Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Catalog link: https://jainqq.org/explore/009893/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अर्हम् ॥ श्रीनेमि - विज्ञान- कस्तूर- यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्यगद्यात्मकसारोद्धारः चतुर्थं पञ्चमं च पर्व कर्ता आ. श्रीविजयशुभङ्करसूरि : सम्पादक: मुनिधर्मकीर्तिविजयः : प्रकाशक : कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृति- शिक्षणसंस्कारनिधिः अमदावाद Page #2 -------------------------------------------------------------------------- ________________ समर्पणम् कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः ३ (चतुर्थं पञ्चमं च पर्व) Trishashti-Shalakaa-Purusha-Charitam © सर्वेऽधिकाराः स्वायत्ताः कर्ता : आ. श्रीविजयशुभङ्करसूरिः सम्पादकः : मुनिधर्मकीर्तिविजयः प्रकाशकः : कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यनवमजन्मशताब्दी स्मृति-शिक्षणसंस्कारनिधि - अमदावाद द्वितीयसंस्करणम् : वि.सं. २०६८ ई०सं० २०१२ प्रतयः : ५०० मूल्यम् : रु.१००-०० पृष्ठानि :१० + १३८ = १४८ प्राप्तिस्थानम् १ श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर १२, भगतबाग, आणन्दजी कल्याणजीनी पेढी समीपे, नवा शारदामन्दिर रोड, पालडी, अमदावाद - ३८०००७. फोन : २६६२२४६५ दूरभाष : ०९८०८६३७७१४ २ सरस्वती पुस्तक भण्डार ११२, हाथीखाना, रतनपोल, अमदावाद-३८०००१. फोन : २५३५६६९२ बालानामिव माता च सरितामिव सागरः । दुर्बलानामनाथानां कृते चैकाश्रयास्पद ! ॥ १ ॥ निगूढमत्र-तवज्ञ ! ज्योतिर्विज्ञानकोविद ! ।। मुनिसंमेलनस्तम्भ ! शासनोद्योततत्पर ! ॥ २ ॥ प्रबलसत्त्वसंपन्न ! शिष्योत्थाने कृतोद्यम ! । लब्धनन्दनसूर्याशीः ! प्रवचनकलाधर ! ॥ ३ ॥ शुद्धचारित्रसंनिष्ठ ! सर्वसूरिशिरोमणे ! । तथा वात्सल्यपाथोधे ! निर्मलब्रह्मपालक ! ॥ ४ ॥ सूर्यसदृशतेजस्विन् ! मृगेशोपमनिर्भय ! । चन्द्रसंकाशसंदीप्त ! रत्नाकरगभीर ! च ॥ ५ ॥ सदाग्रह्यपि सत्ये हि सदा नियग्रहिन् ! मुदा । स्व-परमोहदुर्भेद-ग्रन्थिविच्छेदकृत् ! खलु ॥ ६ ॥ नेमि- विज्ञान- कस्तूर- यशोभद्र- शुभङ्कराः । सूरीशा गुरवो यस्य प्रबलमहिमान्विताः ॥ ७ ॥ पठन-पाठनप्राण ! सेवातत्पर ! साधुराट् ! । औदार्यादिगुणोपेत ! सूर्योदयगुरो ! अहो ॥ ८ ॥ ज्ञानादिकं मयाऽवाप्तं प्रभावेण प्रभो ! तव । सर्वं पुण्यस्मृतौ तत्ते त्वदीयं तुभ्यमर्पये ॥ ९ ॥ मुद्रणम् : किरीट ग्राफीक्स ४१६, वृन्दावन शोपींग सेन्टर, रतनपोळ, अमदावाद. दूरभाष : ०९८९८४९००९१ - धर्मकीर्तिविजयः Page #3 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन किञ्चित् प्रास्ताविकम् कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी जन्मशताब्दी (वि.सं. ११४५-२०४५)ना मंगल अवसरे पूज्य आचार्य श्रीविजयसूर्योदयसूरीश्वरजी तथा पूज्य आचार्यश्रीविजयशीलचन्द्रसूरीश्वरजीनी शुभप्रेरणाथी अमारा आ ट्रस्टनी स्थापना थई हती. प्राचीन ग्रन्थोनुं संशोधन-सम्पादनपूर्वक प्रकाशन, अनेक विद्वज्जनोनुं सन्मान, 'अनुसंधान'नामनी शोधपत्रिकानुं प्रकाशन-इत्यादि साहित्यिक प्रवृत्तिओ आ ट्रस्टनो मुख्य उद्देश छे. ते अनुसार कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी सूरिपद शताब्दी (वि.सं. ११६६-२०६६)ना उपलक्ष्यमां तेओना द्वारा विरचित त्रिषष्टिशलाकापुरुषचरितनो पूज्य आ.श्रीविजयशुभंकरसूरिजी रचित गद्यात्मकसारोद्धार प्रगट करतां अमो आनन्द अनुभवीए छीए. आ गद्यात्मकसारोद्धारनी रचना पूज्य आ.श्रीविजयशुभंकरसूरिजीए पूर्वे वि.सं. २०१६ना वर्षे करी हती. आजे ५० वर्ष पछी पूज्य श्री विजयसूर्योदयसूरीश्वरजीना शिष्य मुनिश्रीधर्मकीर्तिविजयजी द्वारा पुनः सम्पादित-संशोधित करेल आ ग्रन्थना प्रकाशननो लाभ अमारा ट्रस्टने मल्यो, ते बदल अमो तेओना ऋणी छीए. सुविदितमेवेदं विदुषां यत् कलिकालसर्वज्ञेतिबिरुदधारिणा परमविदुषा जैनाचार्येण श्रीमता हेमचन्द्राचार्येण भगवता गूर्जरनरेशद्वयं सिद्धराजजयसिंहकुमारपालचौलुक्येति संज्ञं प्रतिबोधितं; गूर्जरराष्ट्रे सुविशालेऽमारिः प्रवर्तिता; अनेकशतसङ्ख्या जिनालया निर्मापिताः; सोमनाथमहादेवाभिधशिव तीर्थस्योद्धारकार्ये राजा प्रेरितस्तत्तीर्थपुनःस्थापनावसरे स्वयमुपस्थितं च । युगप्रभावकेनाऽनेन सूरिपादेन सर्वजनताया हितकराणि मुक-पशूनामभयदानि जैनधर्मस्योद्योतकारीणि च नैकानि महान्ति कार्याणि यथा कृतानि, तथैव तेन भगवता नानाविधशास्त्रनिर्माणकार्यमपि विद्वश्चेतश्चमत्कृतिकारकं विहितमेव । तद्विरचितेषु ग्रन्थेषु सिद्धहेमचन्द्राभिधं शब्दानुशासनं, काव्यानुशासनं, छन्दोनुशासनं, लिङ्गानुशासनं, वादानुशासनं, शब्दकोषद्वयं, संस्कृतव्याश्रयमहाकाव्यं प्राकृतद्याश्रयकाव्यं, स्तुतिकाव्यानि, योगशास्त्र-इत्यादयो ग्रन्थाः प्रमुखाः प्रसिद्धाश्च विद्याक्षेत्रे । तद्विरचित एको महान् ग्रन्थोऽयमप्यस्ति-त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । प्रायः ३६००० श्लोकमितो ग्रन्थोऽयं जैनपुराणप्रबन्धसन्निभो महाकाव्यलक्षणोपेतश्च । ग्रन्थेऽत्र जैनधर्मस्वीकृततीर्थङ्कर-चक्रवर्ति-वासुदेवबलदेव-नारदादीनां शलाकापुरुषाणां चरितवर्णनं विशदं विहितमस्ति । जैनसंघे एतदध्ययनाध्यापनप्रचारोऽविरतं बहुशतवर्षेभ्यः प्रचलति । संस्कृताध्ययनकर्तृणां विद्यार्थिनां बोधवेशद्यार्थमेतस्य काव्यग्रन्थस्या ऽध्ययनं नितरामावश्यकम् । जैनसिद्धान्तानां सुखबोधार्थ जैनेतिहासस्य च ज्ञानार्थमप्येतदध्ययनमतीवोपयोगि । परन्तु महाकाव्यस्याऽस्याऽध्ययने सर्वे जना न समर्था भवेयुः । मन्दबोधानां सारल्योत्सुकानां चाऽभ्यासिनामेतस्या ऽध्ययनं बहुधा दुरूहमपि स्यादेव । एतादृग्जनान् मनसि निधाय आचार्य पादश्रीविजयशुभरसूरिवर्येण ग्रन्थस्यैतस्य सरलीकरणाय तदर्थं चाऽस्य वि. सं. २०६७ लि. कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्य नवमजन्मशताब्दीस्मृतिशिक्षणसंस्कारनिधिः अमदावाद. Page #4 -------------------------------------------------------------------------- ________________ पद्यात्मकं महाकाव्यप्रौढिसमलङ्कृतं च स्वरूपं गद्यात्मकं वर्णनादिबाहुल्यमुक्तं च निर्मितं कृपापरीतचेतसाऽस्मत्प्रगुरुवरेण । ग्रन्थोऽयं पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रित आसीत् । परमस्य न सज्जातस्तादृक् प्रचारो येन सर्वेऽभ्यासोत्सुका जना लाभान्विताः स्युः । सम्प्रति चाऽप्राप्योऽयं ग्रन्थः । अत: श्रीहेमचन्द्राचार्यपादानां सरिपदनवमशताब्द्या वर्ष वि.