Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 188
________________ सर्गः] धर्माभ्युदयमहाकाव्यम्। ११५ ततस्तत्र स्थितं श्रुत्वा, कुमारमपराजितम् । आययौ पैतृको मन्त्री, समाकारयितुं रयात् ॥ २६९॥ सर्वेऽपि परिणीतस्वीपितरोऽपि तमाययुः । सरिदोघा इवाम्भोधि, विद्याधरधराधिपाः ॥२७० ॥ मित्रेण मन्त्रिणा धात्रीश्वरैर्विद्याधरैश्च तैः । ऋक्षैरिव तुषारांशुः, कुमारः परिवारितः ॥२७१ ॥ कम्पिनी सैन्यचारेण, स्विन्नां गजमदाम्बुभिः । भैजे निजपुरीमेष, दयितामनुरागिणीम् ॥२७२ ॥ बभौ पितरमालोक्य, वृक्षोऽम्बुदमिवाथ सः । प्रीतः प्रेक्ष्य च तं राजा, राजानमिव वारिधिः ।। २७३ ॥ रोमाञ्चमेचकश्रीकः, प्रसरभुजपक्षतिः । पितृपादाम्बुजोत्सङ्गे, वीरो भृङ्ग इवापतत् ॥ २७४ ॥ अथो कुमारमुत्थाप्य, बाहुभ्यां प्रीतिविह्वलः । राजा हृदि दधौ मूर्ध्नि, वर्षन् हर्षाश्रुविन्दुभिः ॥ २७५ ।। अयोधार नो मौलिं, न्यस्य मातृपदद्वये । नखोष्णीषमणीनां तु, रश्मिभिर्मथितं मिथः ॥ २७६ ॥ मात्रा कथञ्चिदुत्थाप्य, मुदा मूर्धनि चुम्वितः । कुमारः शैशवसुखं, सस्मार सुरदुर्लभम् ॥ २७७ ।। तौ मनोगति-चपलगतिजीवौ प्रणेमतुः । सोदरौ सूर-सोमाख्यौ, कुमारस्य पदद्वयम् ॥ २७८ ॥ समर्थमथ मत्वा तं, निधाय स्वपदे सुतम् । व्रतं विश्वस्तहरिणं, हरिणन्दी मुदा दधौ ॥२७९ ॥ तपस्तपनविस्तारध्वस्तकर्मतमस्ततिः । हरिणन्दीमुनिपतिस्तत् प्राप परमं पदम् ॥ २८०॥ महिषीपदविद्योतमानप्रीतिमतीयुतः । शशास सूर-सोमाभ्यां, सहोर्वीमपराजितः ॥२८१ ।। मित्रं विमलबोधोऽपि, तस्य मन्त्रिपदेऽभवत् । दीप्ततेजःप्रदीपैकसदनं सदनन्तधीः ॥२८२ ।। कुर्वन्नुवर्वीपतिस्तीर्थ-रथयात्रामहोत्सवम् । ददर्शाऽनङ्गदेवाख्यमिभ्यमुद्भिन्नयौवनम् ॥ २८३ ।। एतस्यैव द्वितीयेऽह्नि, मरणं परिभावयन् । धिक् ! संसृतिरसारेयमिति सारां धियं दधौ ॥ २८४ ।। इहान्तरे पुरोपान्ते, केवलज्ञानवान् मुनिः । आययौ यः कुमारत्वे, दृष्टः कुण्डपुरे पुरा ॥२८५ ॥ पद्मप्रीतिमतीपुत्रं, कृत्वा राज्येऽथ पार्थिवः । मुनेस्तस्माद् व्रतं प्राप, सकान्ता-ऽमात्य-बान्धवः ।।२८६ ।। स तपो निबिडं तत्वा, पूर्णायुः सपरिच्छदः । समभूदारणे कल्पे, शक्रसामानिकः सुरः ॥ २८७ ॥ ___ जम्बूद्वीपाभिधे द्वीपे, क्षेत्रे भरतनामनि । कुरुदेशशिरोमाल्ये, श्रीहास्तिनपुरे पुरे ॥ २८८ ।। श्रीपेणनृपतेः पन्यां, श्रीमत्यां शङ्ख इत्यभूत् । जीवोऽपराजितस्याथ, पूर्णेन्दुस्वप्मतः सुतः ।। २८९ ।। ॥युग्मम् ।। जीवो विमलबोधस्य, मतिप्रभ इति श्रुतः । आसीद् गुणनिधर्मन्त्रिकिरीटस्याङ्गजो गुणी ॥ २९० ॥ क्रीडां वितनुतो मित्रीभूय तौ पूर्ववत् ततः । यौवनस्य वशं यातौ, वसन्तौ जनचेतसि ॥ २९१ ॥ चौर्यदावामिदग्धाङ्गः, सीमादेशजनोऽन्यदा । आगत्य क्षितिनेतारं, विजेतारं व्यजिज्ञपत् ॥ २९२ ।। विशालशृङ्गः स गिरिः, सा चन्द्रशिशिरा नदी। दुर्गेऽस्मिन् दुर्ग्रहः पल्लीपतिः समरकेतनः ॥ २९३ ॥ हरत्येव सदेशस्थः, स देशस्य श्रियं सदा । दोषा दोषाकरोऽम्भोजवनस्येव समापतन् ॥ २९४ ॥ गिर जनपदस्येति, दुःखदाहसगद्दाम् । समाकाभवद् भूपः, कोपवहिहसन्तिका ॥२९५ ॥ कटकाय कटुस्वान्तः, समारम्भ विभावयन् । आदिदेश नृपः पत्ति-द्विप-बाह-रथाधिपान् ॥ २९६ ॥ अथ विज्ञापयामास, कुमारः क्षितिवासवम् । अन्तः स्फुरति कोपेऽपि, निर्विकारमुखाकृतिः ।। २९७ ॥ स्वर्गशो नागतः स्वर्गान्न पातालाद् बलिवली । कथमित्थं प्रभो! पल्लीपतिमात्रे प्रकुप्यसि ? ॥ २९८ ॥ मा कोपीरहमेवामुं, निग्रहीष्यामि हेलया । व्यापार हि कुठारस्य, नखच्छेथे करोति कः ॥ २९९ ॥ १ तं मत्वा, खेता० ॥ २ तिस्तत्र, रथ खंता० ॥ ३ 'निधिर्म' खता० ॥

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284