Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 8
________________ चतुर्थं पर्व-प्रथमः सर्गः एकदा च पुष्पार्थमागता विशाखनन्दिमातृदास्यस्तत्र सप्रियाजनं विश्वभूति क्रीडन्तं प्रेक्ष्य सेाः प्रियङ्गदेवीमूचिरे-"यौवराजिविश्वभूतिरेव राजा, नाऽपरः । यतः स सदा सान्तःपुरः पुष्पकरण्डके क्रीडति, किन्तु तव पुत्रो वारितो बहिरेव तिष्ठति" । तच्छ्रुत्वा कुपिता कोपगृहं प्रविष्टा प्रियङ्गदेवी राज्ञा पृष्टाऽब्रवीत्-"विश्वभूति: पुष्पकरण्डके राजेव रमते, त्वयि सत्यपि च मम सूनू रङ्कवद् बहिस्तिष्ठति" । ततो राजोवाच-"प्रिये ! अस्माकं कुले व्यवस्थैषा, यदेकस्मिन् कुमारे क्रीडति द्वितीयो न प्रविशेत्" । तथाऽप्यनुपशान्तकोपायां तस्यामुपायज्ञो नृपतिर्यात्राभेरीमवादयत् । तथा पुरुषसिंहाख्यः सामन्त आज्ञां न पालयतीति तं प्रति प्रस्थितोऽस्मीत्यवोचच्च । तच्छ्रुत्वा च सम्भ्रमाद् विश्वभूतिरेत्य-"मयि सत्यपि तात: स्वयं युद्धाय किं यास्यती"त्याधुक्त्वा साग्रहं राजानं निवार्य बलयुतः सामन्तं प्रति ययौ । सामन्तेन च कुमारागमनं श्रुत्वा स्वगृहं सादरं नीत उपदादिभिस्तोषितश्च विरोधादर्शनात् ततो यथागतेनैव पथा निववृते । इतश्चोद्याने राज्ञा विशाखनन्दी प्रवेशितः । विश्वभूतिरपि च देशं भ्रान्त्वा पूर्ववत् तत्राऽऽगतो "विशाखनन्दी मध्येऽस्तीत्युदित्वा वेत्रिणा वारितस्तथैव स्थितो दध्यौ-"अहमस्मादुद्यानाच्छद्मना निष्काशितो बहिः, हन्त ! किं करोमि ? ततश्च कुपितः कपित्थानि फलभरनम्राणि मुष्टिना ताडयित्वा पातितैस्तैश्छन्नां भुवं दर्शयन् “व: शिरांस्यपीत्थमेव पातयामि, यदि ज्यायसि भ्रातरि मम भक्तिविघ्नो न भवेत् ? यदर्थमयं वञ्चनोपायः, तैभौगैरल"मिति । एवमुक्त्वा तृणवद् भोगान् मुक्त्वा सम्भूतमुनिपार्वे व्रतमाददे । तच्च श्रुत्वा सान्तःपुरपरिच्छदो विश्वनन्दी युवराजेन समं तत्र समागत्य सूरि नमस्कृत्य विश्वभूतिमुपेत्य सगद्गदमुवाच-"वत्स ! त्वं सर्वमस्मान त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पृष्ट्वैवाऽकार्षीः, सहसैवं किं कृतवान् ? अद्याऽपि व्रतं मुञ्च, भोगान् भुक्ष्व, प्राग्वच्च पुष्यकरण्डके स्वैरं रमस्व" । ततो विश्वभूतिरवोचत्-"अलं मे भोगसम्पदा, वैषयिकं सुखं वस्तुतो दुःखमेव । भवकारायां स्वजनस्नेहतन्तव: पाशा एव । अतोऽतः परं किञ्चिद् न वाच्यम् । परलोकसहायं तप एव चरिष्यामि" । तेन तथोक्तो नृपः सानुतापो गृहं ययौ । विश्वभूतिरपि च गुरुणा सह व्यहार्षीत् । व्रत-गुरुशुश्रूषादिनिरतोऽधीतसूत्रार्थो भूयांसं कालमतीत्य गुरोरनुज्ञयैकाकिविहारप्रतिमाधरो विविधाभिग्रहपरो ग्राम-पुरादिषु विहरमाणो मथुरां पुरी जगाम । तदा च विशाखनन्द्यपि सपरिच्छदो मथुराराजकन्यकां पैतृष्वस्त्रेयीमुद्वोढुं तत्राऽगात् । विश्वभूतिश्च मासान्तपारणाय परिभ्रमन् विशाखनन्दिशिबिरमुपाययौ । तदानीं च तद्दर्शनाद् विशाखनन्दिनो रोष: समुदभूत् । विश्वभूतिश्चैकया गवाऽऽघातं प्रापितोऽपतत् । तद् दृष्ट्वा हसित्वा च विशाखनन्धुवाच-"कपित्थपातनं तद्बलमिदानी क्व गतम् ?" तं दृष्ट्वा च विश्वभूतिरमर्षणस्तां गां श्रृङ्गयोर्गृहीत्वा पूलवद् भ्रमयित्वा ततो निवृत्तो दध्यौ-"निःसङ्गेऽपि मय्यद्याऽपि सरोषोऽयम्" । अनेनोग्रेण तपसाऽस्य मृत्यवे भवान्तरे भूयासमिति निदानं चाऽकरोत् । सम्पूर्णकोटिवर्षायुः तदनालोच्य मृतश्च महाशुक्रे सुरोऽभवत् । इतश्च दक्षिणभरतार्धे पुरोत्तमे पोतनपुरे गुणान्वित उपायचतुष्टयज्ञो रिपुप्रतिशत्रुपो बभूव । तस्य च शीलवत्या भद्रानाम्न्या महिष्याः कुक्षावनुत्तरविमानाच्च्युत्वा सुबलजीवोऽवततार । तदानीं च सा चतुरो महास्वप्नान् गज-वृषभ-चन्द्र-पद्मसरांसि दृष्ट्वा "ऽमीषां स्वप्नानां किं फल"मिति राज्ञः पृष्टवती । राजाऽपि तच्छ्रुत्वाPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75