सं. २०६६तमं यदाऽऽगतं तदा तेषां स्मरणाञ्जलिरूपेण ग्रन्थोऽयं पुनः सम्पादनविषयीकृत्य मुद्रापणीय इति सङ्कल्प उदितोऽस्मश्चित्ते । साधवः प्रेरिता एतदर्थम् । पूज्यपादश्रीगुरुभगवद्भिः श्रीविजयसूर्योदयसूरिभिरपि सानन्दमनुज्ञातमेतदर्थे । ततो मुनिश्रीधर्मकीर्तिविजयेन सम्भालितमेतत्कार्यम् । तस्य भक्तिभावितमानसस्य परिश्रम इदानीं फलान्यावहतीति महानानन्दविषयः । ग्रन्थोऽयं संस्कृताध्यासिनो यथोपकारकः, तथैव जैनधर्मविषयकं सम्यग् ज्ञानं प्राप्तुमिच्छुकानां जिनादिमहापुरुषचरितानां जिज्ञासूनां च कृतेऽपि नितान्तमुपयोगी स्यादेवेति निश्चप्रचम् । ग्रन्थसम्पादनकार्ये यदि काऽपि स्खलनाऽस्ति तदर्थमस्माकं प्रमाद एवोपालम्भार्हः । श्रीहेमचन्द्राचार्यभगवतां गद्यात्मकसारोद्धारकर्तृणां चाऽऽशयतो विपरीतं चेत् किमप्यागतं स्यादत्र, तदर्थं मिथ्यादुष्कृतं दत्त्वा क्षमाप्राथिनो वयमिति शम्। विषयानुक्रमः चतुर्थं पर्व प्रथमः सर्गः (श्रीश्रेयांसजिनचरितम्) विषयः नलिनगुल्मनृपकथा श्रीश्रेयांसजिनजन्मादिवृत्तान्तः विशाखभूति-विश्वभूतिकथा प्रजापतिनृपकथा अचल-त्रिपृष्ठवृत्तान्तः हयग्रीववृत्तान्तः स्वयम्प्रभावृत्तान्तः हयग्रीववधादिवृत्तान्तः त्रिपृष्ठस्याऽर्धचक्रित्वादिवृत्तान्तः श्रेयांसजिनदेशना श्रेयांसजिननिर्वाणादिवृत्तान्तः त्रिपृष्ठादिमरणादिवृत्तान्त: द्वितीयः सर्गः ( श्रीवासुपूज्यजिनचरितम् ) पद्मोत्तरनृपकथा वासुपूज्यजिनजन्मादिवृत्तान्तः विन्ध्यशक्ति-पर्वतनृपयोः कथा विजय-द्विपृष्ठयोर्जन्मादिवृत्तान्त: तारकवधः वासुपूज्वजिनदेशना वासुपूज्वजिननिर्वाणादिवृत्तान्त: तृतीयः सर्गः (श्रीविमलनाथचरितम्) पद्मसेननृपकथा विमलजिनजन्मादिवृत्तान्त: सं. २०६७ आश्विन शुदि-१, सुरेन्द्रनगरे - शीलचन्द्रविजयः Page #5 -------------------------------------------------------------------------- ________________ विषयः नन्दिसुमित्र-धनमित्रकथा मेरकजन्मादिवृत्तान्तः भद्र-स्वयम्भुवोर्जन्मादिवृत्तान्तः मेरकवधादिवृत्तान्तः विमलप्रभोर्देशना विमलजिननिर्वाणादिवृत्तान्तः चतुर्थः सर्गः (श्रीअनन्तजिनचरितम् ) पद्यरथनृपकथा अनन्तजिनजन्मादिवृत्तान्तः मधु-कैटभजन्मादिवृत्तान्तः सुप्रभ-पुरुषोत्तमजन्मादिवृत्तान्त: नारद-मधुसंवादः मधुवधादिवृत्तान्तः अनन्तजिनदेशना अनन्तजिननिर्वाणादिवृत्तान्तः पञ्चमः सर्गः (श्रीधर्मजिनचरितम्) दृढरथनृपकथा धर्मजिनजन्मादिवृत्तान्तः सुदर्शन-पुरुषसिंहजन्मादिवृत्तान्तः अम्मकावृत्तान्तः निशुम्भवधः धर्मजिनदेशना धर्मजिननिर्वाणादिवृत्तान्तः षष्ठः सर्गः (श्रीमघवचक्रिचरितम्) मघवचक्रिजन्म मघवचक्रिदिग्विजयः मघवचक्रिदीक्षादिवृत्तान्तः विषयः सप्तमः सर्गः (श्रीसनत्कुमारचक्रिचरितम्) विक्रमयशोनृपवृत्तान्तः जिनधर्मश्रावका-ऽग्निशमद्विजवृत्तान्तः सनत्कुमारजन्मादिवृत्तान्तः सनत्कुमारस्य भानुमत्यादिकन्यकापरिणयादिवृत्तान्तः सनत्कुमारस्य दिग्विजयादिवृत्तान्तः सनत्कुमारस्य दीक्षाग्रहणादिवृत्तान्तः सनत्कुमारस्य देवकृतपरीक्षा सनत्कुमारस्य स्वर्गगमनादिवृत्तान्तः पञ्चमं पर्व (श्रीशान्तिजिनचरितम्) प्रथमः सर्गः श्रीषेणनृपकथा सत्यभामा-कपिलवृत्तान्तः मदनमञ्जरीकथा अर्ककीर्तिवृत्तान्तः श्रीविजयवृत्तान्तः विप्रपुत्रशिखिकथा अशनिघोषवृत्तान्तः अशनिघोषादीनां पूर्वभवादिवृत्तान्तः अमिततेजसादीनां स्वर्गगमनादिवृत्तान्तः द्वितीयः सर्गः अपराजित-ऽनन्तवीर्यवृत्तान्तः दमितारिवृत्तान्तः कनकश्रीपूर्वभवकथा दमितारिजन्मकथा सुमतिवृत्तान्तः मेघनादवृत्तान्तः Page #6 -------------------------------------------------------------------------- ________________ विषयः ११५ तृतीयः सर्गः क्षेमकरनृपकथा वज्रायुधवृत्तान्तः सुरेखा-पवनवेगादिवृत्तान्तः कनकशक्तिवृत्तान्तः वज्रायुधस्य प्रव्रज्या सहस्रयुधस्य प्रव्रज्यादि चतुर्थः सर्गः मेघरथ-दृढरथयोर्जन्मादिवृत्तान्त: घनरथस्य युध्यमानकुक्कुटद्वयपूर्वभववर्णनम् अभयघोषवृत्तान्तः घनरथोत्पत्तिस्ताम्रचूलादिवृत्तान्तश्च सिंहरथवृत्तान्तः मेघरथस्य कपोतरक्षणवृत्तान्तः कपोतपूर्वभववर्णनम् मेघरथादेः प्रव्रज्यादिवृत्तान्तः पञ्चमः सर्गः शान्तिनाथजन्मादिवृत्तान्त: शान्तिनाथस्य चक्रित्वादिवृत्तान्तः शान्तिनाथस्य दीक्षावृत्तान्तः शान्तिप्रभोर्देशना कुरुचन्द्रनृपपूर्वभवकथा वसन्तदेवादीनां पूर्वभवकथा शान्तिजिननिर्वाणादिवृत्तान्तः कठिनशब्दार्थः Page #7 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्र-सूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः श्रीश्रेयांसजिनादिद्वाविंशतिशलाकापुरुषचरितप्रतिबद्धं चतुर्थं पर्व प्रथमः सर्गः श्रेयांसः श्रेयसो मूलं भविनां भावनाभृताम् । ददातु वैष्णुराजिो विष्णुकुक्षिभवो जिनः ॥१॥ अथ पुष्करवरद्वीपार्धे प्राग्विदेहेषु कच्छाख्ये विजये क्षेमाख्यायां पुर्यां नृपशिरोमणिः कोशदण्डबलसमग्रो नलिनगुल्मो नाम महीपतिर्बभूव । स संसारासारतां मन्यमानो राज्यं रुजमिवोत्सृज्य वज्रदत्तमुनेर्दीक्षामुपाददे । यम-नियमादिनिरतश्च कर्म क्रशयित्वा कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपाय॑ भुवं विहाय महाशुक्रदिवं ययौ । इतश्च जम्बूद्वीपेऽस्मिन् भरतक्षेत्रे सर्वश्रीमनोहरे सिंहपुरे पुरे भुजबलविक्रमो गुणग्रामसमग्रो वदान्यो विष्णुराजनामा नृप आसीत्। तस्य च शीलादिगुणसम्पन्ना रूपवती विष्णुनाम्नी पत्नी बभूव । तस्याः कुक्षौ स्वं प्रकृष्टमायुः पूरयित्वा महाशुक्राद् नलिनगुल्मजीवश्च्युत्वा ज्येष्ठकृष्णषष्ठ्यां श्रवणस्थे चन्द्रेऽवातरत् । तदा च त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विष्णुदेवी मुखे प्रविशतश्चतुर्दश महास्वप्नान् दृष्टवती । फाल्गुनकृष्णद्वादश्यां श्रवणस्थे चन्द्रे च सा विष्णुदेवी सुखेन स्वर्णवर्ण खड्गिलाञ्छनं सुतं सुषुवे । तदानीं च षट्पञ्चाशद् दिक्कुमार्यः समेत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्चैत्य यथाविधि प्रभुं मेरौ नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथोपचारं स्नात्रादि विधाय स्तुत्वाऽर्हन्तं पुनर्विष्णुदेवीपार्श्वे यथापूर्वममुञ्चत् । विष्णुराजश्च प्रात: समहोत्सवं श्रेयसि दिने तस्य श्रेयांस इति नाम चकार । प्रभुश्च धात्रीभिः पाल्यमानः सुरादिकमारैः सह क्रीडन् बाल्यमतीत्य यौवनं प्रपन्नोऽशीतिधनुरुत्तुङ्गः पित्रोरुपरोधाद् नृपकन्या: पर्यणैषीद् । ताभी सह रममाणो जन्मतो वर्षलक्षाणामेकविंशतौ गतायां पितुः प्रार्थनया पृथ्वीभारमुपादाय द्विचत्वारिंशतं वर्षलक्षाणि प्रजाः पालयामास । अथ भवविरक्तः प्रभुलॊकान्तिकामरैस्तीर्थप्रवर्तनाय प्रार्थितो वार्षिकदानं प्रदाय शक्रविहितदीक्षाभिषेको विमलप्रभा शिबिकामारुह्य सहस्राम्रवणं प्राप्य नृपसहस्रेण समं कृतषष्ठो व्रतमाददे । सुरादयश्च दीक्षाकल्याणकं कुर्वन्तः स्वं स्वं स्थानं ययुः । प्रभुश्च द्वितीयदिने सिद्धार्थपुरे नन्दनृपगृहे परमान्नेन पारणं विधाय ग्राम-पुरादिषु विहर्तुं प्रावर्त्तत । इतश्च प्राग्विदेहस्थायां पुण्डरीकिण्यां पुरि सुबलो नाम नृपो बभूव । स च वृषभषेः पार्श्वे प्रव्रज्य तपस्तप्त्वा मृत्वा चाऽनुत्तरविमानं ययौ । तथा राजगृहे विश्वनन्दिमहीपतेः प्रियङ्गनाम्न्यां पल्यां विशाखनन्दी नाम सुतोऽभवत् । तन्नृपानुजस्य विशाखभूतेर्धारिण्यां भार्यायां भरतपुत्रमरीचिजीवो विश्वभूति