Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४) वसंतराजशाकुने-प्रथमो वर्गः।
येन पक्षिपशवो विचक्षणाः संभवंति न परप्रयोजने ॥ कर्मपाकपिशुनास्ततः कथं तत्र दैवमुदितं प्रवर्तकम् ॥ २५॥ आसीदिदं चास्ति भविष्यतीति पृच्छन्यथेच्छं पुरुषस्तिरश्वः ॥ त्रिकालदर्शी तदनुग्रहेण योगीव सर्वो भवति . क्षणेन ॥२६॥
॥ टीका ॥
मां वेत्ति नवेति यस्य संशयो भवति मत्कृतं पूजादिकमयं मन्यते न वायं यत्नवान अयं मामुपेक्षते । ईदृशेषु पुरुषेषु शकुनो न विशिष्यते विशेषेण फलप्रदायको न भवतीत्यर्थः ॥ २४ ॥ एते कथं जानतीन्याशंक्य प्रदर्शनपूर्वकमाह ॥ येनेति ॥ येन 'कारणेन परप्रयोजने परकृत्ये पक्षिपशवो विचक्षणाः प्रेक्षावंतः न संभवति ततःक. मपाकपिशुनाः कर्मजनितशुभाशुभसूचकाः कथं स्युरित्याह । तत्रकर्मपाकपिशुनत्वे प्रवर्तकं दैवमुदितं कथितं पूर्वाचारित्यर्थः। अदृष्टप्रेरिताः पक्षिपशवस्तथाविधकार्येषु प्रवर्तन्त इत्यथः॥ २५ ॥ आसीदिदमिति । सर्वो जनः पुरुषः योगीव त्रिका लदर्शी भवति कथं क्षणेन स्वल्पकालेनेत्यर्थः । किं कुर्वन्पुरुषः पृच्छन् कान् तिरश्चः द्विकर्मकत्वात् द्वितीयकर्मापेक्षायामितीति किमासीत् इदं वस्तु वर्तते । इदमः प्रत्यक्षगतार्थवाचकत्वात् । किंचिद्भविष्यतीति कीदृशोजनस्त्रिकालदर्शीतिभूतभविष्यदर्तमानं पश्यतीत्येवंशीलः स तथा केन तदनुग्रहेण शकुनानुग्रहणेनेत्यर्थः ॥ २६ ॥
॥ भाषा॥
के नहीं मानेहैं, ये शकुन यत्नवान् है के ये माळू उपेक्षाकरे हैं, याप्रकार जापुरुष• संदेह होय, उनपुरुषनमें शकुन विशेष करके फलको देवारो नहीं होय है. ॥ २४ ॥ येनेति ॥ जाकारणकरके पराये कार्यमें बडे निपुण पक्षी पशु ये नहीं होय तो कर्मजनित शुभ अशुभ फलको ज्ञान कैसे होय, ताकर्मफलके जितायवेमें प्रवर्तक पूर्वाचार्योने दैवकह्योहै, अर्थात् अदृष्ट जो प्रारब्ध ताकरके प्रेरेहुये पक्षी पशु ये तैसे ही कार्यनमें प्रवर्त होय हैं, ॥ २५ ॥ आसीदिदमिति ॥ संपूर्ण जन हैं सो पक्षिनकू यथेच्छ भूतभविष्यवर्तमानपूछते संते शकुनके भनुग्रहकरके भल्पकाल करके ही त्रिकालदर्शीयोगीकी नाई होय. ॥ २६ ॥
For Private And Personal Use Only