________________
.
.
HTHHTHHAL
... सङ्गपतिचरितापरनामक,
शमा • अङ्गुलिभ्यां श्रमयतः, करात् कस्यापि चम्पकम् । क्षितौ पपात तत्कान्तिविजितं नु ! विलज्जितम् ॥ २३८॥ विमलं केतकीपत्रं, नखैः कश्चिददारयत् । तदीयदशनोन्मीलन्मयूखश्रीमलिग्लुचम् , ॥ २३९ ॥ तदीयाङ्गपरिष्वङ्गतिरोधानविधायिनम् । कश्चिदभ्रमयत् पाणेराक्रष्टुमिव कङ्कणम् ... ॥ २४० ॥ जगतीपतिषु स्पष्टमिति तेषु विलासिषु । पुरः माह प्रतीहारी, मुदा प्रीतिमती प्रति ॥२४१ ॥ एते देवि! मुदे विश्वविजयोज्वलविक्रमाः। आजग्मुस्त्वत्कृते भूपाः, स्मररूपा गुणाब्धयः ॥ २४२ ॥ यः कश्चित् ते मुदं चित्ते, दत्तेऽमीषु विशेषतः । वृणु तं भाग्यसौभाग्यप्रसादसदनं. नृपम् ॥ २४३ ॥ असौ मौक्तिकताडकहंसोत्तंसमुखाम्बुजः । राजा भुवनचन्द्राख्यः, शौर्य-धैर्य-धियां निधिः ॥ २४४ ॥ अयं हाराक्षितग्रीवो, राजा समरकेतनः । स्मरे हरभयोद्धान्ते, रूपश्रीरमुमाश्रिता ॥२४५ ॥ भूपः कुबेरनामाऽयं, सख्युर्मुखमवेक्षते । उत्तीर्णो भुवि चेतोभूर्दिवः शिवभयादिव . ॥ २४६ ॥ अयं सोमप्रभो राजा, करोद्यत्केलिकन्दुकः । प्रविष्टो हृदि नारीणां, स्यादसावेव मन्मथः ॥ २४७ ॥ भूपः सूराभिधः सोऽयं, लीलानीलारविन्दवान् । अमुं भेजे रतिनित्यं, प्रियेऽनङ्गे तदाशया ॥ २४८ ॥ भीमः श्रीमानसौ राजा, कुण्डले कुरुते करम् । स्मरं रतिरतं मत्वा, यं प्रीतिस्तद्वदाश्रिता ।। २४९ ॥ क्ष्माधवो धवलः सोऽयं, स्मेरनीलाश्मशेखरः। यत्कान्तिकिङ्करः कामो, भुवनेषु विजृम्भते ॥ २५० ॥ इति ज्ञात्वा प्रतीहारीवचनेन नृपानिमान् । क्रमेण प्रष्टुमारेभे, कन्या विद्यासु कौशलम् ॥ २५१॥ अथ जित्वा कुमारी, ताननुप्रश्नं निरुत्तरान् । वरं नरेभ्यो नारीति, ज्ञात्वा प्रीतिपराऽभवत् ॥ २५२ ॥ तामथ व्यथमानात्मा, कुमारो जितकाशिनीम् । तयैव मञ्चपाञ्चाल्या, मणिस्पर्शादवीवदत् ॥ २५३ ॥ चमत्कारकरी पुसा, प्राह पाञ्चालिका ततः । आक्षिप्य क्ष्मापतेः पुत्री, मूर्त्तमानभृता गिरा ॥ २५४ ॥ किमु गर्जसि वामाक्षि !, विजित्य नृपशून् नृपान् ? । न किं जानासि मामत्र, पुरः स्फुरितकौतुकाम् ? ॥२५५॥ भवत्या यदि जीयेऽहं, तद् गुरुर्लज्जते मम । मन्मौलौ न्यस्तहस्तोऽयं, हरिणन्दिनृपात्मजः ॥ २५६ ॥ चमत्कृतेति, पाञ्चालीवाचा सा चारुलोचना । शारदेव स्वयं वादसादरा मुदमुद्दधौ ॥२५७ ॥ कन्या पप्रच्छ कः शूरो?, जितात्मेति जगाद सा । को दक्षः ? साऽवदत् प्रोक्तं, तया श्रीभिरवञ्चितः ॥२५८॥ को दुःखीति तया प्रोक्तं, स्पृहा यस्येति साऽब्रवीत् । तयोक्तं को धनी ? यस्य, सुकृतानीत्युवाच सा ॥२५९॥ इति प्रश्नोत्तरगिरा, पाञ्चाल्या विजिता सती। मुदा कण्ठे कुमारस्य, बाला मालामयोजयत् ॥ २६० ॥ अथ पृथ्वीभृतः सर्वे, कुमारं प्रति कोपिनः । सममेव समीकायानीकिनीः समनीनहन् ॥२६१ ॥ बलानि बलवान् राज्ञां, तानि जित्वा नृपात्मजः । भूपैः प्रत्येकमेकाकी, सार्द्ध युद्धविधिं दधौ ॥ २६२ ॥ हेलयैव महीपालानन्यान् निर्जित्य भूपभूः । केसरीव समारूढः, सोमप्रभनृपद्विपम् . ॥ २६३ ॥ स्वस्रीयो मातुलेनायं, विस्फुरन्नपराजितः । राज्ञा सोमप्रमेणाथ, लक्षणैरुपलक्षितः ॥२६४ ॥ ग़लदश्रुजलो वीरमथ सोमप्रभो नृपः । भागिनेयं महाहर्षपूरितः परिरब्धवान् ॥२६५ ॥ हरिणन्दितनूजं मे, जामेयमपराजितम् । अमुं जानीथ भूपानामिति सोमप्रभोऽदिशत् ॥ २६६ ॥ जग्मुः स्वाजन्यमुर्तीशाः, सर्वेऽपीति प्रमोदिनः। मध्ये भूत्वा कुमारस्तैः, सोत्साहैश्च विवाहितः ॥ २६७ ॥
अथ सम्मानिता राज्ञा, सर्वेऽपि जितशत्रुणा । ययुर्निजनिजं स्थानं, नृपाः सोमप्रभादयः ॥ २६८ ॥ . १ तुकम् खता० ॥ २ °या पृष्ट, स्पृ खंता० ॥ ३ "किनी सम खताः ॥ ४ भोऽवदत्
खेता• ॥ ५ सर्वे प्रीतिप्रमों खंता० ॥