म तनयो बभूव । स च धात्रीभिः पाल्यमानः क्रमाद् वर्धमान: कलाकलापमधीत्य यौवनं प्रपन्न: सान्तःपुरः पुष्पकरण्डके उद्याने चिक्रीड । तत्र च राजपुत्रो विशाखनन्द्यपि क्रीडेच्छुरभूत् । किन्तु तदुद्यानं विशाखभूतिना कदाऽपि रहितं नाऽसीत् । Page #8 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व-प्रथमः सर्गः एकदा च पुष्पार्थमागता विशाखनन्दिमातृदास्यस्तत्र सप्रियाजनं विश्वभूति क्रीडन्तं प्रेक्ष्य सेाः प्रियङ्गदेवीमूचिरे-"यौवराजिविश्वभूतिरेव राजा, नाऽपरः । यतः स सदा सान्तःपुरः पुष्पकरण्डके क्रीडति, किन्तु तव पुत्रो वारितो बहिरेव तिष्ठति" । तच्छ्रुत्वा कुपिता कोपगृहं प्रविष्टा प्रियङ्गदेवी राज्ञा पृष्टाऽब्रवीत्-"विश्वभूति: पुष्पकरण्डके राजेव रमते, त्वयि सत्यपि च मम सूनू रङ्कवद् बहिस्तिष्ठति" । ततो राजोवाच-"प्रिये ! अस्माकं कुले व्यवस्थैषा, यदेकस्मिन् कुमारे क्रीडति द्वितीयो न प्रविशेत्" । तथाऽप्यनुपशान्तकोपायां तस्यामुपायज्ञो नृपतिर्यात्राभेरीमवादयत् । तथा पुरुषसिंहाख्यः सामन्त आज्ञां न पालयतीति तं प्रति प्रस्थितोऽस्मीत्यवोचच्च । तच्छ्रुत्वा च सम्भ्रमाद् विश्वभूतिरेत्य-"मयि सत्यपि तात: स्वयं युद्धाय किं यास्यती"त्याधुक्त्वा साग्रहं राजानं निवार्य बलयुतः सामन्तं प्रति ययौ । सामन्तेन च कुमारागमनं श्रुत्वा स्वगृहं सादरं नीत उपदादिभिस्तोषितश्च विरोधादर्शनात् ततो यथागतेनैव पथा निववृते । इतश्चोद्याने राज्ञा विशाखनन्दी प्रवेशितः । विश्वभूतिरपि च देशं भ्रान्त्वा पूर्ववत् तत्राऽऽगतो "विशाखनन्दी मध्येऽस्तीत्युदित्वा वेत्रिणा वारितस्तथैव स्थितो दध्यौ-"अहमस्मादुद्यानाच्छद्मना निष्काशितो बहिः, हन्त ! किं करोमि ? ततश्च कुपितः कपित्थानि फलभरनम्राणि मुष्टिना ताडयित्वा पातितैस्तैश्छन्नां भुवं दर्शयन् “व: शिरांस्यपीत्थमेव पातयामि, यदि ज्यायसि भ्रातरि मम भक्तिविघ्नो न भवेत् ? यदर्थमयं वञ्चनोपायः, तैभौगैरल"मिति । एवमुक्त्वा तृणवद् भोगान् मुक्त्वा सम्भूतमुनिपार्वे व्रतमाददे । तच्च श्रुत्वा सान्तःपुरपरिच्छदो विश्वनन्दी युवराजेन समं तत्र समागत्य सूरि नमस्कृत्य विश्वभूतिमुपेत्य सगद्गदमुवाच-"वत्स ! त्वं सर्वमस्मान त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पृष्ट्वैवाऽकार्षीः, सहसैवं किं कृतवान् ? अद्याऽपि व्रतं मुञ्च, भोगान् भुक्ष्व, प्राग्वच्च पुष्यकरण्डके स्वैरं रमस्व" । ततो विश्वभूतिरवोचत्-"अलं मे भोगसम्पदा, वैषयिकं सुखं वस्तुतो दुःखमेव । भवकारायां स्वजनस्नेहतन्तव: पाशा एव । अतोऽतः परं किञ्चिद् न वाच्यम् । परलोकसहायं तप एव चरिष्यामि" । तेन तथोक्तो नृपः सानुतापो गृहं ययौ । विश्वभूतिरपि च गुरुणा सह व्यहार्षीत् । व्रत-गुरुशुश्रूषादिनिरतोऽधीतसूत्रार्थो भूयांसं कालमतीत्य गुरोरनुज्ञयैकाकिविहारप्रतिमाधरो विविधाभिग्रहपरो ग्राम-पुरादिषु विहरमाणो मथुरां पुरी जगाम । तदा च विशाखनन्द्यपि सपरिच्छदो मथुराराजकन्यकां पैतृष्वस्त्रेयीमुद्वोढुं तत्राऽगात् । विश्वभूतिश्च मासान्तपारणाय परिभ्रमन् विशाखनन्दिशिबिरमुपाययौ । तदानीं च तद्दर्शनाद् विशाखनन्दिनो रोष: समुदभूत् । विश्वभूतिश्चैकया गवाऽऽघातं प्रापितोऽपतत् । तद् दृष्ट्वा हसित्वा च विशाखनन्धुवाच-"कपित्थपातनं तद्बलमिदानी क्व गतम् ?" तं दृष्ट्वा च विश्वभूतिरमर्षणस्तां गां श्रृङ्गयोर्गृहीत्वा पूलवद् भ्रमयित्वा ततो निवृत्तो दध्यौ-"निःसङ्गेऽपि मय्यद्याऽपि सरोषोऽयम्" । अनेनोग्रेण तपसाऽस्य मृत्यवे भवान्तरे भूयासमिति निदानं चाऽकरोत् । सम्पूर्णकोटिवर्षायुः तदनालोच्य मृतश्च महाशुक्रे सुरोऽभवत् । इतश्च दक्षिणभरतार्धे पुरोत्तमे पोतनपुरे गुणान्वित उपायचतुष्टयज्ञो रिपुप्रतिशत्रुपो बभूव । तस्य च शीलवत्या भद्रानाम्न्या महिष्याः कुक्षावनुत्तरविमानाच्च्युत्वा सुबलजीवोऽवततार । तदानीं च सा चतुरो महास्वप्नान् गज-वृषभ-चन्द्र-पद्मसरांसि दृष्ट्वा "ऽमीषां स्वप्नानां किं फल"मिति राज्ञः पृष्टवती । राजाऽपि तच्छ्रुत्वा Page #9 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व-प्रथमः सर्गः लोकोत्तरबलो बलभद्रस्तवाऽऽत्मजो भावीति व्याजहार । ततः सा यथोचिते समयेऽशीतिधनुरुत्तुङ्गं श्वेतवर्ण महाभुजं सुतमसूत । नृपश्च तस्य समहोत्सवम-अचल इति नामाऽकरोत् । तदनन्तरं कियत्यपि काले गते भद्रादेवी केतकी प्रसूनमिव गर्भं दधौ । पूर्णे समये च सर्वलक्षणसम्पूर्णा कन्यामसूत । महीभुजा च तस्या मृगावतीति नामधेयं चकार । क्रमेण च सा सर्वाङ्गमनोहरा बाल्यमतीत्य यौवनं प्रपेदे । यथा यथा च मृगावत्या यौवनश्रीरवधिष्ट, तथा तथा भद्रायास्तद्वरार्थे चिन्ताऽवधिष्ट । ममेव राज्ञोऽप्यस्या वरार्थे चिन्ता भवत्विति भद्रा तां नृपान्तिके प्रेषितवती । तां दृष्ट्वा च कामातुरो नृप इयं मम पुत्रीत्यजानान इव हद्यचिन्तयत्-"आश्चर्यमस्याः सौन्दर्य, जगति सर्व सुलभम्, इयं तु बाला दुर्लभे"ति मन्ये । एवं विचिन्त्य च तां प्रियालापपुरस्सरममारोप्य स्पर्शादिभिरनुरागविषयं विधाय कञ्चकि भिरन्तःपुरमनाययत् । पौरलोकान् समाहूय च लोकापवादरक्षार्थमपृच्छत्-"मम राज्ये यद् रत्नं समुत्पद्यते, तत् कस्येति निवेद्यताम्"। तेषां च "भवानेव स्वामी"ति निर्णयं त्रिर्गृहीत्वा द्राग् निजकन्या मृगावती दर्शयामास । युष्मदनुज्ञयेदं कन्यारत्नमिदानीमेव परिणेष्यामीत्युवाच सः । तच्छ्रुत्वा लज्जिताः पौरा निजनिजगृहं ययुः । नृपश्च तां गान्धर्वेण विवाहेन पर्यणैषीत् । ततश्च स्वसुतायाः पतिरिति तस्य नृपस्य प्रजापतिरिति नाम पप्रथे । अथ भद्राऽखिले जने हसनीयं पत्युस्तं कुलकलङ्कं श्रुत्वा लज्जिताऽचलेन पुत्रेण सह दक्षिणापथेऽचालीत् । अचलश्च दक्षिणस्यां मातुः कृते माहेश्वरीति नगरी निर्माय तां सर्वत आहृत्याऽऽहत्य हिरण्यादिभिः पूरयामास । तत्र च कुलीनै: सचिवादिभिर्वृतां मातरममुञ्चत् । भद्राऽपि च शीलवती देवपूजादिषट्कर्मरता तत्राऽवास्थित । अचलश्च पितृभक्त: पोतनपुरं समेत्य पितरं शुश्रूषमाणस्तस्थौ । राजाऽपि च मृगावतीमग्रमहिषीपदेऽस्थापयत् । