Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 46
________________ पञ्चमं पर्व प्रथमः सर्गः नामा विद्याधरेन्द्रोऽभूत् । अर्ककीर्तिश्च स्वां पुत्रीं सुतारां त्रिपृष्ठपुत्रेण श्रीविजयेन सह पर्यणाययत् । त्रिपृष्ठोऽपि स्वां पुत्रीं ज्योति:प्रभामर्कपुत्रेणाऽमिततेजसा सह पर्यणाययत् । ७९ अन्यदा रथनूपुर - चक्रवालाख्ये नगरे बहिरुद्यानेऽभिनन्दनजगन्नन्दन - ज्वलनजटिनस्त्रयोऽपि मूर्त्तानि रत्नत्रयाणीव समवासरन् । अर्ककीर्तिश्च तज्ज्ञात्वा समेत्य नत्वा देशनां श्रुत्वा जातवैराग्योऽभिनन्दनं कृताञ्जलिरुचे - " तावत् प्रतीक्षस्व, यावदमिततेजसं निजराज्ये निवेश्य व्रतग्रहणार्थमहमागच्छामि " । प्रमादो न विधातव्य इति मुनिना शिष्टश्च स धामाऽऽगत्याऽमिततेजसं साग्रहं राज्ये निवेश्य तेन कृतनिष्क्रमणोत्सवोऽभिनन्दनमुनेः पुरः परिव्रज्यामुपादत्त । ततोऽर्ककीर्तिर्गुरुजनेन समं व्रतं पालयन् भुवं विजहार । तेजस्व्यमिततेजा अपि राज्यं शशास । इतश्च त्रिपृष्ठे कालधर्मे प्राप्ते शुचा वैराग्यमुद्वहन्नचलो बलभद्रः श्रीविजयं राज्ये न्यस्य प्रवव्राज । श्रीविजयश्च पित्र्यं राज्यं नीत्या पालयामास । एकदा चाऽमिततेजाः सुतारा श्रीविजययोर्दर्शनोत्कण्ठितः पोतनपुरं ययौ । पताका-मञ्च - तोरणादिसमन्वितं सञ्जातानन्दसाम्राज्यं तन्नगरं राजकुलं च दृष्टं वीक्ष्य विस्मितो व्योमतोऽवातरत् । श्रीविजयश्च दूरात् तं दृष्ट्वाऽभ्युत्तस्थौ । ततः परस्परं श्वशुर्यौ तौ स्वसृपती च मिथो गाढं प्रीत्या सस्वजाते । ततस्तौ द्वावपि महार्हसिंहासने निषेदतुः । ततोऽमिततेजाः अत्र पुरे महोत्सवस्याऽधुना को हेतुरित्यपृच्छत् । ततः श्रीविजयोऽवोचत्-" इत: प्रागष्टमे दिने एको नैमित्तिक इहाऽगात् । मया सादरमागमनहेतुं पृष्टश्च स जगाद - अस्मादह्नः सप्तमेऽह्नि मध्याह्नसमयेऽशनिर्ध्वनन् पोतनपुरेश्वरस्योपरि पतिष्यति, तदेतत् सूचयितुमहमागतोऽस्मि' । सचिवं च तेन वचसा कुपितं दृष्ट्वा पुनस्सोऽवोचत्-सचिव ! मह्यं मा कुपः, एतच्छास्रदृष्टं वच्मि । तस्मिन् दिने मयि पुनर्वसुधारेव वस्त्राभरणादिवृष्टिः पतिष्यति । ततो मा त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः सचिवोऽभिहितः अस्मै महामतये मा कुप्य । यतो यथार्थकथनादयमुपकारी । किन्तु तं पृच्छ, यदयं निमित्तं कुतः शिक्षितवानस्ति ? ततो नैमित्तिकोऽवोचत् परिव्रज्यां गृह्णता बलदेवेन सह शाण्डिल्यो नाम मे पिताऽपि परिव्रजितवान्, तदनु चाऽहमपि पितृवात्सल्यमोहितः प्राव्रजम् । तदैवेदं निमित्तजालमखिलं मया शिक्षितम् । यतो जिनशासनादन्यत्र न यथार्थज्ञानं सम्भवि । अहं च लाभालाभ सुखदुःखजीवितमरण-जयपराजया अष्टधा निमित्तानि वेद्मि । एकदा च सम्प्राप्तयौवनोऽहं पद्मिनीखण्डपुरमगमम् । तत्र च मम पितृष्वसा हिरण्यलोमिका तत्पुत्री चन्द्रयशाश्चाऽऽसीत् । सा च पूर्वं बालायाऽपि मे दत्ता, किन्तु दीक्षारूपविघ्नेन विवाहो नाऽभवत् । तां च चन्द्रयशसं दृष्ट्वा सानुरागोऽहं भारमिव द्रुतं व्रतं हित्वा पर्यणैषम् । निमित्तेन च स्वार्थमिमं ते महानर्थं च ज्ञात्वाऽत्राऽऽगमम् । राजन् ! यज्जानासि, तत् कुरुष्व" । इत्युक्त्वा विरते तस्मिन् बुद्धिमन्तोऽपि कुलमन्त्रिणो व्याकुला अभवन् । ८० तत्रैकः सचिवोऽवोचत् समुद्रे विद्युत्पातो न भवति, तस्मात् स्वामी तत्र नावमारुह्य सप्ताहं तिष्ठतु । द्वितीयोऽब्रवीत् नेदं मे प्रतिभासते, यतस्तत्र पतन्तीं विद्युतं को निवारयेत् ? किन्तु वैताढ्येऽवसर्पिण्यां विद्युत्पातो न भवति । तस्मात् तस्योपरि गुहां गत्वा प्रभुः सप्ताहं वसतु । ततस्तृतीयः सचिवोऽवदत्-अदोऽपि मह्यं न रोचते, यत्र योऽर्थोऽवश्यं भावी, स तत्राऽन्यथा न भवति । अत्रैव भरते विजयपुरे रुद्रसोमस्य द्विजस्य ज्वलनशिखायां पल्यां शिखीनाम पुत्रोऽभवत्। एकदा च कश्चिद् राक्षसस्तत्राऽऽगतः । सोऽन्वहं बहूनि मानुषाणि प्रणिहन्ति किन्त्वल्पं भक्षयति, शेषं चोच्छिष्टमिव त्यजति । ततो राजा तमुवाच मुधा किं बहून् नॄन् हंसि ? व्याघ्रादयोऽपि क्षुन्निवारणायैकं जन्तुं घ्नन्ति । ततस्त्वयाऽपि ग्रासायैकं मानुषं ग्राह्यम् । तच्च मन्निर्णीतेन वारेण स्वयमेष्यति । तेन च

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75