Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३०
पञ्चमं पर्व-पञ्चमः सर्गः
१२९ चिन्तयित्वा द्रोणकनामानं पाथेयवाहकमूचुः-"भो भद्र ! द्रोण ! अस्मै महर्षये किञ्चिदपि देहि" । ततस्तेभ्योऽप्यधिकश्रद्धया स तं मुनि प्रत्यलाभयत् । तेन च तेन महाभोगफलं कर्मोपार्जितम् । तथा ते रत्नद्वीपं प्राप्य व्यवहत्याऽर्थमुपाय॑ पुनर्निजं नगरं समाजग्मुः । तेन पुण्यबीजेन च ते सर्वदाऽपि ननन्दुः । तेषु धनेश्वर-धनपती मनाग् मायापरौ । द्रोणकश्च सर्वतः शुद्धवृत्तिः । स च द्रोणक आयुःक्षये विपद्य दानप्रभावाद् हस्तिनापुरेशितुः पुत्रस्त्वमभूः । त्वयि गर्भस्थे जननी मुखे प्रविशन्तं चन्द्रं दृष्टवतीति तव पितृभ्यां कुरुचन्द्रेति नाम कृतम् ।
सुधनो धनदश्च द्वावपि मृत्वा काम्पील्यनगरे कृत्तिकापुरे च क्रमाद् वणिक्सुतौ वसन्तदेव-कामपालनामानौ जातौ । धनपतिर्धनेश्वरश्च विपद्य शङ्खपुरे जयन्त्यां पुर्यां च क्रमाद् मदिराकेसरानाम्न्यौ वणिक्पुत्र्यौ बभूवतुः । ते चत्वारोऽपि च क्रमेण वर्धमाना यौवनं प्रापुः । एकदा वसन्तदेवो व्यवहारार्थं जयन्त्यां पुर्यां प्रयायाऽर्थं समुपार्जयत्। अष्टमीचन्द्रोत्सवे च यदृच्छया रतिनन्दनमुद्यानं गतः केसरां ददर्श । तयाऽपि च स स्निग्धया दृशा ददृशे । एवं तयोः प्राग्जन्मभव: स्नेह: परस्परं प्रादुरासीत् । ततो वसन्तदेवः प्रियङ्करं नाम वणिक्पुत्रं केयं कस्य च सुतेति पप्रच्छ । सोऽवोचत्-"इयं श्रेष्ठिनः पञ्चनन्दिनः पुत्री जयन्तिदेवस्य स्वसा केसरा । ततो वसन्तदेवो जयन्तिदेवेन सह सौहृदं विधाय मिथो गृहे गतागतं समारेभे ।
एकदा च जयन्तिदेवेन निमन्त्रितस्तद्गृहं गतो वसन्तदेवः कामदेवं पूजयन्ती केसरां सा च जयन्तिदेवहस्तात् पुष्पमाल्यं गृह्णन्तं वसन्तदेवं सानुरागं ददृशतुः । एतदनुकूलं शकुनमिति द्वयोरेव हर्षो जातः । धात्रीपुत्री प्रियङ्करा च द्वयोर्भावं लक्षितवती । जयन्तिदेवश्च
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वसन्तदेवस्य सातिशयं सत्कारमकरोत् । तदा च केसराप्रेरिता प्रियङ्कराऽपि कक्कोलादीन्यादाय मम स्वामिन्येतानीष्टदेवानि फलानि ते दत्तानीत्युक्त्वा दत्तवती । वसन्तदेवोऽपि चाऽस्या अहमभीष्ट इति हृष्टः सर्वं स्वपाणिना जग्राह । एवं क्रमेण तयोः परस्परं स्नेहोऽवर्धत ।
अन्यदा च पञ्चनन्दिगृहे मङ्गल्यतूर्यं श्रुत्वा प्रेषितैः स्वपुरुषैः कान्यकुब्जनिवासिने सुदत्तश्रेष्ठिपुत्राय वरदत्ताय केसरा प्रदत्तेति वर्धापनकृते तूर्यं वाद्यत इति ज्ञात्वा मूर्च्छया पतितः प्रियङ्करया समाश्वासित:-"केसरा त्वां सन्दिशति यत् त्वया खेदो न कार्यः, गुरवो मदभिप्रायानभिज्ञाः । त्वमेव मम भर्ता भावी, अन्यथा मम मरणं ध्रुवम्" । ततो वसन्तः प्रीत ऊचे-"अस्माकमप्येषा प्रतिज्ञायत् केनाऽप्युपायेन केसरामुद्वहामि यममन्दिरं वा यामि" । तत: प्रातः केसरोद्वाहार्थं जन्ययात्रामागतां श्रुत्वा वसन्तदेवो नगराद्बहिरुद्यानं गत्वा केसराया अप्राप्ति निश्चित्य मुमूर्षुरशोकतरुशाखायां स्वं पाशग्रन्थि गले दत्वोद्बबन्ध । तदानीमेव च निकुञ्जाद् निर्गत्य 'भो मा मा साहसं कार्षी'रिति जल्पन्नेकः पुरुषः समागत्य पाशग्रन्थिमच्छिदत् । वसन्तदेवदुःखं ज्ञात्वोवाच च-"विवेकिन: प्राणत्यागो न युज्यते, उपाया एवाऽभीष्टप्राप्तये युज्यन्ते । अहमप्युपायाभावतोऽप्राप्याऽप्यभीष्टं वस्तु तन्निमित्तं जीवामि, यतो नरो जीवन् भद्राणि पश्यति ।
कृत्तिकापुरवास्तव्यः कामपालनामाऽहम् । देशान्तरदिदृक्षया निर्गतश्च शङ्खपुरं प्राप्य शङ्खपालयक्षोत्सवमीक्षितुमुद्यानं गतस्तत्र चूतनिकुञ्जे शुभदर्शनां कन्यकामेकामपश्यम् । तयाऽपि चाऽहं सानुरागं दृष्टः । यावत् सा सखीहस्तेन ताम्बूलं ददाति, तावदालानमुन्मूल्य त्रोटितशृङ्खल एको गजः प्रससार । हस्तिपकानवगणयंश्च स गज: क्षणाच्चूतनिकुञ्जमाससाद । भीतश्च तस्याः कन्यकायाः सर्वः परिच्छदः पलायिष्ट । सा च वेपमाना पलायितुमक्षमा तत्रैव तस्थौ । यावच्च

Page Navigation
1 ... 69 70 71 72 73 74 75