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ कियत्यपि काले गते विश्वभूतिमुनेर्जीवो महाशुक्राच्च्युत्वा मृगावत्याः कुक्षाववातरत् । तदानीं च तया विष्णुजन्मनः सूचकाः केसरि-लक्ष्मी-सूर्य-पूर्णघट-समुद्र-रत्नसञ्चयाग्नयः सप्त महास्वप्ना दृष्टाः । प्रबुद्धया तया निवेदितान् तान् स्वप्नान् श्रुत्वा च"अर्धचक्री तव सूनुर्भविते"ति नृपोऽवोचत् । नैमित्तिका अपि च पृष्टाः स्वप्नान् तथैव व्याचख्युः । पूर्णे समये च सा मृगावती सर्वलक्षणलक्षितमशीतिधनुरत्तुङ्ग कृष्णवर्णं सुतमसूत । राजा च समहोत्सवं तस्य पृष्ठे वंशत्रयं दृष्ट्वा तस्य सुतस्य त्रिपृष्ठ इति नामाऽकरोत् । __स च त्रिपृष्ठः क्रमशो वर्धमानोऽचलेन बलभद्रेण रम्यमाणो लीलयैव सकला: कला जग्राह । नील-पीताम्बरधरौ तालगरुडध्वजौ मूर्तिमन्तौ पक्षाविव सिता-ऽसितौ तौ वासुदेव-बलदेवी त्रिपृष्ठाऽचलौ जङ्गमौ स्वर्णशैला-ऽजनाद्री इवाऽशोभेताम् । तथा विनाऽचलं न त्रिपृष्ठो, न त्रिपृष्ठं विनाऽचल इत्येकात्मानौ द्विशरीराविव तौ सह चेरतुः । इतश्च रत्नपुरे मयूरग्रीवनन्दनो नीलाञ्जनाप्रसूरशीतिधनुरुत्तुङ्गो घनश्यामश्चतुरशीत्यब्दलक्षप्रमितायुर्महाभुजः पराक्रमी, प्रतिविष्णुरश्वग्रीव आसीत् । स च निजौजसा त्रिखण्डं भरतक्षेत्रं वैताढ्याद्रेढे विद्याधर श्रेण्यौ मागधेश-प्रभासेश-वरदामेशान् स्ववशान् कृत्वैकातपत्रं साम्राज्यं भुञ्जान: पृथिव्यामिन्द्र इव स्थितः कालमतिवाहितवान् । ___एकदा च तस्य चित्ते चिन्तोदभूत्-"पृथिव्यामेकमल्लस्य मम नृपेषु को वधकः?" एवं विमृश्याऽश्वबिन्दुं निमित्तशं द्वारपालेनाऽऽजूहवत् राजा । राज्ञा पृष्टश्च नैमित्तिकोऽवदत्-"शान्तं पापम्, अमङ्गलमिदं वचः प्रतिहतम् । तवाऽशेषजगज्जिष्णोरन्तकोऽपि नाऽन्तकरः । मनुष्याणां का कथा ?" ततो हयग्रीवेण यथार्थं ब्रहीति पृष्टः स लग्नादिकं स्फुटं विचार्याऽवदत्-"तव चण्डवेगाभिधं दूतं Page #10 -------------------------------------------------------------------------- ________________ चतुर्थ पर्व - प्रथमः सर्गः ७ यो धर्षयिष्यति यश्च पश्चिमान्तस्थसिंहस्य हन्ता, स तवाऽपि " । तच्छ्रुत्वा म्लानो नृपः कृत्रिमपूजां कृत्वा तं व्यसृजत् । अथ तेन सिंहेन निर्जनीकृते देशेऽश्वग्रीवो नृपः शालीनारोपयामास । तद्रक्षार्थं च षोडशसहस्रसङ्ख्यान् नृपान् निदिदेश । ते च गत्वा क्रमात् तस्मात् सिंहात् तान् शालिक्षेत्रिणोऽरक्षन् । तथा स सभामास्थायाऽमात्यादीनूचे - " अधुना नृपादिषु कोऽपि कुमारोऽ सामान्यविक्रमोऽस्ति किम् ?" तत एकः सचिवो जगाद"प्रजापतिनृपस्य कुमारौ सकलानपि वीरान् तृणाय मन्यमानौ तथा स्तः” । ततो नृपः सभां विसृज्य प्रजापतेरन्तिके चण्डवेगं तं दूतं प्रेषयामास । स च कतिभिर्दिनैः पोतनपुरं प्राप्य द्वारपालेनाऽ निषिद्धगतिः प्रजापतेः सभां प्रविवेश । अचल- त्रिपृष्ठाभ्यां सचिवादिभिश्च वृत्तः स प्रजापतिरकस्मात् तं दूतमागतं दृष्ट्वा ससामन्तोऽभ्युदस्थात् । महत्या प्रतिपत्त्या च तमासने समुपवेश्य स्वामिनः सर्वं सन्देशमपृच्छत् । तदागमेन सङ्गीतभङ्गे च सर्वे सङ्गीतकारिणः स्वं स्वं गृहं जग्मुः । त्रिपृष्ठश्च तं दृष्ट्वा भृशममर्षणः पार्श्वस्थं कमपि पुरुषं तद्विषयेऽपृच्छत् । स पुरुषश्च त्रिपृष्ठाय स्वामिनो हयग्रीवस्याऽयं दूत इत्येवं सर्वं कथयामास । ततस्त्रिपृष्ठोऽभाषिष्ठ - " न जन्मना कोऽपि कस्याऽपि स्वामी वा सेवको वा, शक्त्यधीनमिदम् । समयेऽहं हयग्रीवं छिन्नग्रीवं करिष्ये । यदाऽयं तातेन विसृज्यते, तदा मे निवेदनीयम् । यथाऽस्योचितं करिष्यामि । ततो राज्ञा विसृष्टं पोतनपुराद् बहिस्तं चण्डवेगं स्वपुरीं प्रति गच्छन्तं ज्ञात्वा त्रिपृष्ठोऽचलेन सह पुरोभूय रुरुधे । तथा विनाऽऽज्ञां सभाप्रवेशाद्यविनयस्य फलं ते दर्शयामीत्युक्त्वा च त्रिपृष्ठो मुष्टिमुद्यम्य यावत् प्रपिनष्टि तावद् बलभद्रेण पुरोभूया ऽलमत्र प्रहारेण-दूतो ह्यवध्य इत्युक्तो मुष्टिमुद्यतां संहृत्य भटानादिशत् २ त्रिप. भा-३ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः "जीवनं मुक्त्वाऽस्य सर्वमपहरत" । ततस्तैर्भटैर्यष्टिभिर्यष्टिभिश्च ताडयित्वा तस्य सर्वस्वमपहृतम् । तत्परीवारश्च सर्वं मुक्त्वा जीवग्राहं पलायिष्ट । एवं तं पराभूय कुमारौ गृहमीयतुः । ८ नृपश्च ज्ञात्वैतत् तेन कुमाराचरितेन चिन्तितो दूतापमानं नृपापमानं विदन् प्रधानैस्तं दूतमानाय्य प्रेमपेशलैर्वचोभिरनुनीय तत्प्रकोपशान्तये चतुर्गुणं महामूल्यं प्राभृतं प्रदाय कुमारयोरिदं दुश्चेष्टितं नाऽश्वग्रीवाय वाच्यमिति प्रार्थितवांश्च । चण्डवेगोऽपि च तया वाचा शान्तकोपो राज्ञे न किमपि कथयिष्यामीत्यवोचत् । ततो राज्ञा विसृष्टः स दूतः कतिभिर्दिनैरश्वग्रीवान्तिकं ययौ । तदा च त्रस्तश्चण्डवेगस्य परिच्छदश्च सर्वं त्रिपृष्ठवृत्तान्तं भूपतेः शशंस । स दूतश्च हयग्रीवं कुपितं दृष्ट्वा 'केनाऽपि सर्वो वृत्तान्तो राज्ञे कथित' इत्यनुमाय राज्ञा पृष्टो व्यजिज्ञपत्-“देव ! अहमिव प्रजापतिरपि ते भक्तः, कुमाराभ्यां च यच्चक्रे, सा तयोर्बालसुलभाऽज्ञता । स प्रजापतिः कुमारदोषेणाssत्मानं चिरं गर्हयति, स त्वच्छासनमुपादत्त, इदमुपायनं चाऽदत्त" । ततो हयग्रीवोऽचिन्तयत्- "नैमित्तिकस्यैकं वाक्यं प्रतीतम् । द्वितीयोऽपि सिंहवधलक्षणः प्रतीतश्चेद् भविष्यति तदा मन्ये शङ्कास्थानमुपस्थितम्" । ततः स दूतान्तरेण प्रजापतिं शालिक्षेत्राणि सिंहात् त्रायस्वेत्यादिशत् । प्रजापतिना चाऽनिच्छ्याऽप्यादिष्टौ वीरौ तौ कुमारौ स्वल्पपरीवारौ सिंहाध्युषितां भुवं प्रापतुः । तथा सैन्यं निधाय सिंहगुहामभि समायाताम्। तयोश्च रथनिर्घोषात् प्रबुद्धः कुपितो बूत्कारदारुणो व्यात्ताननः सिंहो गुहागृहाद् निर्जगाम । ततः फालां दत्त्वाऽऽपततः सिंहस्यौष्ठौ पाणिभ्यां पृथक् पृथक् त्रिपृष्ठो गृहीत्वाऽपाटयत् । तं च निरस्त्रेण बालेन पराभूतोऽस्मीति खिद्यमानं सिंहं दृष्ट्वा वासुदेवसारथिर्जगाद - " किमेवमभिमानेन ताम्यसि ? अयं त्रिपृष्ठो भारते वासुदेवानां प्रथम:, तेन हतस्य तव का लज्जा ?" तस्यैवं वचसा शान्त: केसरी मृत्वा नरकावनावुपेदे । Page #11 -------------------------------------------------------------------------- ________________ चतुर्थ पर्व-प्रथमः सर्गः हयग्रीवाज्ञया तवृत्तं च ज्ञातमागतानां विद्याधराणां सिंहचर्माऽर्पयन त्रिपृष्ठ उवाच-"हयग्रीवस्य सिंहवधसूचकमिदं चर्माऽर्ण्यता, तथा निश्चिन्तो भव, विश्रब्धं शालिभोजनं भुञ्जीथा इति च वाचिकं वाच्यः सः" । ते च तथेति प्रत्यपद्यन्त । बलभद्र-त्रिपृष्ठौ च स्वं नगरं जग्मतुः । पितुः पादौ प्रणेमतुश्च । बलभद्रश्चाऽशेषं तमुदन्तं कथयामास । ते च विद्याधरा हयग्रीवस्याऽशेषतस्त्रिपृष्ठस्य तदुदन्तं वज्रपातसहोदरमूचुः । इतश्च वैताढ्यगिरौ रथनूपुर-चक्रवालाख्ये नगरे ज्वलनजटी नाम विद्याधरेन्द्रो बभूव । तस्य च महिष्यां वायुवेगाख्यायां स्वप्नेऽर्कदर्शनादर्ककीर्तिः पुत्रः, तथा स्वप्ने स्वयम्प्रभाधौतदिश इन्दुलेखाया दर्शनात् स्वयम्प्रभाख्या तनया चाऽभूताम् । नृपश्च सम्प्राप्तयौवनं महाभुजमर्ककीर्ति यौवराज्ये निवेशयामास । स्वयम्प्रभाऽपि क्रमशो यौवनं प्राप्य सर्वाङ्गसौभाग्यसम्पन्ना स्त्रीष्वनुपमाऽऽसीत् । अथैकदा चारणमुनी अभिनन्दन-जगन्नन्दनौ विहायसा विहरन्तौ तत्र पुरे समेयतुः । स्वयम्प्रभाऽपि गत्वा तौ वन्दित्वा तद्देशनां समाकर्ण्य सम्यक्त्वं प्रतिपेदे । ततो मुनी अन्यत्र विहाँ जग्मतुः । साऽप्यन्यदा पर्वदिने पौषधं प्रपद्य द्वितीयेऽह्नि पारणेच्छुजिने शितुरर्चादि विधाय तच्छेषां समानीय पितुरर्पयामास । स च प्रसन्नो विद्याधरेन्द्रस्तच्छेषां शीर्षे स्वयम्प्रभां चोत्सङ्गेऽध्यारोपयत् । तां च प्राप्तयौवनां दृष्ट्वा वरार्थं चिन्तितस्तां विसृज्य सुश्रुतादीन् मन्त्रिण: समाहूय तदुचितं वरं पप्रच्छ । ___ ततः सुश्रुतोऽवोचत्-"रत्नपुरे नीलाञ्जना-मयूरग्रीवयोः सुतो हयग्रीवो नाम प्रवरो