Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६ )
वसंतराजशाकुने - प्रथमो वर्गः ।
तेन संविदिह शाकुनसंज्ञा सम्यगस्ति खलु सा च नराणाम् ॥ उद्यमेषु सकलेषु नितांतं सर्वकालमुपयोगमुपैति ॥३०॥ वसंतराजशाकुने सदागमार्थशोभने ॥ समस्तसत्यकौतुके प्रतिष्ठितं हि शाकुनम् ॥ ३१ ॥ इति श्रीवसंतराजशाकुने प्रथमो वर्गः ॥ १ ॥
॥ टीका ॥
युक्त्या व्यवस्थापितं वदंति कथयंति कीदृक्फलाविसंवादीति । फलेन सहाविसंवादः अव्यभिचारो विद्यते यस्य तत्तथा अस्त्यर्थे इन् यत् यस्मात् त्रिनेत्रो भगवान्यदुत्तमं शाकुनं शकुनशास्त्रं तद्गणानां वा मुनीनां वा नराणां उपादिशदकथयत् ॥ २९ ॥ तेनेति ॥ तेन हेतुना ईश्वरोपदिष्टत्वेनेत्यर्थः । इहास्मिञ्जगति शाकुनसंज्ञा संविज्ज्ञानं सम्यगस्ति खलु निश्चयेन च पुनः सा संवित् नरागां सकलेषूद्यमेषु नितांतमतिशयेन उपयोगं कार्य उपैति गच्छति सदा सर्वकालं सर्वस्मिन्काले सर्वदेति यावत् ॥ ३० ॥ वसंतराज इति हि निश्चितं शाकुनज्ञानं प्रतिष्टितं युक्तिभिः सम्यक्तया ग्रंथकृता स्थापितं कस्मिन्वसंतराज इत्यभिवया प्रसिद्धे शाकुने शकुनग्रंथे इत्यर्थः कीदृशे सदागमार्थशोभने इति । सदागमा वेदास्तेषामर्थास्तैः शोभने पुनः कीदृशे समस्तति।समग्राणि सत्यान्येव कौतुकानि यस्मिन्स तथा ॥ ३१ ॥ इतिश्रीपाति साहश्रीअकब्चर जलालदीनसुर्यसहस्रनामाध्यापक श्री शत्रुंजय करगोचनादिसुकृतका रिभिर्महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजविवृतौ प्रथमो वर्गः १ ॥
॥ भाषा ॥
कोई प्रकार करके या अप्रमाण शास्त्रयुक्तिकरके कहैं हैं याते ही त्रिनेत्र जो शिवजी भगवान् मनुष्य के कल्याणके लिये गणनकूं वा ऋषिनकूं कहतेहुये ॥ २९ ॥ तेनेति ॥ शिबजी करके उपदेश दियोगयो ताकारण करके या पृथ्वीमें शकुनज्ञान बहुत उत्तमहै, निश्वयही ये शकुन मनुष्यनकूं संपूर्ण उद्यमनमें करनो योग्य है, शकुनते ही सब कार्य मनुष्यको प्राप्त होय है ॥ ३० ॥ वसंतराजेति ॥ वेदनके अर्थनकर के शोभायमान और सत्य हैं समस्त शकुनादिक जामें सो नामकरके प्रसिद्ध ग्रंथ जो वसंतराज तामै निश्चयशाकुनज्ञान ग्रंथकर्ताने स्थापन कियो है ॥ ३१ ॥
इति श्रीवसंतराजशाकुन भाषाटीकायां श्रीमज्जटाशंकरात्मजज्योतिर्विच्छ्रीधरविरचितायां प्रथमो वर्गः ॥ १ ॥
For Private And Personal Use Only