस्य निशम्यासौ, वाचं निश्चित्य चेतसि । तमाराद्धवती यक्षं, बुद्धिर्भक्तिभरोतरा ॥ ५८२ ॥ १°रपूत्कारलह पाता० ॥ २ °वनोलकैः खंता० पाता० ॥ ३ ५६९-७० श्लोकयुगलस्थाने-लग्नौ • तावपि तत् तत्र, मृत्युमाप स दुर्मतिः । अप्रक्षिप्तपदः प्राणानाचकर्ष यदाननम् ॥ इत्येवंरूप एक एव श्लोकः पाता. पुस्तके वर्तते ॥ ४ तत्रैव, सत खंता०॥ ५ दृशवच पाता० ॥ ६ द्धिस्त्वं बुद्धिस्लीव हास्य खंता. पाता०॥ ७ अभुङ खंता०॥ ८ थोघर्जल पाना० ॥

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284