वरोऽस्ति" । तच्छ्रुत्वा बहुश्रुताख्यः सचिवो जगाद-"न स योग्यो वरः, उत्तरश्रेण्यां बहवो विद्याधरोत्तमाः सन्ति । तेषां मध्यात् कस्मा अप्येषा दातव्या" । ततः सुमतिनामा त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सचिव उवाच-"अनेन युक्तमुक्तम् । उत्तरश्रेण्यां प्रभङ्करायां नगाँ मेघमालिनी-मेघवनयोः सुतो विद्युत्प्रभो नाम, कन्या च ज्योतिर्माला नाम्नी स्तः। तत्र विद्युत्प्रभकुमारयोग्येयं स्वयम्प्रभा । तथाऽर्ककीर्तिकुमारस्योचिता सा ज्योतिर्माला । एवं कन्याविनिमयेनोभयोर्महोत्सवोऽस्तु" । तच्छ्रुत्वा च श्रुतसागरनामा मन्त्र्युवाच"रत्नभूतेयं कन्या सर्वैरेव प्रार्थनीयाऽस्ति । अतो विद्याधरकुमाराणां कस्मैचिदेकस्मै ददतस्तव विरोधो भावी तैः सह, तच्च नोचितम् । अत: स्वयंवर एवाऽस्या युज्यते" । एवं सर्वमन्त्रिमन्त्रं श्रुत्वा तान् विसृज्य च नृपः सम्भिन्नश्रोतसं नाम नैमित्तिकं पप्रच्छ । स प्रोवाच-“भरतपृष्टेन भगवता वृषभध्वजेनोक्तं साधुभ्योऽहमश्रौषं, यत्-"अवसर्पिण्यां मत्समास्त्रयोविंशतिरहन्तस्त्वत्समाश्चैकादश राजानो, बलदेवा नव, वासुदेवा नव, नव प्रतिवासुदेवाश्च भविष्यन्ति । तत्र हयग्रीवं हत्वा त्रिपृष्ठो वासुदेवो भरतावनि त्रिखण्डां भोक्ष्यते" । अतस्तस्मै कन्या देया । स तुभ्यं सर्वविद्याधरैश्वर्यं प्रदास्यति" । ततश्च हृष्टो राजा नैमित्तिकं सत्कृत्य विसृज्य च तदर्थे मारीचिं दूतं प्रजापतिपावें प्रेषितवान् । स च गत्वा प्रजापति नत्वैवं ज्ञापयित्वाऽभाषत-"विद्याधरेन्द्रो ज्वलनजटी स्वयम्प्रभायाः कन्याया वरार्थे चिन्तित: सम्भिन्नश्रोतसो नैमित्तिकस्याऽनुमत्या त्रिपृष्ठाय तां दातुमिच्छति, तदनुमन्यताम्" । प्रजापतिश्च प्रसन्नस्तथेति प्रतिपद्य सत्कृत्य च दूतं विससर्ज । ततो हयग्रीवाशङ्कया ज्वलनजटी कन्यामुद्वाहयितुं प्रजापतिनृपपुरं ययौ । तन्नगरोपान्तस्थश्च स्वयमभ्यागत्य प्रजापतिना सत्कृतस्तद्दत्तावासे सपरिवारपरिच्छदो निवासमकरोत् । तथा शुभे मुहूर्ते समहोत्सवं यथाविधि त्रिपृष्ठो वासुदेवः स्वयम्प्रभां परिणीय तया सह हस्तिनीमारुह्य स्वगृहं जगाम । Page #12 -------------------------------------------------------------------------- ________________ १२ चतुर्थं पर्व-प्रथमः सर्गः हयग्रीवश्च तवृत्तान्तं श्रुत्वा-'मयि सत्यप्यन्यस्मै कन्या दत्ते'ति क्रुद्धः कन्यां याचितुं रह: स्वयमनुशिष्य पोतनपुरे दूतं प्रेषितवान् । स च त्वरितं ज्वलनजटिगृहं गत्वोवाच-"अश्वग्रीवो युष्माकं सकुटुम्बानां स्वामी, अतस्तस्मै कन्या दीयताम् । अन्यथा पुराऽऽराद्धः स प्रकुप्येत्" । तच्छ्रुत्वा ज्वलनजट्युवाच-"त्रिपुष्ठाय सा कन्या दत्ता । अधुना हि सा कथमन्यस्मै देया ? अन्यस्याऽपि दत्तस्य वस्तुनः स्वामिताऽपगच्छति, कुलकन्यायास्तु किं पुनः ? एतत् स स्वयं विचारयतु" । तच्छ्रुत्वा चाऽन्तःकुपितः स दूतस्त्रिपृष्ठं गत्वोवाचजगज्जयी हयग्रीवस्त्वामादिशति-"अस्मदर्हा स्वयम्प्रभा, अज्ञानात् त्वया गृहीता सा मह्यं दातव्या, भृत्यानां स्वामिशासनं प्रमाणम्" । तच्छ्रुत्वा प्रकुपितस्त्रिपृष्ठः प्रत्युवाच-"स ह्यकुलीनो न मम स्वामित्वमर्हति, अन्यत्रापि तस्य स्वामिता गत्वर्येव । तां स्वयम्प्रभामुपादातुमत्र स्वयमागच्छतु । दूतस्त्वमतोऽवध्यः । तमेव हयग्रीवमिहाऽऽगतं हनिष्यामि" | ततो वासुदेवेनेत्थमुक्तो दूतो द्रुतं गत्वा हयग्रीवाय सर्वमाख्यत् । स च तेनाऽत्यन्तं कुपितो निजभटान् विद्याधरान् ज्वलनजटिप्रभृतीन् विद्रावयतेत्यादिशत् । ततस्ते विद्याधराः सन्नद्धा: पोतनपुरं प्राप्ताः । तेषां कलकलं श्रुत्वा च ज्वलनजटी किमेतदिति सम्भ्रान्ते प्राजापत्यादौ प्रोवाच-"अमी हयग्रीवेणाऽऽदिष्टाः सुभटाः काममायान्तु । यूयं मम कौतुकं प्रेक्षध्वम् । मयि सति कोऽप्यन्यो न प्राहार्षीत्" । ततो बद्धपरिकरो रणायोत्थितः स तेषां शस्त्राणि स्वशस्त्रैनिरास्थत् । तीक्ष्णबाणवृष्टिभिश्च तान् सर्वानुपद्रुत्य विद्याबलाच्च तेषां दर्प हृत्वा "हयग्रीवं मध्ये कृत्वा रथावर्ते पर्वते समायात । वयमपि तत्र शीघ्र समेष्यामः । निर्माथान् वो वराकान् को हनिष्यति?" इत्यभाषत । ततश्च ते काकनाशं प्रणष्टा म्लानमुखा गत्वा हयग्रीवाय सर्वमाचख्युः । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तच्छ्रुत्वा च कोपारुणलोचनो हयग्रीवः सामन्तादीनादिशत्"भोः सर्वे सर्वाभिसारेण द्रुतं समागच्छत । सैन्यं नः साम्प्रतं चलतु । धूमो मशकानिव समरे प्राजापत्यादीन् द्राक् संहरामि" । इत्युक्तवन्तं सामर्षं सचिवो जगाद-"स्वामी त्रिखण्डभरतं लीलयैव पुराऽजयत् । किन्त्वयं त्रिपृष्ठो नैमित्तिकगिरा महच्छङ्कास्पदम् । अतोऽत्राऽऽसनगुणेनैव वर्तितव्यम् । अन्यथा सैन्यमेवाऽऽदिश्यताम् । त्वत्सैन्यं हि कः सहेत?" किन्तु हयग्रीवस्तथ्यां पथ्यां च तद्वाचमवमन्य, कातरोऽसीति तं निर्भय॑ सरोषः प्रस्थानदुन्दुभिं वादयामास । तेन च दुन्दुभिशब्देन सर्वे सैनिकाः सर्वाभिसारेण सद्य एव समीयुः । हयग्रीवोऽपि च स्नानादिकं विधाय गजमारुह्य रथादिभिः परिवारितोऽचलानपि चालयन् प्रचचाल । गच्छतश्च तस्य छत्रभङ्गादिकान्यशकुनानि बभूवुः । कतिभिश्च प्रयाणै रथावर्त्तपर्वतमासाद्योपत्यकायां तदाज्ञया सैन्यान्यूषुः । __इतश्च पोतनपुरे ज्वलनजटी बलभद्र-वासुदेवानुवाच"विद्यादुर्मदो हयग्रीवः कस्य न शङ्कनीय:? अतो युवाभ्यां विद्यासिद्ध्यै मनाक् श्रमो विधेयः । यथा तस्य विद्याकृतं मायायुद्धं वृथा भवेत्"। ततस्तथेति प्रतिपेदानौ शुचिवस्त्रौ समाहितौ तौ स विद्या अन्वशिषत् । तावपि च मन्त्रबीजाक्षराणि स्मरन्तौ सप्तरात्रमेकाग्रमानसावत्यवाहयताम् । सप्तमे दिवसे च तौ गारुड्याद्या विद्या: समुपस्थाय "युवयोर्वशे स्म" इत्यूचुः । ततस्तौ सिद्धविद्यावचल-त्रिपृष्ठौ ध्यानं पारयामासतुः । सपरीवारपरिच्छदौ च तौ प्रस्थाय रथावर्ताद्रिमासदताम् । अथोभयोरपि सैन्ययो रणतूर्याण्यवाद्यन्त । ततश्चोभयोः सैन्ययोः शस्त्राशस्त्रि युद्धे प्रवृत्ते हयग्रीवस्याऽग्रसैन्यं त्रिपृष्ठस्याऽग्रसैन्येन पराङ्मुखं चक्रे। अग्रसैन्यस्य भङ्गेन सक्रुद्धा हयग्रीवभटा वेताल-पिशाचादिरूपिणो भूत्वा भीषणान् नादान् कुर्वन्तो वेगात् त्रिपृष्ठस्य सैन्यमुपदुद्रुवुः । तत: क्षणादपि भग्नोत्साहास्त्रिपृष्ठस्य सैनिका विचिन्तयामासुः-"मन्ये, Page #13 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व-प्रथमः सर्गः कन्यानिमित्तो नः प्रलयोऽयमुपस्थितः । न: पौरुषेणाऽद्य कृतम्" । एवं चिन्ताप्रपन्नेषु पराङ्मुखीभवत्सु तेषु ज्वलनजटी त्रिपृष्ठमुवाच"इयं विद्याधराणां माया, न किञ्चित् पारमार्थिकम् । तदुत्तिष्ठ, महारथं समारोह" । इत्थं तेनोक्तस्त्रिपृष्ठो निजं सैन्यमाश्वासयन् महारथमध्यारुरोह । बलभद्रादयश्चाऽपि रथान् समारुरुहुः । तदानीं पुण्याकृष्टा देवास्त्रिपृष्ठाय शाङ्ग धनुः, कौमोदकी गदां, पाञ्चजन्यं शङ्ख, कौस्तुभं मणि, नन्दकं खड्ग, वनमालाख्यं दाम च समर्पयामासुः । बलभद्राय च संवर्तकं