Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सङ्घप्रतिचरितापरनामकं .
- [अष्टमः सेयं मुग्धा मम वधूश्चौरेण जगृहे' पुनः । नाहं चौर इदं जल्पन् , स ततश्चकृषे भटैः ॥ ४७६ ॥ समं मलिम्लुचेनाथ, नाथभूतेन पांशुला । चचाल चैत्यतस्तस्मात् , कलङ्ककनिकेतनम् ॥४७७ ॥ प्रस्थिताभ्यामथैताभ्यां, ददृशे पुरतः सरित् । अम्भःकुम्भिकरोदश्चदम्बुचुम्बितटद्रुमा ॥४७८॥ चौरोऽथ चिन्तयाञ्चक्रे, न, या निजविभोरभूत् । भविष्यति कुतः सा मे, कामेषुविवशीकृता । ॥ ४७९ ॥ अस्याः सर्वस्वमादाय,, मायया तद् बजाम्यहम् । मनोरथं मदीयं हि, नदीयं पूरयिष्यति ॥ १८ ॥ इति निश्चित्य तामूचे, चौरश्चपललोचनाम् । दुस्तरा, सिन्धुरेषाऽस्ति, गतिनिर्जितसिन्धुरे । ॥ ४८१ ।। एककालं न भवती, वसना-ऽऽभरणादि. च । उत्तारयितुमीशोऽहं, तत् पूर्व सर्वमर्पय ॥ ४८२ ॥ ततस्तीरे विमुच्यैतत् , सर्वं सर्वाङ्गसुन्दरि ! । भवतीं पुनरानेतुमहमेष्यामि सत्वरम् . ॥४८३ ।। ..... साऽपि तद्वचसा प्रीता, वसना-ऽऽभरणादिकम् ।
तस्याऽर्पयित्वा चौरस्य, शरस्तम्बान्तरे स्थिता । . .॥ ४८४ ॥ स्वभावनिस्त्रपां दौश्यनिस्त्रपस्तां विलोकयन् । दायादवत् तदादाय, स विवेशाऽऽपगापयः ।। ४८५ ॥ स्वपतित्यागिनींन त्वां, स्वमेऽपि स्पृहयाम्यहम् । तामित्युक्त्वा नदीं तीर्थ्या, तस्करः स तिरोदधे ॥ ४८६ ॥ साऽपि किं करवाणीति, वाणिनी मूढमानसा । एकं जम्बुकमद्राक्षीन्मांसखण्डजुषं मुखे ॥ ४८७ ॥ जिघृक्षुःसतिमि सिन्धोरम्बुकच्छेऽथ जम्बुकः ।मांसखण्ड,पुरो मुक्त्वाऽधाव यावदयं रयात् ॥ ४८८ ॥ ... तावदम्बुनिमग्नेऽस्मिन्, मत्स्ये विवलितस्तदा । । " .. .. . . चक्रन्द जम्बुको दुःखी, शकुन्या पिशिते हृते ॥ ४८९ ॥ युग्मम् ।। तं तथास्थितमालोक्य, गतदुःखेव साहसत् । प्रौढान्यपि हि दुःखानि, विस्मयन्तेऽतिकौतुकैः ॥ ४९० ॥ हसन्तीमसतीमेतां, व्यक्तमूचेऽथ जम्बुकः । मां किं मांस-तिमिभ्रष्टं, नग्ने! हससि नित्रपे!? ॥ ४९१ ॥ अष्टं जाराच चौराच, किं नात्मानं हुसस्यहो!! । मूढो ह्यद्रौ ज्वलत् पश्येन्न पुनः पादयोरधः ॥ ४९२ ॥ जल्पाके जम्बुके तस्मिन्निति वृत्तं नृभाषया । चिन्तयामास सा यावदाविष्कृतचमत्कृतिः ॥ ४९३ ॥ स दिव्यपुरुषो भूत्वा, भूरिभूषणभूषितः । जगाद जम्बुको वाचं, भूयस्तां तावदुञ्चकैः ॥ ४९४ ॥
॥ युग्मम् ।। निजं जानीहि मां पूर्णहिमांशुमुखि ! कामुकम् । अहं स-हंसगमने !, शिखारत्न निषादिनाम् ॥ ४९५ ।। त्वामादाय गते चौरे, चौरबुद्ध्याऽथ रक्षकैः । अहं दुःखलतामूलशूलायामधिरोपितः ॥१९६ ॥ जिनदासं तदाऽऽसन्नचरं वीक्ष्य वणिग्वरम् । आतोऽयाचं पयः पातुं, पयोदमिव चातकः ॥ ४९७ ॥ नमोऽर्हदय इति न्यस्य, मन्त्रं मयि तदाऽऽतुरे । पानीयाय जगामाऽयमन्तामं वणिग्वरः ॥ ४९८ ॥ . अथ.शूलास्थितस्तेन, मन्त्रेण मुखरस्तदा । जातोऽहं केतकीपत्रमाग्रजापतिरेफवत् ॥ ४९९ ॥ आरक्षानुज्ञया श्रेष्ठी, पयः पाययितुं मया । दृष्टो हृष्टेन मातेव, वेगादागामुकस्तदा ॥५०० ॥ अपीतेनापि तृप्तोऽहं, पयसा दृक्पथस्टशा । स्मरन्नतितरां मन्त्रं, प्राणैर्मुक्तोऽस्मि तत्क्षणात् ॥ ५०१ ॥ {. .., तन्मन्त्रध्यानमाहात्म्याद्, भूत्वाऽहं ज्ञानवान् सुरः । ..तब मोहन्यपोहाय, व्यधां फेरुण्डताण्डवम्
॥ ५०२ ।। जैनं भूज ततो धर्मममुं त्वमपि भामिनि !| नैव स्वर्गा-ऽपवर्गश्रीर्यत्प्रसादाद्-दुरासदा ॥ ५०३ ॥
१ हेऽमुना । ना खता० ॥

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284