Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 48
________________ पञ्चमं पर्व-प्रथमः सर्गः ८३ विद्याधरावाजग्मतुः । तयोरेकोऽभिमन्त्र्य पयसा चितां सिषेच । ततश्च तत्कालं सा प्रतारिणीविद्याऽट्टहासं कुर्वती पलायिष्ट । ततो विस्मितः श्रीविजयः किमिदमिति तौ विद्याधरावपृच्छत् । तौ च प्रणम्योचतु:“आवाममिततेजसः पत्ती पितापुत्रौ सम्भिन्नश्रोतो-दीपशिखाभिधौ जिनबिम्बानि वन्दितुं स्वेच्छया निर्गतावत्राऽऽगच्छन्तौ करुणस्वरं "हा श्रीविजय ! प्राणनाथ ! हा बान्धवामिततेजः ! हा वत्स ! हा विजयभद्र ! हा त्रिपृष्ठकुलदेवता: ! इमां सुतारामस्माद् विद्याधरादविलम्बितं त्रायध्वं त्रायव"मिति विलपितमश्रौष्व । तत: स्वामिनः स्वसारं दुरात्मना हियमाणां ज्ञात्वा तं शब्दमन्वगच्छाव । सद्य एव चाऽशनिघोषेण गृहीतां सुतारामपश्याव । ततोऽतिकुपितावावामसी कृष्ट्वा जिघांसन्तौ तमुपस्थितौ । ___ ततः सुतारादेव्योक्तं-"युवयोर्युद्धेनाऽलं, ज्योतिर्वनं यातं, तत्र प्रतारणया विद्यया वञ्चयित्वाऽसून् त्याज्यमानं श्रीविजयं निषेधतम् । यतस्तस्मिन् जीवति जीवामि" । तदादेशाच्चाऽऽवामिह द्रुतं समुपस्थिती मन्त्रितोदकैश्चितावह्नि विध्यापितवन्तौ स्वः । इयं च प्रतारणी विद्या सुतारारूपधारिणी साट्टहासा पलायत । तत: सुतारां हृतां ज्ञात्वा श्रीविजयो नितरां विषण्णोऽभूत् । ततस्तौ विद्याधरौ तमूचतुःस्वामिन् ! मा ताम्य, स न कुशली स्यात्, भवतोऽनतिदूर एव "सोऽस्ति, क्व यास्यति ?" अथ तौ श्रीविजयं गाढमभ्यर्थ्य वैताढ्यं निन्यतुः । अमिततेजाश्च तं महत्त्या प्रतिपत्योचितासने समुपवेश्याऽऽगमनकारणं पप्रच्छ । ततः श्रीविजयेनेरितौ तौ विद्याधरौ सुतारापहरणवृत्तान्तमशेषत आचख्यतुः । ततोऽत्यन्तं कुपितोऽमिततेजा उवाच-"तव भार्यां मे स्वसारं सुतारामपहत्य स विद्याधराधमोऽशनिघोष: कियज्जीविष्यति ?" ततः सोऽर्ककीर्तिसुतः श्रीविजयाय शस्त्रावरणीं बन्धनी मोचनीं च विद्यामदात् । तथा रश्मिवेगादीनां स्वपुत्राणां शतपञ्चशतीं त्रैपृष्ठिना ८४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समं चमरचञ्चायां पुर्यामशनिघोषतः सुतारामाहर्तुं सद्य: प्राहिणोत् । त्रिपृष्ठतनयश्च श्रीविजयश्चमरचञ्चां प्राप्तवान् । तमशनिघोषमधिकविद्यं ज्ञात्वाऽमितौजाः स्वपुत्रेण सहस्ररश्मिना सार्धं परविद्याच्छेदकरी महाज्वाला नाम विद्या साधयितुं हिमवन्तं गिरिं ययौ । तत्र च प्रतिमाजुषो जयन्तस्य मुनेर्धरणेन्द्रस्य च पादमूले मासिकभक्तेन स्थितः साप्तरात्रिकी प्रतिमां समुद्वहन् विद्यासाधनकर्मणि प्रववृते । सहस्ररश्मिश्च तथास्थितं पितरं ररक्ष । एवं तयोस्तिष्ठतोः किञ्चिदूनो मासोऽभूत् । इतश्च चमरचञ्चाया बहि: स्थितः श्रीविजयोऽशनिघोषाय दूतं प्राहिणोत् । स दूतश्च तत्र गत्वाऽशनिघोषमुवाच-"सुतारामपहरता किमिदं लज्जाकरं कर्म त्वया कृतम् ? तच्छ्रीविजयस्तव प्रतारणी विद्यां कथमपि मोघीकृत्येहाऽऽयातो बलात् सुतारां नेष्यति, तत्स्वयमर्पय । तथैव त्वज्जीवितस्य कुशलम्" । ततः क्रुद्धोऽशनिघोषो जगाद-"यथाऽऽगतेनैव पथा स श्रीविजयः प्रयातु । सुतारां याचमानस्तु यमलोकमेव यास्यति । तदेतद् द्वयं विचार्य यातु तिष्ठतु वा । त्वमपि गत्वा तदग्रतो मद्वाचं समाख्याहि"। तेनैवमुक्तश्च स दूतस्तत्पुराद् बहिनिर्गत्य त्रैपृष्ठये सर्वं तद्वृत्तान्तमकथयत्। तच्छ्रुत्वा चाऽत्यन्तं कुपित: श्रीविजय: स्वां सेनां सज्जितामप्यसज्जयत् । अशनिघोषेणाऽपि चाऽऽदिष्टास्तत्सुता अश्वघोषाद्याः सर्वाभिसारतश्चमरचञ्चापुर्या द्वारि युद्धाय विनिर्ययुः । ततश्च द्वयोरपि सैन्ययो रणतूर्याण्यवाद्यन्त । द्वयोरपि सैन्ययोश्च परस्परच्छिन्नशिरो बाहुरथसारथ्यादि तुमुलं युद्धं प्रववृते । अस्त्रैः शस्त्रैर्बाहुभ्यां मायया च युद्ध्यमानयोर्द्वयोः सैन्ययोः किञ्चिदूनो मासो व्यतीयाय । तत्र च श्रीविजयस्य सैन्यैः पवनैदपा इवाऽशनिघोषकुमारा अभज्यन्त । ततोऽशनिघोषोऽपि महागदामुद्यम्याऽमिततेजसः पुत्रान् शीघ्रमेवाऽभाङ्क्षीत् । ततः क्रुद्धोऽरि तिष्ठ तिष्ठेति वदन्

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75