हलं, सौनन्दं मुसलं, चन्द्रिकाख्यां गदां च ददुः । ततश्च त्रिपृष्ठवादितशङ्खध्वनिना हयग्रीवसैनिकाः पतितास्त्रादयः क्षुभ्यन्ति स्म । हयग्रीवश्च स्वसैन्यभङ्गं समाकर्ण्य निजान् भटानब्रवीत्-"रे ! विद्याधराः ! शङ्खध्वनेरपि त्रस्ताः क्व याथः ? युष्माभिर्नानारणजयसमुद्भूतं यशो हारितम्, अतो व्यावर्त्तध्वं, युद्ध्यध्वम् । अथवा केवलं सभ्यीभवत । अहं हयग्रीवो रणे न साहाय्यार्थी" । इत्युक्तास्ते विद्याधरास्त्रपावशाद् ववलिरे । हयग्रीवोऽपि रथस्थो व्योमयानेन चलितस्त्रिपृष्ठसैन्येषु बाणादीन् ववर्ष । तया चाऽस्त्रवृष्ट्याऽखिलं त्रिपृष्ठस्य बलमक्लाम्यत् । ततो बलभद्रादयो रथस्था निजैर्भटैः समं नभसोत्पेतुः । नभसि चोभयतो विद्याधरा विद्याशक्ति दर्शयन्तोऽधिकाधिकं युयुधिरे । तदेवं परस्परं दारुणे युद्धे प्रवृत्ते हयग्रीवरथं प्रति त्रिपृष्ठो निजं रथं प्रेरयत् । बलभद्रोऽपि च त्रिपृष्ठरथसन्निधि ययौ । हयग्रीवोऽपि तौ पश्यन् क्रुधा रक्तनेत्रास्योऽब्रवीत्-"रे ! युवयो: कतरेण चण्डसिंहः प्रधर्षितः? कतरश्च पश्चिमान्तस्थसिंहहन्ता ? कतरो वा स्ववधायैव स्वयम्प्रभा पर्यणैषीत् । क्रमेण युगपद् वाऽपि मया सह युध्येथाम् । अविनयफलं च भुङ्क्ताम्" । ततस्त्रिपृष्ठ उवाच-"अहमेष त्रिपृष्ठस्त्वदूतधर्षणादिकर्ता । अयं च ममाऽग्रजो बलभद्रो जगत्यप्रतिमल्लः । अलं सैन्यक्षयेण, १४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः गृहाणाऽस्त्रम् । त्वं ममैव रणातिथिरसि, तावदावयोर्द्वन्द्वयुद्धमेवाऽस्तु । उभयोरपि सैनिकाः सभ्यीभूयाऽवतिष्ठन्तु" । ततस्तथेति प्रतिपेदानौ तौ हयग्रीव-त्रिपृष्ठौ सैन्यानि वेत्रिणा युद्धाद् वारयामासतुः । ___द्वावपि च तौ स्वं स्वं धनुरादाय घोरं ज्याघोषं चक्रतुः । तत्र हयग्रीवेण मुक्तं भाभिर्व्वलन्तं बाणं वासुदेव: स्वबाणेन छित्वा लाघवादपरेण बाणेन तस्य धनुरपि चिच्छेद । तथा हयग्रीवस्य ध्वजमेकेन छित्त्वाऽन्येन बाणेन तद्रथं दूरं क्षिप्तवान् । तत: कुपितो हयग्रीवोऽपरं रथमारुह्य तथा शरवृष्टिं चकार, यथा रथः सारथिस्त्रिपृष्ठो वा कोऽपि नाऽदृश्यत । त्रिपृष्ठचाऽपि सूर्योऽन्धकारमिव स्वशरवृष्टिभिस्तां शरवृष्टि निरस्तवान् । ततोऽतिक्रुद्धेन हयग्रीवेण मूनि भ्रमयित्वा क्षिप्तां विद्युत्सोदरां शक्ति परिघं गदां च त्रिपृष्ठः कौमोदक्या गदया कणशश्चकार । तदेवं भग्नेषु शस्त्रेषु विलक्षो हयग्रीवः पन्नगास्त्र स्मृत्वा चापे सन्धाय च मुमोच । ततस्त्रिपृष्ठो गरुडास्त्रेण तद् निवारयामास । ततो विस्मितेन हयग्रीवेण मुक्तमाग्नेयास्त्रं त्रिपृष्ठो वरुणास्त्रेण शमयामास । ___एवं त्रिपृष्ठेन तृणवदस्त्राणि भग्नानि प्रेक्ष्याऽमोघं स्वं चक्रं स्मृत्वा शिरसि भ्रमयित्वा सर्वबलेन चिक्षेप । तच्चक्रेण च तुम्बाग्रघातेन कुलिशेनेव वक्षसि ताडितस्त्रिपृष्ठो मूच्छितो भूमौ पपात । तेन चाऽतिक्रुद्धो बलभद्रोऽचलो यावत् स्वां गदामुत्पाट्य दधाव, तावल्लब्धसंज्ञस्त्रिपृष्ठो हयग्रीवप्रहितचक्रमेव समीपस्थमादाय तं प्रति मुमोच । तच्चक्रं च कदलीकाण्डवद् हयग्रीवस्य कण्ठं चकर्त्त । प्रतिचक्रिणो हि स्वेनैव चक्रेण हन्यन्ते । तदानीं च मुदितैः खेचरैः पुष्पवृष्टिर्जयजयारावश्च चक्रे । हयग्रीवस्य सैन्ये च सदैन्ये रुदितध्वनिः समुत्तस्थौ । स्वजनाश्चाऽग्निना हयग्रीवाङ्गसंस्कारं व्यधुः । हयग्रीवश्च विपद्य सप्तम्यां नरकावनौ त्रयस्त्रिंशत्सागरोपमायुर्नारकोऽभवत् । Page #14 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व - प्रथमः सर्गः १५ अत्रान्तरे च नभसि देवैरूचे "भो भो नृपतयः ! मानं हयग्रीवपक्षपातं च विहाय भक्तितस्त्रिपृष्ठं शरणं यात, अयं त्रिखण्डभरतक्षेत्रावर्भर्ता प्रथमो वासुदेव इह समुदपद्यत" । तद्दिव्यां गिरं श्रुत्वा च सर्वे महीभुज उपेत्य शिरसा त्रिपृष्ठं नेमुः | अतः परं वयं त्वदीयाः किङ्करास्त्वदाज्ञानुरुपं करिष्याम इत्यूचुश्च । त्रपृष्ठोऽपि तानाश्वास्याऽनुशिष्य च सपरिच्छदः पोतनपुरं जगाम । पुनश्च पोतनपुरात् साग्रजस्त्रिपृष्ठः सप्तभिश्चक्राद्यै रत्नैर्वृतो निर्गतो मागधेशं वरदामेशं प्रभासेशं वैताढ्य श्रेणिद्वयगतान् विद्याधरांश्च वशगान् चकार । तथा ज्वलनजटिनः श्रेणिद्वयाधिपत्यं प्रदाय दक्षिणभरतार्धं साधयित्वा स्वपुरोन्मुखो दिग्यात्राया निवृत्तश्चक्रधरार्धसमृद्धया बाहुबलेन च शोभितः कतिभिः प्रयाणैर्मगधान् प्राप । तत्र च कोटिपुरुषोत्पाट्यां महाशिलां दृष्ट्वा वामेन भुजदण्डेन तामुत्पाट्यो - मूर्ध्वं नभस्तले छत्रायमाणामुद्धृत्य स्थितो जनैर्विस्मितैः सुष्ठु तुष्टुवे । ततस्तां यथास्थानं विमुच्य प्रस्थितः कतिभिर्दिनैः पोतनपुरं जगाम । तोरण-मञ्चाद्यलङ्कृतं च तत्पुरं गजारूढः प्रविवेश । ततः प्राजापत्यादिभिर्नृपैरन्यैश्च तस्याऽर्धचक्रित्वाभिषेको विदधे । **** इतश्च छद्मस्थतया द्वौ मासौ विहृत्य सहस्राम्रवणं प्राप्तस्य श्रेयांसस्य भगवतोऽशोकतरोर्मूले प्रतिमास्थितस्य द्वितीयशुक्लध्यानान्ते विनष्टेषु घातिकर्मसु माघकृष्णामावास्यायां श्रवणस्थे चन्द्रे कृतषष्ठस्यामलं केवलमुत्पन्नम् । तदा च देवैः कृते समवसरणे भगवतो देशनया प्रबुद्धा बहवो जना देशतः केचित् सर्वतश्च विरतिं जगृहुः । गोशुभाद्याः षट्सप्ततिर्गणधराश्च प्रभोस्त्रिपदीं प्राप्य द्वादशाङ्गीमसूत्रयन् । तत्तीर्थे च समुत्पन्ने त्रिनेत्र: श्वेतवर्णो वृषवाहनो दक्षिणाभ्यां बाहुभ्यां मातुलिङ्ग-गदाधरो वामाभ्यां च नकुला - ऽक्षसूत्रधर ईश्वराख्यो यक्षः, सिंहवाहना गौराङ्गी दक्षिणाभ्यां भुजाभ्यां वरद मुद्गरधरा १६ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः वामाभ्यां च कुलिशा - ऽङ्कुशधरा मानवी देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ताभ्यां सहितश्च प्रभुविहरन् क्रमात् पोतनपुरं प्राप्तवान् । तत्र च देवैर्विहिते समवसरणे षष्ठ्युत्तरनवधनुः शतोत्तुङ्गं चैत्यवृक्षं प्रदक्षिणीकृत्य यथाविधि प्रभू रत्नसिंहासनमध्यतिष्ठत् । सुरासुरादयश्चाऽपि यथास्थानमुपविष्टवन्तः । तदा च राजपुरुषैः स्वामिनं समवसृतं ज्ञात्वा तेभ्योऽर्धत्रयोदशरूप्यकोटीर्दत्त्वा बलभद्रेण समं समवसरणं प्राप्य भगवन्तं नत्वा त्रिपृष्ठो यथास्थानं निषसाद । ततः शक्रेण भक्त्या स्तुतः श्रेयांसः प्रभुर्धर्मदेशनामारेभे"अस्मिन्नसारे संसारे जन्तवः कर्मभिः सर्वत्र भ्रम्यन्ते । तानि चाऽष्टावपि कर्माणि भेषजेन रसा इव निर्जरयैव जीर्यन्ति । संसारबीजभूतानां कर्मणां जरणलक्षणा सा निर्जरा च सकामा निष्कामा चेति द्विधा । तत्र यमिनां सकामाऽन्येषां चाऽकामा । कर्मणां हि स्वत उपायतश्च फलवत् पाकः । जीवो ह्यग्निना सुवर्णमिव तपसा शुद्धयति । तत्राऽनशनोनोदरता-वृत्तिसङ्क्षेप - रसत्याग-तनुक्लेश- लीनता बहिस्तपः । प्रायश्चित्त-वैयावृत्त्य-स्वाध्याय-विनय व्युत्सर्ग- शुभध्यानान्याभ्यन्तरं तपः । यमी च दुर्जराण्यपि कर्माणि बाह्ये चाऽभ्यन्तरे च तपोवह्नौ दीप्यमाने क्षणाज्जरयति । संवरेण समावृतश्च जीव आश्रवरोधेन नवैः