Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 53
________________ ९४ पञ्चमं पर्व-द्वितीयः सर्गः ततस्ते चेटिके दृष्ट्वा दमितारि टिकाभिनयायाऽऽदिक्षत् । अदृष्ट पूर्वमभिनीतं नाटकं दृष्ट्वा चेटीद्वयं संसाररत्नभूतममन्यत स राजा । स्वपुत्री कनकश्रियं च नाटकशिक्षायै तयोर्मायाचेट्योः समर्पितवान् । तां शिरीषसुकुमाराङ्गी प्राप्तयौवना कुमारी दृष्ट्वा ते कपटचेट्यौ मधुरालापपूर्वकं साभिनयं तन्नाटकं भूयो भूयो दर्शयित्वा शिक्षयामासतुः। तथा नाटकस्य मध्ये मध्ये रूपादिभिर्गुणैरनन्तवीर्यं कामं वर्णयामासतुः। ततः कनकश्रीरपृष्छत्-"चेटिके ! कोऽयं पुरुषोत्तमो यो युवाभ्यां क्षणे क्षणे गीयते ?" ततो मायाचेट्यपराजितः स्मित्वाऽब्रवीत्-"शुभानने! शुभायां महापुर्यां स्तिमितसागरनृपतनयो ज्येष्ठोऽपराजितः कनिष्ठोऽनन्तवीर्यः । स कियद् वर्ण्यते ? जगति तत्तुल्यो नाऽपरः कोऽपि"। तदाकर्ण्य कनकश्रीः पुरतः स्थितं दृष्ट्वेवोत्कण्ठिता जाता । ततस्तां चिन्तितां विलोक्याऽपराजितः पुनरूचे-"मुग्धे ! अनन्तवीर्य मन्मुखाच्छ्रुत्वा किं ताम्यसि ? किं तं त्वं दिदृक्षसे?" ततः कनकश्री: सगद्गदमुवाच-"स कथं मया दृश्यः ?" ततो ज्येष्ठा चेट्युवाच"यदि तं दिदृक्षसे, अलं विषादेन । तमद्य दर्शयामि तव । विद्याशक्त्याऽपराजितमनन्तवीर्यमत्राऽऽनयामि" । ततो हृष्टा कनकश्रीरुवाच"एवं यदभिभाषसे, मन्ये मे दैवमनुकूलम् । किन्त्वधुनैवाऽऽत्मनो वाचमनुतिष्ठ" । ततस्तौ तुष्टावमराविव स्वं स्वं रूपमाविश्चक्रतुः । तत्राऽपराजित उवाच-"भद्रे ! मया य: कीर्तितः, स मद्भाताऽनन्तवीर्यस्तथाऽस्ति न वा ? मया तु स्तोकमेवाऽऽख्यातः। अस्य रूपादिवैभवं साम्प्रतं दृग्गोचरीकुरु" । ततो युगपद् विस्मया-वेगादिभावमापन्नाऽपराजितस्य ज्येष्ठमानिनी सोत्तरेण नीरङ्गीं विदधे । अनन्तवीर्योऽपि च स्मरोदयाद् रोमाञ्चितो जातः । ततः सहजमानमुत्सृज्य स्वयं दूतीत्वमालम्ब्य कनकश्रीरनन्तवीर्यमवदत्-"त्वं मे नाट्याचार्यः, तथा पतिरपि त्वमेव । यदि मां कामान्न पासि, तर्हि ते मद्धत्या त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्यात् । पुरा त्वया श्रवणमात्रेण मम हृदयं गृहीतम् । अधुना पाणिग्रहणेन मामनुगृहाण" । तदाऽनन्तवीर्योऽब्रवीत्-"यद्येवमिच्छसि, तद्युत्तिष्ठ, शुभां नगरी गच्छामः" । तच्छ्रुत्वा कनकश्रीः पुनरवोचत्-"त्वं मम प्राणेश्वरः, किन्तु मम पिता विद्याशक्त्या दुर्मदो दुष्टश्च । स महानर्थं करिष्यति । यतो भवन्तौ बलिनावपि निरस्त्रावेकाकिनौ च" । ततोऽनन्तवीर्यः स्मित्वोचे-"मा भैषीः, अपराजितेन सह युद्धे तव पिता न समर्थः । अन्यांश्च पृष्ठतः समायातान् युयुत्सूनहं हनिष्यामि, निःशङ्कमेतत् । ततो विश्रब्धा कनकश्रीरनन्तवीर्येण सह प्रतस्थे । अनन्तवीर्यश्चोबाहुः पौरान् राजपुरुषादींश्च सर्वान् सम्बोधयन् मेघघोषगभीरया गिरोवाच-"असावहमनन्तवीर्यः सापराजितो दमितारेः कन्यां स्ववेश्म नयामि । चौरिकयाऽपहतेत्यपवादो न दातव्यः" । एवमुद्घोषणं कृत्वा सापराजितः स वैक्रियेण विमानेन विहायसा चचाल । तच्छ्रुत्वा च दमितारिरत्यन्तं क्रुद्धो निजान् भटानादिशत्-"सभ्रातरममुं हत्वाऽथवा द्रुतं धृत्वा तनयां समानयध्वम्" । तेनैवमुक्ताश्च भटा उद्यतशस्त्रा अधावन्त । तदा चाऽपराजिता-ऽनन्तवीर्ययोर्हल-शाङ्गादिकानि दिव्यरत्नानि जज्ञिरे । तैश्च ताभ्यां हता दमितारिभटास्त्रेसुः । तां पलायितान् श्रुत्वाऽमर्षणो दमितारिः शस्त्रैर्गगनमाच्छादयन्नचालीत् । कनकश्रीश्च भटानां क्रोधालापाच्छ्रुत्वा मोहविह्वला जाता । ततस्तामाश्वासयन्ननन्तवीर्य उवाच-"मुधा किं मुह्यसि? ससैन्यं दमितारिं मया हन्यमानं पश्य"। एवं कनकश्रियमाश्वास्य सापराजितो वलित्वा सद्यो विद्यया द्विगुणां चमू सृष्टवान् । ___ ततः द्वयोः सैन्ययोस्तुमुलं युद्धं प्रववृते । दमितारेः सैन्या अपि विद्याशक्त्या दुर्मदा युद्धे न मनागप्यभज्यन्त । ततोऽनन्तवीर्यध्मातपाञ्चजन्यशङ्खध्वनिना मूच्छिता दमितारिभटा न्यपतन् । ततः स्वयं रथमारुह्य दमितारिः शस्त्रैरस्त्रैश्चाऽनन्तवीर्येण सह युयुधे । दुर्जयं च


Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75