________________
धर्माभ्युदयमहाकाव्यम् ।
११३ अंसावसोढा तन्मित्रविरहं निरहङ्कृतिः । चिरं बनाम कान्तारे, यूथभ्रष्ट इव द्विपः ॥२०८ ॥ अथ अमनं गतो नन्दिपुरोपान्तसुरालये । एत्य खेचरयुग्मेन, स प्रोचे दुःखदुर्मनाः ॥२०९ ॥ आकारयति मित्रं ते, भूपभूरपराजितः । तदा चापहृतः सोऽयमावाभ्यां विपिनान्तरात् ॥ २१० ॥ प्रमुः कमलभानुनौं, हारयामास खेचरः। कुमुदिन्याः कृते पुन्याः, कमलिन्याश्च तं यतः ॥ २११ ॥ अयमेवानयोर्वाल्ये, न्यवेदि ज्ञानिना वरः । प्रभुणा निर्मिते सोऽस्ति, प्रासादे त्वद्विनाऽर्दितः ॥ २१२ ।। विवाहेऽपि निरुत्साहः, स भवन्तं विनाऽभवत् । तदेहि देहि तस्याद्य, मुदमन्धेरिवोडुपः ॥ २१३ ॥ इत्योकर्ण्य हृदि प्रीतः, स ताभ्यां सह जग्मिवान् । तत्प्राप्तिमुदितः कन्ये, वीरः पर्यणयच्च ते ॥ २१४ ॥ ___ अथ श्रीमन्दिरपुरे, तौ गत्वा सत्त्वदुःसहौ । स्थितौ कामलतानाम्न्या, वारनार्या निकेतने ॥२१॥ पुरेऽस्मिन्नेकदा कश्चिदभूत् कोलाहलो महान् । रथघण्टापथत्यागव्याकुलातुरङ्गमः ॥२१६ ।। तत् परम्परया ज्ञात्वा, निहतं घातकैर्नुपम् । वेश्यायै मन्त्रिसूराख्यदथ सज्जीवनौषधम् ॥२१७ ॥ तद् भूभृन्मन्त्रिणे तूर्ण, वेश्ययाऽपि निवेदितम् । अयं मद्गृहवास्तव्यः, किञ्चिद् वेत्ति महौषधम् ॥ २१८ ॥ मन्त्रिणा भक्तिभुग्नेन, तत् तदाऽऽकारिताविमौ । औषधेन घराधीशं, क्षणाच्चक्रतुरक्षतम् ॥ २१९ ॥ हरिणन्दितनूजोऽयमिति मत्वाऽथ भूभुजा | रम्भानाम्नः स्वनन्दन्याः, प्रदानेनैव संस्कृतः ॥ २२० । तत्रैव तामपि त्यक्त्वा, पुनः प्रचलिताविमौ । कञ्चित् केवलिनं वीक्ष्य, पुरे कुण्डपुरे स्थितौ ॥ २२१ ।। नत्वा केवलिनं भक्तिभावितः सुहृदा सह । अपराजितवीरोऽयं, निविष्टः क्षितिविष्टरे ॥ २२२ ॥ पप्रच्छ स्वच्छधी विशुभा-ऽशुभमथाऽऽत्मनः। मित्रस्य च स्वकीयस्य, मेदिनीनाथनन्दनः ॥ २२३ ॥ द्वाविंशस्तीर्थकृद् भावी, नेमिस्त्वं पञ्चमे भवे । अयं सुहृच्च प्रथमो, गणभृत् ते भविष्यति ।। २२४ ।। वाचं सम्यग् निशम्येति, प्रथितां मुनिनाऽमुना । स प्राप प्रमदं भाविमुक्त्यानन्दानुवादिनम् ॥ २२५ ॥ मुनौ कृतविहारेऽथ, केवलज्ञानभास्करे । तौ कुतूहलिनौ देशान् , द्रष्टुमभ्रमतां पुनः ॥ २२६ ।।
इतश्चास्ति जनानन्दे, लङ्काशङ्काकरे पुरे । जितशत्रुधरित्रीशो, धारिणी चास्य वल्लभा ॥ २२७ ॥ सोऽपि रत्नवतीजीवश्युत्वा माहेन्द्रकल्पतः । देव्याः कुक्षिसरोहंसी, जज्ञे प्रीतिमती सुता ॥ २२८ ।। अथासौ यौवनं प्राप्ता, प्रतिज्ञामिति निर्ममे । विद्यया मां विजेता यः, स मे भर्ता भविष्यति ॥ २२९ ॥ स्वयंवरार्थमुशिस्ततो निर्माय मण्डपम् । पञ्चेषुरोचिपो भूरीनमीमिलदिलाधिपान् ॥२३० ॥ संपाञ्चालीप्रपञ्चेषु, ते मञ्चेषु निषादिनः । किरन्ति रागं प्रत्यङ्गं, भूपामणिविभानिभान् ॥ २३१ ।। अत्रान्तरे नरेशस्य, सचिवस्य च तौ सुतौ । पश्यन्तौ काश्यपीखण्डमखण्डस्मयमीयतुः ॥२३२ ।। विधाय गुलिकायोगादन्यं वेषमुभौ ततः । मूले मञ्चस्य कस्यापि, स्थितावुत्तालकौतुकौ ॥ २३३ ।।
कस्याश्चिन्मञ्चपाञ्चाल्या, मूर्ध्नि न्यस्तकराम्बुजः । कुमारस्तस्थिवान् पश्यन् , भूभुजस्तृणवत् तदा
॥ २३४॥ अथ रजपथकोडं, पाप प्रीतिमती तदा । पुरोवर्तिप्रतिहारीप्रथिताग्रपथान्तरा ॥२३५ ॥ समालोक्य समायान्तीमथं ते पृथिवीभृतः । चेष्टान्तराणि 'तत्कालं, चक्रिरे चलचेतसः ॥२३६ ॥ परिनाम्यति लीलाब्जे, चक्षुश्चिंक्षेप कश्चन । इह तद्वक्त्रशोभाऽस्ति, न वेतीव विलोकयन् ॥ २३७ ॥
१ धराधीशो, खता० ॥
प. १५