कर्मद्रव्यैर्न बध्यते । तपसा ताप्यमानं च शरीरिणां पूर्वसञ्चितं सर्वं कर्म तत्क्षणात् क्षयमायाति । निर्जराकरणे च बाह्यादाभ्यन्तरं तपः श्रेष्ठम् । तत्राऽपि ध्यानं सर्वश्रेष्ठम् । ध्यानेन हि भूयांसि प्रबलान्यपि पूर्वकर्माणि निर्जरन्त्येव । प्रतिक्षणं प्रभवन्त्यावपि संवर- निर्जरे यदा प्रकृष्येते, तदा ध्रुवं मोक्षं प्रसुवाते" । भर्त्तुश्चैवं देशनया बहवो जना: प्राव्रजन् । बलभद्र - वासुदेवौ च सम्यक्त्वं प्रतिपेदाते । Page #15 -------------------------------------------------------------------------- ________________ १८ चतुर्थं पर्व-प्रथमः सर्गः ... १७ ततः प्रथमपौरुष्यां पूर्णायां प्रभौ देशनाविरते द्वितीयस्यां च पूर्णायां गणधरे गोशुभे देशनाविरते सति प्रभुं प्रणम्य सर्वे सुरादयः स्वं स्वं स्थानं ययुः । प्रभुरपि तत: स्थानाद् भुवं विजहार । तदानीं च केवलात् प्रभृति द्विमासोनवर्षलक्षकविंशति महीं विहरतः प्रभोः परीवारे साधूनां चतुरशीतिसहस्राणि, साध्वीनां सहस्रत्रयसंयुतं लक्षमेकं, पूर्वभृतां त्रयोदश शतानि, अवधिमतां मनःपर्ययिणां च प्रत्येकं षट्सहस्री, केवलिनां सार्धा षट्सहस्री, जातवैक्रियलब्धीनामेकादशसहस्री, वादलब्धिमतां पञ्चसहस्री, श्रावकाणां लक्षद्वयं नवसप्ततिसहस्त्राणि च, श्राविकाणां च चत्वारि लक्षाण्यष्टचत्वारिंशत्सहस्राणि चाऽभवन् । अथ मोक्षकालं ज्ञात्वा प्रभुः सम्मेताद्रिमुपेत्य मुनिसहस्रेण सममनशनं प्रपद्य मासान्ते शैलेशीध्यानमास्थितः श्रावणकृष्णतृतीयायां घनिष्ठास्थे चन्द्रे सिद्धानन्तचतुष्कस्तैर्मुनिभिः समं परमं पदं प्राप । तदेवं प्रभोः कौमारे वर्षलक्षाणामेकविंशतिः, राज्ये वर्षाणां द्विचत्वारिंशल्लक्षाणि, व्रते वर्षलक्षाणामेकविंशतिरिति मिलित्वा चतुरशीतिवर्षलक्षाण्यायुः । श्रीशीतलनाथनिर्वाणाच्च षड्विंशतिसहस्राधिकवर्षषट्षष्टिलक्षैः सागरोपमशतेन चोनाया: सागरोपमकोटेर्व्यतिक्रमे श्रेयांसस्वामिनो निर्वाणगमनोत्सवो जज्ञे । वासवादयश्च भगवतो निर्वाणकल्याणकं यथाविधि यथोपचारं च विधाय स्वं स्वं धाम ययुः । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्रिपृष्ठस्याऽन्तिके केऽपि गायना: समाययुः । ते च सुस्वरं गायन्तो वासुदेवस्य हृदयं जहुः । तेन च त्रिपृष्ठस्तान् गीतगुणेन सदा पार्श्वस्थान् चक्रे । ततोऽन्यदा रात्रौ त्रिपृष्ठे शय्यायां निषेदुषि तैर्गायनैस्तारस्वरेण गातुमारेभे । तद्गीताक्षिप्तहृदयश्च वासुदेव एकं शय्यापालम्-"अस्मासु निद्रायमाणेषु गायतोऽमून् गायनान् त्वं विसृजे"रित्यादिशत् । स शय्यापालश्च तथेति तद्वचः प्रतिपेदे । वासुदेवस्य च निद्राक्षणाल्लोचने मुद्रयामासतुः । शय्यापालश्च गीतलोभात् तान् न विसृजति स्म । ततः पश्चिमरात्रे प्रबुद्धो वासुदेवो गायनान् तथैव गायतः श्रुत्वा 'कि त्वयाऽमी गायना न विसृष्टा?' इति शय्यापालं पप्रच्छ । शय्यापालश्च 'प्रभो ! अमीषां गीतेन व्याक्षिप्तहृदय एतान् न व्यस्राक्षं, स्वामिशासनं व्यस्मार्षम्' इत्युवाच । तेन च प्रकुपितः प्रातः सभामध्यास्य रात्रिवृत्तान्तं स्मृत्वाऽऽरक्षपुरुषान् शय्यापालं प्रदर्श्य समादिशत्-"अमुष्य प्रियगीतस्य कर्णयोस्तप्तं त्रपु तामं च क्षिप्यताम् । यतः कर्णकृतोऽयं दोषः" । तेऽपि शय्यापालमेकान्ते नीत्वा तथा व्यधुः । शय्यापालश्च तया वेदनया पञ्चत्वं प्राप। वासुदेवश्च तेन दुर्विपाकं वेदनीयकर्माऽबध्नात् । तथा नित्यं विषयासक्तो, राज्यमुग्धः, स्वबाहुबलगर्वेण जगत् तृणाय गणयन्, प्राणातिपाते निःशङ्को, महारम्भपरिग्रहः, क्रूरेणाऽध्यवसायेन शीर्णसम्यक्त्वभूषणश्च नरकायुर्निबध्य चतुरशीतिवर्षलक्षाण्यायूंष्यतीत्य त्रिपृष्ठः सप्तमी नरकभूमि प्राप । स च पञ्चधन्वशतोन्नतस्तत्राऽऽवासे त्रयस्त्रिंशत्सागरोपमायुः कर्मणां फलमपश्यत् । तथा त्रिपृष्ठस्य कौमारे पञ्चविंशतिवर्षसहस्राणि, माण्डलिकत्वे च तावन्ति, दिग्विजये च वर्षसहस्रं, राज्ये चैकोनपञ्चाशत्सहस्रयुक् त्र्यशीतिवर्षलक्षीति मिलित्वा चतुरशीतिवर्षलक्षाण्यायुः । अथ त्रिपृष्ठोऽपि द्वात्रिंशतान्तःपुरस्त्रीसहस्रैः सुखं विलसन् कियदपि स्वायुरत्यवाहयत् । तत्र च तस्य स्वयम्प्रभायां ज्येष्ठः श्रीविजयः कनिष्ठो विजयश्च द्वौ सुतौ जज्ञाते । एकदा च Page #16 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व प्रथमः सर्गः १९ अथाऽचलो बलभद्रोऽपि भ्रातृमृत्युशोकपराभूतो विलपन् वृद्धैः प्रबोधितो धैर्यमालम्ब्य भ्रातुस्त्रिपृष्ठस्याऽग्निसंस्कारादिकमौर्ध्वदेहिकं कर्मसमापयत् । क्वाऽपि भ्रातुः स्मरणेन रतिमलभमानः श्रेयांसस्वामिनो गिरं स्मरन् संसारासारतां ध्यायन् विषयपराङ्मुखः स्वजनानुरोधात्कानिचिदहानि स्थित्वा धर्मघोषाचार्यमुपेत्य तद्देशनां श्रुत्वा विशेषत भवनिर्विण्णस्तत्पार्श्वे दीक्षामुपाददे । मूलोत्तरगुणान् सम्यक् पालयन् सर्वत्र समतां बिभ्राणः परीषहान् सहमानः कञ्चित् कालं ग्रामादिषु विजहार । पञ्चाशीतिवर्षलक्षाणि स्वायूंष्यतिवाह्य निसर्गामलचित्तवृत्तिः सर्वाण्यपि कर्माणि क्षपयित्वा परमं पदं प्राप ॥ १ ॥ इति चतुर्थे पर्वणि श्रीश्रेयांसजिन त्रिपृष्ठाऽचलाऽश्वग्रीव चरितवर्णनात्मकः प्रथमः सर्गः ॥ १ ॥ द्वितीयः सर्गः श्रीवासुपूज्यचरितम् जयादेवीकुक्षिजातो वसुपूज्यसुतो जिनः । भव्याब्जबोधसुब्रध्नो वासुपूज्यः प्रपद्यताम् ॥१॥ अथ पुष्करद्वीपार्धे प्राग्विदेहेषु मङ्गलावत्यां विजये रत्नरञ्चयायां पुरि जैनशासनपालनपरायण: श्री - कीर्त्त्याद्यास्पदं समुद्रमेखलां पृथिवीं शासच्छ्रीपद्मोत्तरो नृपो बभव । स च सततं संसारानित्यतां भावयन् विरक्तो वज्रनाभसूरेः पादान्ते दीक्षामुपाददे । कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य चिरं व्रतं पालयित्वा विपद्य प्राणते महर्द्धिकः सुरोऽभवत् । इतश्च जम्बूद्वीपे दक्षिणभरतार्थे चैत्यादिशोभितायां चम्पायां पुरीक्ष्वाकुवंश्यः सर्वज्ञभक्तो वसुपूज्यनामा नृप आसीत् । तस्य च राज्ञो रूप-शीलगुणसमग्रा पतिव्रता जयानाम्नी पत्नी बभूव । तस्याः कुक्षौ च स्वोत्कृष्टमायुः पूरयित्वा प्राणताच्च्युत्वा पद्मोत्तरजीवो ज्येष्ठ शुक्ल नवम्यां शतभिषग्गते चन्द्रेऽवातरत् । जयादेवी च तदानीं तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् ददर्श । फाल्गुनकृष्णचतुर्दश्यां च पूर्णे समये सा रक्तवर्णं महिषाङ्कं सुतमसूत । तदा षट्पञ्चाशद् दिक्कुमारिका एत्य स्वामिनः सूतिकर्म चक्रुः । शक्रोऽपि पालकारूढः सपरिच्छदस्तत्रैत्य यथाविधि प्रभुं मेरुं नीत्वा तत्र सर्वैरिन्द्रैः सह मिलित्वा यथाविधि स्नात्रं विधाय भक्त्या स्तुत्वा पुनस्तं नीत्वा जयादेवीपार्श्वे मुक्त्वा प्रणम्य च स्वं धाम Page #17 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व-द्वितीयः सर्गः जगाम । शुभेऽहनि च वसुपूज्योऽपि समहोत्सवं प्रभोर्वासुपूज्य इति नाम चक्रे। प्रभुः स्वाङ्गुष्ठसुधां पिबन् वर्धमानो देवकुमारैः सह क्रीडन् शैशवमतीत्य यौवनं प्रपन्नः सर्वलक्षणलक्षित: