Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व प्रथमः सर्गः
७७
एकदा चाऽहं तत: स्थानाद् नभोमार्गेण जिनेन्द्रं वन्दितुं पुण्डरीकिणीं प्राप्तः । तत्र चाऽमितयशसं नाम जिनेश्वरं वन्दित्वा धर्मदेशनामश्रौषम् । देशनान्ते च "केन कर्मणा विद्याधरोऽहमभव" मिति पृष्टः प्रभुरब्रवीत् - "पुष्करवरद्वीपस्य पश्चिमार्धे शीतोदाया महानद्या दक्षिणे तटे सलिलावत्यां विजये वीतशोकाभिधानायां पुरि पुरा रूपवान् बलवांश्च रत्नध्वजाभिधश्चक्रवर्त्यभूत् । तस्य च कनकश्री - हेममालिन्यौ द्वेपट्टमहिष्यावभूताम् । तत्र कनकश्रीरङ्कस्थकल्पलताद्वयस्वप्नसूचिते कनकलता - पद्मलते पुत्र्यौ, हेममालिनी च पद्मलतास्वप्नसूचितां पद्मां नाम कन्यामसुवाताम् । ताः सर्वाश्च क्रमेण यौवनं प्राप्ताः, तत्र पद्मा भवविरक्ताऽजितसेनार्यापादान्तिके यथाविधि परिव्रज्यामुपादत्त ।
एकदा च साऽऽर्याया अनुज्ञया पालितद्वाषष्टिचतुर्था शरीरचिन्तार्थं बहिर्गच्छन्ती राजमार्गे मदनमञ्जर्या वेश्यायाः कृते युध्यमानौ राजपुत्रौ ददर्श । तौ दृष्ट्वा च साऽचिन्तयत्- 'अहो ! अस्या सौभाग्यं, यत् तत्कृते
युध्येते । तन्मयाऽप्यस्य चतुर्थतपः कर्मणः प्रभावेण भवान्तरे ईदृशं सौभाग्यं भूयात्' । एवं च निदानं कृत्वाऽन्तेऽनशनं कृत्वा निदानमनालोच्यैव मृता सौधर्मकल्पे देवी जाता । तथा कनकश्रीर्भवं भ्रान्त्वाऽनन्तरे दानादि कृत्वा मणिकुण्डली नाम त्वं विद्याधरोऽभूः । कनकलता - पद्मलते च भवं भ्रान्त्वा प्राग्भवेषु बहुधा दानादिधर्मं विधाय श्रीषेणनृपतेः सुताविन्दुषेण- बिन्दुषेणावभूताम् । पद्मजीवश्च सौधर्माच्च्युत्वा कौशाम्ब्यामनन्तमतिकाभिधा वेश्या जाता । तत्कृते च देवरमणे वने ताविन्दुषेण- बिन्दुषेणौ साम्प्रतं युध्यमानौ स्तः ।
सोऽहं श्रुतपूर्वभवो युवयोः पूर्वजन्मज्ञापनेन कृत्वा युद्धाद् निवारयितुं स्नेहादिहाऽऽगमम् । अहं युवयोः प्राग्भवे माता, इयं वेश्या च स्वस तदेवं संसारे मोहविजृम्भितं बुध्येथाम् । तस्माद् रागादि दूरतः परित्यज्य निर्वाणनगरद्वारं परिव्रज्यां द्रुतं श्रयताम् । ततस्तावूचतु:"अस्माभिर्मोहाद् भगिनीभोगहेतवे किमिदमारब्धम् ? धिग्धिक् त्वं नौ
७८
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः पूर्वभवे माता, अस्मिन् भवे च गुरुः । येनोत्पथादस्मात् प्रबोध्य विनिवर्तितौ स्वः” । एवमुक्त्वा युद्धाद् विरम्य धर्मरुचिमुने: पुरो राज्ञां चतुर्भिः सहस्रैः समं तौ व्रतं जगृहतुः । ततो ध्यानवह्निना दग्धकर्माणौ दुर्ग लोकाग्रं सरलेनैव वर्त्मना तौ जग्मतुः । श्रीषेणप्रमुखाश्च चत्वारो युगलिनो विपद्य प्रथमे कल्पे देवत्वं प्रपेदिरे । ***
इतश्चाऽत्रैव भरते नगोत्तमे वैताढ्ये रथनूपुर चक्रवालाख्ये नगरे ज्वलनजटिनो विद्याधरेन्द्रस्याऽर्ककीर्त्तिः पुत्रः स्वयम्प्रभा नाम पुत्री चाऽभूताम् । तां च स्वयम्प्रभां पोतनपुरेश्वरः प्रजापतेः पुत्रः प्रथमो वासुदेवोऽचलाख्यबलभद्रानुजस्त्रिपृष्ठः परिणिनाय । तेन च हृष्टः स त्रिपृष्ठो ज्वलनजटिने विद्याधर श्रेणिद्वयराज्यं ददौ । अर्ककीर्त्तेश्च विद्याधरेन्द्रस्य मेघवनस्य पुत्री ज्योतिर्माला पत्नी बभूव । श्रीषेणजीवश्च सौधर्माच्च्युत्वा ज्योतिर्मालोदरे समवातरत् । तदानीं च सा स्वप्नेऽमिततेजसं सूर्यं निजमुखे प्रविशन्तं ददर्श । पूर्णे च समये पुण्यलक्षणलक्षितं सुतमसूत । पितरौ च तस्य स्वप्नानुमानेनाऽमिततेजा इति नामाऽकरोत् । ज्वलनजटी च राज्येऽर्ककीर्ति निवेश्य चारणर्षेजगन्नन्दनाऽभिनन्दनयोः पुरः प्राव्राजीत् ।
सत्यभामाजीवश्चाऽपि सौधर्माच्च्युत्वा ज्योतिर्माला - ऽर्ककीयः पुत्रीत्वेनोदपद्यत । गर्भस्थायां तस्यां च जननी स्वप्ने सुतारां निशामपश्यदिति तस्याः पितरौ सुतारेति नाम चक्रतुः । तथाऽभिनन्दिताजीवः सौधर्माच्च्युत्वा स्वयम्प्रभा - त्रिपृष्ठयोः पुत्रत्वेनोदपद्यत । तस्मिन् गर्भस्थे च जननी स्वप्ने साभिषेकां श्रियं दृष्टवतीति पिता तस्य श्रीविजय इति नामाऽकरोत् । तथा स्वयम्प्रभाया द्वितीयोऽपि विजयभद्रनामा पुत्रोऽजायत । शिखिनन्दिताजीवश्च प्रथमकल्पतश्च्युत्वा स्वयम्प्रभात्रिपृष्ठयोर्ज्योतिः प्रभा नाम्नी पुत्री जाता । सत्यभामापतिः कपिलश्च तिर्यगादिषु योनिषु भवं चिरं भ्रान्त्वा चमरचञ्चायां नगर्यामशनिघोष

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75