________________
सर्गः]
धर्माभ्युदयमहाकाव्यम्।
११५ ततस्तत्र स्थितं श्रुत्वा, कुमारमपराजितम् । आययौ पैतृको मन्त्री, समाकारयितुं रयात् ॥ २६९॥ सर्वेऽपि परिणीतस्वीपितरोऽपि तमाययुः । सरिदोघा इवाम्भोधि, विद्याधरधराधिपाः ॥२७० ॥ मित्रेण मन्त्रिणा धात्रीश्वरैर्विद्याधरैश्च तैः । ऋक्षैरिव तुषारांशुः, कुमारः परिवारितः ॥२७१ ॥ कम्पिनी सैन्यचारेण, स्विन्नां गजमदाम्बुभिः । भैजे निजपुरीमेष, दयितामनुरागिणीम् ॥२७२ ॥ बभौ पितरमालोक्य, वृक्षोऽम्बुदमिवाथ सः । प्रीतः प्रेक्ष्य च तं राजा, राजानमिव वारिधिः ।। २७३ ॥ रोमाञ्चमेचकश्रीकः, प्रसरभुजपक्षतिः । पितृपादाम्बुजोत्सङ्गे, वीरो भृङ्ग इवापतत् ॥ २७४ ॥ अथो कुमारमुत्थाप्य, बाहुभ्यां प्रीतिविह्वलः । राजा हृदि दधौ मूर्ध्नि, वर्षन् हर्षाश्रुविन्दुभिः ॥ २७५ ।। अयोधार नो मौलिं, न्यस्य मातृपदद्वये । नखोष्णीषमणीनां तु, रश्मिभिर्मथितं मिथः ॥ २७६ ॥ मात्रा कथञ्चिदुत्थाप्य, मुदा मूर्धनि चुम्वितः । कुमारः शैशवसुखं, सस्मार सुरदुर्लभम् ॥ २७७ ।। तौ मनोगति-चपलगतिजीवौ प्रणेमतुः । सोदरौ सूर-सोमाख्यौ, कुमारस्य पदद्वयम् ॥ २७८ ॥ समर्थमथ मत्वा तं, निधाय स्वपदे सुतम् । व्रतं विश्वस्तहरिणं, हरिणन्दी मुदा दधौ ॥२७९ ॥ तपस्तपनविस्तारध्वस्तकर्मतमस्ततिः । हरिणन्दीमुनिपतिस्तत् प्राप परमं पदम् ॥ २८०॥ महिषीपदविद्योतमानप्रीतिमतीयुतः । शशास सूर-सोमाभ्यां, सहोर्वीमपराजितः ॥२८१ ।। मित्रं विमलबोधोऽपि, तस्य मन्त्रिपदेऽभवत् । दीप्ततेजःप्रदीपैकसदनं सदनन्तधीः ॥२८२ ।। कुर्वन्नुवर्वीपतिस्तीर्थ-रथयात्रामहोत्सवम् । ददर्शाऽनङ्गदेवाख्यमिभ्यमुद्भिन्नयौवनम् ॥ २८३ ।। एतस्यैव द्वितीयेऽह्नि, मरणं परिभावयन् । धिक् ! संसृतिरसारेयमिति सारां धियं दधौ ॥ २८४ ।। इहान्तरे पुरोपान्ते, केवलज्ञानवान् मुनिः । आययौ यः कुमारत्वे, दृष्टः कुण्डपुरे पुरा ॥२८५ ॥ पद्मप्रीतिमतीपुत्रं, कृत्वा राज्येऽथ पार्थिवः । मुनेस्तस्माद् व्रतं प्राप, सकान्ता-ऽमात्य-बान्धवः ।।२८६ ।। स तपो निबिडं तत्वा, पूर्णायुः सपरिच्छदः । समभूदारणे कल्पे, शक्रसामानिकः सुरः ॥ २८७ ॥ ___ जम्बूद्वीपाभिधे द्वीपे, क्षेत्रे भरतनामनि । कुरुदेशशिरोमाल्ये, श्रीहास्तिनपुरे पुरे ॥ २८८ ।। श्रीपेणनृपतेः पन्यां, श्रीमत्यां शङ्ख इत्यभूत् । जीवोऽपराजितस्याथ, पूर्णेन्दुस्वप्मतः सुतः ।। २८९ ।।
॥युग्मम् ।। जीवो विमलबोधस्य, मतिप्रभ इति श्रुतः । आसीद् गुणनिधर्मन्त्रिकिरीटस्याङ्गजो गुणी ॥ २९० ॥ क्रीडां वितनुतो मित्रीभूय तौ पूर्ववत् ततः । यौवनस्य वशं यातौ, वसन्तौ जनचेतसि ॥ २९१ ॥ चौर्यदावामिदग्धाङ्गः, सीमादेशजनोऽन्यदा । आगत्य क्षितिनेतारं, विजेतारं व्यजिज्ञपत् ॥ २९२ ।। विशालशृङ्गः स गिरिः, सा चन्द्रशिशिरा नदी। दुर्गेऽस्मिन् दुर्ग्रहः पल्लीपतिः समरकेतनः ॥ २९३ ॥ हरत्येव सदेशस्थः, स देशस्य श्रियं सदा । दोषा दोषाकरोऽम्भोजवनस्येव समापतन् ॥ २९४ ॥ गिर जनपदस्येति, दुःखदाहसगद्दाम् । समाकाभवद् भूपः, कोपवहिहसन्तिका ॥२९५ ॥ कटकाय कटुस्वान्तः, समारम्भ विभावयन् । आदिदेश नृपः पत्ति-द्विप-बाह-रथाधिपान् ॥ २९६ ॥ अथ विज्ञापयामास, कुमारः क्षितिवासवम् । अन्तः स्फुरति कोपेऽपि, निर्विकारमुखाकृतिः ।। २९७ ॥ स्वर्गशो नागतः स्वर्गान्न पातालाद् बलिवली । कथमित्थं प्रभो! पल्लीपतिमात्रे प्रकुप्यसि ? ॥ २९८ ॥ मा कोपीरहमेवामुं, निग्रहीष्यामि हेलया । व्यापार हि कुठारस्य, नखच्छेथे करोति कः ॥ २९९ ॥
१ तं मत्वा, खेता० ॥ २ तिस्तत्र, रथ खंता० ॥ ३ 'निधिर्म' खता० ॥