________________
११.१२.', सलपतित्ररितापरनामकं ।। .. [दशमः . भने सैन्ये प्रणिधितो,'ज्ञात्वा तं नृपनन्दनम् । रणं निर्मुच्य पप्रच्छ, कुशलाकोशलेश्वरी ॥ १७७॥ . पितृमित्रं कुमारोऽपि, तं मत्वा मन्त्रिणो गिरा । नमश्चकार तत्कालाहङ्कारभ्रंशभासुरः ॥ १७८॥ . सुता कनक्रमालाऽस्मै, कुमाराय महीभुजाः । दत्ता प्रमथनाथाय, पार्वतीव हिमाद्रिणा ॥ १७९ ॥
अथ देशान्तरालोककौतुकायत्तचेतसौ । निशि निःसृत्य मन्त्रीश-धात्रीशतनुजौ गतौः । ॥ १०॥ . अथ तौ कानने क्वापि, कामिन्याः करुणारवम् ।आकर्ण्य कालिकादेव्या, मन्दिरे जग्मतुर्जवात् ॥ १८१॥ समीपे वह्निकुण्डस्य, रुदती कामपि स्त्रियम् । वीरो व्यलोकयत् तत्र, कान्तां केनापि खजिना । १८२॥ अथ तं प्रथितोत्साहः, कुमारः प्राह खजिनम्। न वेत्सि क्रूर!रे। भूमि, मया संस्वामिकामिति ॥ १८.३॥ " विद्यते यदि ते शक्तिर्विधेहि प्रधनं ततः । इत्याकर्ण्य द्रुतं सोऽपि, चलितः कलितः क्रुधा :॥ १८४ ॥
समुल्लासितनिस्त्रिंशौ, रणाय स्फुरितौ ततः । एतावुत्पाटितोद्दण्डशुण्डादण्डाविव द्विपौ. ॥ १८५॥ 'खजेन धारया धारां, वारयन्तौ मुहुर्मिथः । युयुधातेतरामेती, दन्ताभ्यामिव दन्तिनौ ॥ १८६ ॥ 'तमजेयतमं मत्वा, कुमारमसिना पुरः । क्रीडया पीडयामास, नागपाशप्रबन्धतः । ॥१८७ ॥ ' ' वल्लीबन्धानिव गजः, स जगत्कौतुकप्रदः । नृपसूनुर्बलेनैव, नागपाशानतुत्रुटत् . !॥१८८॥ लोचने वञ्चयित्वाऽथ, कुमारेण रणाङ्गणे । कालिन्दीस्रोतसेव गुररातिः पातितोऽसिना ॥ १८९ ॥ . मूर्छा,निमीलयामास, तस्येन्द्रियगणं ततः । समुल्लसत्तमःस्तोमा, पद्मखण्डमिव क्षपा । ॥ १९०॥
अथ पानीयमानीय, तं निषिच्य नृपाङ्गजः । चलचेलाञ्चलोन्मीलन्मारुतैरुदजीवयत् । ॥ १९.१.॥ . सम्प्रीतः सोऽपि मूर्छान्ते, भूपसूनुमभाषत । विघृष्य मूलिकामेतां, लेपं घातेषु देहि मे ॥ १९॥ .
श्रुत्वेति भूपपुत्रोऽपि, चक्रे तस्य वचः क्षणात् । नीरे रेखेव तत्खगक्षतिदेहे तदाऽमिलत्.. ॥ १९३॥ अथोत्थितः स वीरेण, काऽसौ ? कोऽसीति भाषितः । उद्बुद्धवदनाम्भोजमरन्दमधुरं वचः ॥ १९ ॥ - :: आस्ते पुरश्रियां सीमा, पुरं श्रीरथनूपुरम् । तस्मिन्नमृतसेनाख्यः, क्षितिपः खेचरेश्वरः॥ १९५ ॥ अस्ति कीर्तिमती नाम, तस्य कीर्तिमती प्रिया रत्नमालाऽभिधा बाला, रतिरूपा तयोरियम् ॥ ११९६ ॥ हरिणन्दिधराधीशतनुभूरपराजितः । अस्या भविष्यति पतिर्ज्ञानिनेति निवेदितम् । : ॥ १९७ ॥ . श्रीषेणनन्दनः 'शूरकान्तनामाऽस्मि खेचरः । लावण्यलहरीसिन्धुमेनां याचितवानहम् . ॥ १९८ ॥ अपराजित एव स्यात् , प्रियो मे हरिणन्दिभूः । प्रविशाम्यथवा वहि, चक्रे निश्चयमित्यसौ ॥ १९९॥ . अपहृत्य ततः कोपादानीतेयं मया वने । भक्तिभिः शक्तिभिश्चापि, चापलादर्थिता भृशम् ॥ २० ॥ पूरयिष्यामि ते वहिप्रवेशनियमं ततः । इत्युक्त्वा कृष्टनिर्विशे, मयि वीर! त्वमागतः । ॥२०१॥ वितन्वति कथामित्थं, तत्र विद्याधरे तदा । पितरौ रत्नमालायाः, पुत्रीमीक्षितुमागतौ .॥ २० ॥ मन्त्रिपुत्रगिरा ताभ्यां, मत्वाऽयमपराजितः । रत्नमालां रतिमिव प्रद्युम्नः परिणायितः ॥२०३ ॥ विद्याधरः कुमाराय, व्रणरोहणौषधीम् । चिन्तितार्थकरी दत्त्वा, गुलिकां च क्वचिद् ययौ ॥ २० ॥ 1: अथो, यथागतं सर्वे, जग्मुस्तौ तु महाशयौ । चिरकालं वने प्रान्तौ, दिवीन्दु-तपनाविव ।। २०५॥ कुमारः सहकारस्य, तलेऽथ तृषितः स्थितः । ययौ सचिवसूनुस्तु, वारिग्रहणहेतवे . । ॥ २०६ ॥ ''कुतोऽपि तोयमादाय, यावत् सोऽयमुपागतः । तावदाम्रतरोर्मूले, न पश्यति नृपाङ्गजम् .. ॥ २०७॥ ।
...शत मित्रनन्द "खता० ॥...२°चनं व खता० ॥ ३ 'अवदद् वदना "खता ॥ . . ". ४ निदेशितम् खंता? ॥ ५ घरकुमारोऽथ, वण खता० ॥ ... ... ....