________________
सकपतिचरितापरनामकं । इत्याकर्ण्य नरेन्द्रेण,,समादिष्टः प्रमोदिना । कुमारः शत्रुसंहारहेतवे कटकं व्यधात् ॥३.०० ॥ कृत्वा शून्यमथो दुर्ग, कतिचित्पत्तिपालितम् । तस्थौ दूरेण पल्लीशश्छलाय सह सैनिकः । ॥ ३० ॥ इति मत्वा कुमारोऽपि, समारोपितसैनिकः । प्रेरितैः पत्चिभिर्दुग, ग्राहयामास कैश्चन . ॥ ३०२ ॥ जगामान्तः समं सैन्यैः, शङ्खोऽयमिति शङ्कया । बलैरनर्गलैर्दुर्ग, पल्लीपतिरवेष्टयत् . ॥ ३०३ ॥ अथ संरुद्धदुर्ग तं, वल्गन्तं विक्रमोर्जितैः । पल्लीशं वेष्टयामास, कुमारः परितो बलैः . ॥३०४ ॥ अन्तर्बहिर्बलस्तोमैर्दुर्गान्ते वध्यतां गतम् । मत्वाऽऽत्मानमयो मानममुचत् पक्कणाधिपः ॥ ३०५ ॥ मूर्त मदमषीपिण्डमिवायातं हृदो बहिः । वहन् कण्ठे कुठारं स, कुमारमनुनीतवान् ॥३०६ ॥ वलमानः सहानेन, वीरोऽथ कटकान्तिके । अर्धमार्गेऽर्घराने स, शुश्राव रुदितं स्त्रियाः. ॥३०७ ॥ अथ शब्दानुसारेण, तां जगाम नृपाङ्गजः । एकः खगलतोद्रेकनाजिष्णुभुजभूरुहः । ॥ ३०८ ॥ कुमारस्तामथोवाच, किमिदं भीरु ! रुद्यते ।। इति साऽपि तदाकारविश्वस्ता दुःखिताऽवदत् ॥ ३०९॥ '
अङ्गदेशेषु चम्पायां, जितारिनृपतेः सुता । कीर्तिमत्यामभूद् भूरिपुत्रोपरि यशोमती॥ ३१: ।। गुणश्रवणमात्रेण, शङ्ख श्रीषेणनन्दने । अनुरागोऽभवत् तस्याः, सरोजिन्या रवाविव ॥३.११ ।। स्वाजन्याय ततो राजा, श्रीषेणनृपति प्रति । विशिष्टं प्रेषयामास, वाक्पीयूषपयोनिधिम् ॥ ३१२ ॥ समयेऽस्मिन्निमां बालां, मणिशेखरखेचरः । जहे मया सह महस्तिरस्कृतसहस्ररुक् ॥ ३१३ ॥ अटव्यामिह मुक्ताऽहं, निन्ये कन्या तु साऽन्यतः। तस्याः श्रीमन्नहं धात्री, तद्वियोगेन रोदिमि ॥ ३१४ ॥ किंवदन्तीं कुतस्तस्या, लभेयमिति चिन्तयन् । इमामाश्वासयामास, कुमारः काम्यया गिरा ॥ ३१५ ॥
अथ तीक्षणपरे, वीरे शौर्यसखः स्वयम् । पूर्वाशापतिरुष्णांशु, शैले दीपमिवामुचत् ॥ ३१६ ॥ तदटन्नटवीगर्ने, कन्यावीक्षणसत्वरः । शैले विशालशृङ्गाल्ये, कन्दरामन्दिरोदरे , ॥३१७ ॥ शङ्ख एव मम स्वामी, वदन्तीमिति बालिकाम् । खेचरं चाटुकारं च, सोऽपश्यन्मणिशेखरम् ॥ ३१८॥
क्रोधादभिमुखं धावन , पश्यन् कन्यां च सस्पृहम् । कुमारः खेचरेन्द्रेण, तत्मियत्वेन निश्चितः ॥ ३१९ ।। समायातः प्रियोऽयं ते, शङ्खः पश्यैष हन्यते । तां प्रतीति प्रतिज्ञाय, प्रचचाल स खेचरः ॥ ३२० ॥ तन्निष्कृपकृपाणाग्रसङ्ग्रामेण नृपाङ्गजः । खेचरं विगलद्भासं, दासं चक्रे विजित्य तम् ॥ ३२१॥ स्मित्वा न्यलोकयद् बाला, तं कुमारं जितद्विषम् । प्रभाते परिभूतेन्दु, पद्मिनीव दिवाकरम् ॥ ३२२ ।। अथ न्योन्नो मनोवेगा, मणिशेखरपत्तयः । पेतुर्नुपसुतोपात्ते, सरसीव सितच्छदाः ॥३२३ ॥ उभौ पुरे च सैन्ये च, प्रेषीदु भूपाङ्गजः खगौ । एकं यशोमतीधान्याः, समानयनहेतवे ॥ ३२४ ॥ निकाममुपरोधेन, कुमारः खेचरेशितुः । प्रणमन सिद्धचैत्यानि, कन्यया साकमेतया ॥३२५॥ आयातः कनकपुरे, विद्याधरपुरे ततः । भूमिमालामवैताब्यविशेषककलाभृति ॥ ३२६ ॥ युगमम् ॥ दिनानि कतिचित् तत्र, तस्थौ भूजानिनन्दनः । खेचरश्रेणिसौजन्यक्षीरनीरेशकेशवः ॥ ३२७ ॥ अथ तस्मै ददौ पुत्री, खगेशो मणिशेखरः । ददिरे खेचरैरन्यैरपि विद्या निजा निजाः ॥ ३२८ ॥ अथ विद्याधरैः सर्वैः, परितः परिवारितः । द्विषद्भयादकम्पायां, चम्पायां पुरि यातवान् ॥ ३२९ ॥ यशोमत्यादिकाः कन्याः, स तत्र परिणीतवान् । रोहिणीप्रभृतीः शीतद्युतिक्षिायणीरिव !! ३३० ॥
१ निधिः खंता० पाता. ॥ २ स्मिता व्य खता० ,पाता० ॥ .., .