Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व पञ्चमः सर्गः
१३१
स गजस्तां करेण गृह्णाति तावद् मया लकुटेन स पुच्छाग्रे निहतस्तां मुक्त्वाऽवलिष्ट । अहं च तं गजं वञ्चयित्वा तां चाऽऽदायाऽन्यतो गत्वैकस्मिन् निरुपद्रवे प्रदेशेऽतिष्ठिपम् । सा च मां हृदयाद् नैव मुमोच ।
ततस्तत्राऽऽगतस्तस्या: परिजनो मदिरां त्रातां ज्ञात्वां मामवर्णयत् । पुनश्च सा मदिरा सखीभिश्चतवने नीता । तत्र चाऽकस्मात् पवनेन समाकृष्टाः करिशीकराः समापतन् । ततश्च सर्वेऽपि भीताः पुनर्दिशो दिशं पलायिताः । सा च मदिरा क्व गतेत्यजानानोऽहं तद्दिदृक्षया पर्यटम् । तां चिरेणाऽप्यदृष्ट्वा शून्यमना इहाऽऽगमम् । न म्रिये, निरुपायोऽपि जीवामि, मां पश्य । केसरायास्तु सम्प्राप्त्युपायोऽप्यस्ति, तद् वच्मि, अज्ञानेन मा मृथाः । प्रातर्विवाह इत्यतः सैकाकिन्येव रतिसमन्वितं कामदेवं पूजयिष्यति । एष कल्पोऽस्ति । ततो गुप्तमेवाऽऽवां स्मरदेवकुलान्तः प्रविश्य निभृतं तिष्ठावः । तत्र तस्यां प्रविष्टायां चाऽहं तद्वेषं गृहीत्वा सेव तद्गृहं तत्परिच्छदं मोहयन् यास्यामि । ततो मयि दूरं गते सति तामादाय त्वमन्यतो गच्छेः । एवमखण्डिता तवेच्छा सेत्स्यति ।
तेन वचसा मुदितो वसन्तोऽब्रवीत् - "ममाऽत्र योगः क्षेमं च, किन्तु तव विपदं पश्यामि " । तदानीमेव वृद्धब्राह्मण्या क्षुतं कृतम् । ततः कामपाल ऊचे - "ममेह न व्यसनं, किन्तु त्वत्कार्ये प्रसक्तस्य लाभ एव" । अस्मिन्नेवाऽवसरे वृद्धेन ब्राह्मणेनैवमेतद् नाऽत्र संशय इति हृष्टचेतसोचे । ततो वसन्तदेवः शकुनग्रन्थि निबध्य तद्वचश्च प्रपद्य तेन मित्रेण सह पुरीमविशत् । तत्राऽशनादि कृत्वा तौ सायं स्मरमन्दिरं गत्वा स्मरपृष्ठतस्तस्थतुः ।
साऽपि च केसरा स्मरणमात्रेण प्रेय: समागमं नाम साध्यमन्त्रं स्मरन्ती तत्राऽऽययौ । याप्ययानादुत्तीर्य च प्रियङ्कराकरात् पूजासामग्रीमुपादायैकाकिनी स्मरमन्दिरं प्रविश्य निजपाणिना तद्द्वारं पिधाय
१३२
त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः भूतले पत्रपुष्पादि निवेद्य काममुद्दिश्याऽब्रवीत् - "देव ! त्वं सर्वेषां चित्ते भवसि तेन सर्वेषां भावं जानासि । तत् किमनभीष्टेन पत्या मां बलाद् नियोजयसि विना वसन्तदेवं मे मनोऽन्यत्र न रमते । अन्यः पतिर्मम मरणायैव । तज्जन्मान्तरेऽपि वसन्तदेवो मम भर्ता भूयात् । सुचिरं नमस्कृतोऽसि, अयं चाऽन्तिमो नमस्कारो मम" । एवमुक्त्वा सा तोरणे यावदात्मानमुद्बबन्ध, तावद् वसन्तो धावित्वा पाशग्रन्थिममोचयत् ।
कुतोऽयमिति साश्चर्या सव्रीडा सभया च सा वसन्तदेवेनोचे"असावहं तव प्रियो वसन्तदेवोऽस्मि, यं कामात् परलोकेऽपि पतिं याचसे । निष्कारणमित्रस्याऽमुष्य बुद्ध्याऽत्र त्वां जिहीर्षुर्गुप्तं प्रविष्टो - ऽस्मि । तत्स्वं नेपथ्यमर्पयस्व, येन त्वद्वेषधरोऽसौ परिजनं मोहयंस्त्वद्वेश्म गच्छति, अस्मिश्च कियद्दूरं गते आवामभिप्रेतं देशान्तरं यास्यावः” । तेनेत्थमुक्ता सा निजनेपथ्यं कामपालायाऽऽर्पयत् । कामपालश्च केसरावेषं विधाय मन्दिराद् निर्गत्य प्रियङ्करामवलम्ब्य याप्ययानमारुह्य परिजनैरलक्षितः पञ्चनन्दिगृहं ययौ । तथा प्रियङ्करया यानादवतार्य वधूगृहमानाय्य स्वर्णवेत्रासने उपावेश्यत । तथा "केसरे ! प्रियसमागमं मन्त्रं स्मरन्ती तिष्ठे "त्युदित्वा सा प्रियङ्करा गेहाद् निर्जगाम । सोऽपि च कामपालस्तथाऽतिष्ठत् । केसरामातुलसुता शङ्खपुरवास्तव्या मदिरा चाऽपि जन्ययात्रानिमन्त्रिता तत्राऽऽगता तस्य पुरत उपविश्य किञ्चिद् निःश्वस्याऽब्रवीत् "केसरे ! किं सखेदाऽसि ? दैवाधीना मनोरथसिद्धिः । शङ्खपुरे स्थिताऽपि वसन्तदेवेन सह ते सङ्गमोऽभीष्ट इत्य श्रौषम् । अहमपि प्रियविरहवेदनां जानामि तेन त्वां समाश्वासयितुं वच्मि । दैवं यथा प्रतिकूलं करोति तथाऽनुकूलमपि करिष्यति । त्वं तु धन्याऽसि, यस्या: प्रेयसा समं दर्शनालापादीनि मुहुर्मुहुरभूवन् । मम तु दारुणो वृत्तान्त: श्रूयताम् ।

Page Navigation
1 ... 70 71 72 73 74 75