सप्ततिधनुरुत्तुङ्गो जातः । "नृपकन्या: परिणीय राज्यं च गृहीत्वाऽस्मन्मनोरथान् पूरय, अहं व्रतग्रहणेच्छुरस्मी"ति पित्रा प्रार्थितः उवाच-"भवतामेतत्पुत्रप्रेमोचितं वच उचितमेव । परं संसारकान्तारे भ्रामं भ्रामं खिन्नोऽस्मि । तच्च छेत्तुमिच्छामि, कन्योद्वाहैरल"मिति । ततः खिन्नो वसुपूज्यः पुनर्जगौ"महास्वप्नैरेव 'भवसागरस्तीर्णस्त्वये'ति ज्ञातम् । तव दीक्षाग्रहणादिमहोत्सवाश्च भाविन एव । किन्तु भवानपि वृषभध्वजादिवद् विवाहादि कर्तुमर्हति" | ___ततो वासुपूज्य: प्रभुः पुनरुवाच-न कस्याऽपि केनाऽपि कर्म सदृशं, भोगफलानि हि कर्माणि भोगेनैव जीर्यन्ति । मम च भोगफलं कर्म नाऽवशिष्यते । भविष्यत्कालेऽपि च मल्लि-नेमि-पास्त्रियो जिना अकृतोद्वाहादिका एव मुक्तये प्रव्रजिष्यन्ति । श्रीवीरश्चरमाहँश्चेषद्भोग्येन कर्मणा कृतोद्वाहोऽकृतराज्य: प्रव्रजिष्यति सेत्स्यति च । अतो विवाहार्थं नाऽहमुपरोध्यः" । एवं पितरौ प्रबोध्य जन्मतोऽष्टादशसु वर्षलक्षेषु गतेषु दीक्षोद्यतो लोकान्तिकामरैः प्रार्थितो वार्षिकदानं प्रादत्त । शरैः कृतदीक्षाभिषेकः प्रभुः पृथिवीनाम्नी शिबिकामारुह्य वनोत्तमं प्राप्य कृतचतुर्थः पञ्चमुष्टिकेशोत्पाटनपूर्वकं फाल्गुनामावास्यायां शतभिषङ्नक्षत्रे राज्ञां षड्भिः शतैः सह प्राव्राजीत् । द्वितीयेऽह्नि च महापुरे सुनन्दनृपगृहे परमान्नेन पारणं विधाय पुर-ग्रामादिषु विहाराय प्रावर्त्तिष्ट । २२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ____ इतश्च पृथ्वीपुरे पुरि पवनवेगो नाम नृपः श्रवणसिंहसूरेतमादाय दुस्तपं तपस्तप्त्वा विपद्याऽनुत्तरं विमानं जगाम । तथा जम्बूद्वीपे दक्षिणभरतार्धे विन्ध्यपुरे विन्ध्यशक्तिर्नाम महापराक्रमी नृपो बभूव । एकदा च सभायामुपविष्टं सचिवादिभिः परिवृतं तं वेत्रिणा प्रवेशित: कश्चिच्चरो नमस्कृत्याऽग्रे समुपविश्य शनैर्व्यजिज्ञपत्-"देव ! दक्षिणभरतार्धे साकेतं नाम महापुरमस्ति । तत्र च पर्वतनाम्नो नृपस्य सर्वसामुद्रिकलक्षणलक्षिता गुणमञ्जरीनाम्नी वेश्याऽस्ति । सा च तवैव युज्यते । युवयोः स्वर्णमण्योरिवोचितो योगोऽस्तु । अचन्द्रया रजन्येव तां विना तव राज्येनाऽलम्" । तच्छ्रुत्वा च नृपो मन्त्रिणमुपपर्वतकं गुणमञ्जरी याचितुं प्रेषयामास । स च मन्त्री रंहसा साकेतपुरं प्राप्य पर्वतं नृपमुवाच-"विन्ध्यशक्तये गुणमञ्जरी देहि । यत: स तव बन्धुभूतो याचते" । तेन च कुपितः पर्वतोऽब्रवीत्-"गुणमञ्जरी कस्मा अपि न दातुमुत्सहे । सा हि मम प्राणेभ्योऽपि प्रिया । किं बहुना, दासीमपि तस्मै न दास्यामि । तेन स मित्रममित्रं वाऽस्तु । उत्तिष्ठ, गच्छ, यथातथं तस्मै वद । दूता हि यथावस्थितवादिनो भवन्ति" । ततः स मन्त्री समागत्य विन्ध्यशक्तये सर्वं पर्वतवृत्तान्तं कथयामास । तच्छ्रुत्वा चाऽतिक्रुद्धो विन्ध्यशक्तिश्चिरभवां मैत्री छित्त्वा पर्वतं प्रति चचाल । पर्वतोऽपि च तज्ज्ञात्वाऽभिमुखं ससैन्य आजगाम । ततो द्वयोरप्यग्रसैन्यानां दारुणे युद्धे प्रवृत्ते रथारूढः पर्वतो धनुरास्फालयन् समरायोत्थितो युगपदेव बाणवर्षेण परसैन्यं तिरोदधे । ततश्च स्वसैन्ये भग्ने कालरात्रिरिव परान् संहर्तुमुत्थितः पर्वतसैन्यैरसह्यो विन्ध्यशक्तिः पर्वतमपि निरस्त्रं निर्वीर्यं च चक्रे । ततश्च तेनाऽभिभूतः पर्वतः पश्चादनवलोकयन् पलायिष्ट । विन्ध्यशक्तिश्च तस्य सर्वस्वं गुणमञ्जरी च गृहीत्वा निवृत्तो विन्ध्यपुरं ययौ । रणभग्नः पर्वतश्च तदादि कष्टं स्थितः संभवाचार्य १. अन्यत्र वासुपूज्य-पाश्वौं परिणीतौ इति वणितम् । Page #18 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व-द्वितीयः सर्गः ... . २३ पादान्ते परिव्रज्यां गृहीत्वा दुस्तपं तपः कुर्व "न्नपरे भवे विन्ध्यशक्तेर्वधायाऽहं भूयास"मिति निदानमकरोत् । अन्ते चाऽनशनेन मृत्वा प्राणते सुरोऽभवत् । विन्ध्यशक्तिश्चाऽपि चिरं भवं भ्रान्त्वैकत्र जन्मनि जिनलिङ्गमुपादाय मृत्वा कल्पामरो भूत्वा च्युत्वा च विजयपुरे श्रीधरभूपतेः श्रीमत्यां पत्न्यां तारको नाम सप्ततिधनुरुत्तुङ्गः श्यामवर्णो द्विसप्तत्यब्दलक्षायुरधभरतस्वामी प्रतिविष्णुरभवत् । ___इतश्च सुराष्ट्रेषु द्वारकायां पुर्यां ब्रह्मनृपस्य सुभद्रोमे द्वे प्रिये अभूताम् । पवनवेगजीवश्चाऽनुत्तरतश्च्युत्वा सुभद्रायाः कुक्षाववातरत् । तदानीं च सुखसुप्ता सा बलभद्रजन्मसूचकान् महास्वप्नांश्चतुरो दृष्टवती । पूर्णे समये चोत्पन्नस्य श्वेतवर्णस्य पुत्रस्य ब्रह्मनृपो विजय इत्याख्यामकार्षीत् । स च धात्रीभिाल्यमानः स्ववपुःश्रिया सह वर्धमानः सर्वेषां मोदप्रदोऽभवत् । प्राणताच्च च्युत्वा पर्वतजीव उमादेव्याः कुक्षाववातरत् । तदानीं च सा विष्णुजन्मसूचकान् सप्त स्वप्नान् मुखे प्रविशतो दृष्टवती । पूर्णे समये च सा श्यामवर्ण सुतमसूत । ब्रह्मनृपश्चाऽऽनन्दितः समहोत्सवं तस्य द्विपृष्ठ इति नामाऽकरोत् । ततश्च यथासमयं तौ बलभद्र-वासुदेवौ कलागुरोर्गृहीतकलौ ताल-गरुडध्वजौ नील-पीताम्बरधरौ बालावपि तारकस्याऽऽज्ञां न मेनाते । अथ चरसकाशात सिद्धविद्याभ्यां शास्त्रनिपणाभ्यां ताभ्यां स्वाज्ञावमाननां श्रुत्वा कोपतरलस्तारकोऽभियानाय सेनान्यमादिशत् । तेन च स "स ब्रह्मनृपस्तव मित्रं, विना निमित्तं तं प्रति यात्रा नोचिता । अतस्तस्य कश्चिदपराध उद्भाव्यतां, दूतं प्रेष्य तस्य प्राणेभ्योऽपि प्रियाणि वस्तूनि याच्यन्ताम् । न चेत् प्रदास्यति; तहि सोऽनेनाऽपराधेन वध्यः । यदि दास्यति, तदा छलान्तरमन्वेषणीय"मित्येवं निवेदितस्तन्मन्त्रमभिनन्द्य स तारको ब्रह्मणे दूतं प्रेषयामास । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सोऽपि दूतः शीघ्रं गत्वा सदसि स्थितं विजय-द्विपृष्ठाभ्यामन्वितं ब्रह्मनृपमुपेत्याऽवदत्-"भरतार्धाधीश्वरस्तारकस्त्वामादिशति-यत् किञ्चिदुत्तमं गजरत्नादिकं, तद् मम कृते प्रेष्यम् । दक्षिणे भरतार्धे यत् किञ्चिदुत्तमं तत् तदीश्वरस्य ममैव, नाऽपरस्य" । ततश्च कुपितेन द्विपृष्ठेन "न स मम स्वामी, स एव तानि मह्यं प्रयच्छतु । इतोऽधुनैव गच्छ । त्वत्स्वामिनः शिरसा समं तानि गजरत्नादीनि ग्रहीतुमस्मांस्तत्र समागतानेव विद्धि" इत्येवं निर्भत्सितो दूतः कुपितस्त्वरितं गत्वा तारकाय न्यवेदयत् । तारकश्च श्रुतया तया वासुदेवगिरा क्रुद्धः सैन्यैः सहाऽभिगच्छन्नर्धमार्गमलङ्घिष्ट । तस्याऽग्रत एव द्विपष्ठोऽपि ब्रह्मविजयाभ्यां सह ससैन्यो रणायोत्सुकः समाययौ । तयोश्च महासंहारकारणे युद्धे सम्प्रवृत्ते द्विपृष्ठो रथारूढः पाञ्चजन्यं शङ्खमवादयत् । तद्ध्वनेश्च त्रस्तान् सैनिकान् दृष्ट्वा यथा कथञ्चित् तान् निवर्त्य रथमारुह्य तारको द्विपष्ठमभ्याजगाम । विजयेन हल-मसलधारिणाऽन्वीयमानो द्विपृष्ठश्चाऽपि तारकमुक्तानि बाण-गदादीन्यस्त्राणि प्रत्यस्वैश्चिच्छेद । ___ततश्च तारकोऽत्यन्तं क्रुद्धश्चक्रं नभसि भ्रमयित्वा द्विपृष्ठाय मुमोच । चक्रतुम्बाग्रघातेन च वक्षसि ताडितः क्षणं मूच्छितो रथे पतितो विजयेन वीजितः क्षणाल्लब्धसंज्ञ: समीपस्थं तच्चक्रं नीत्वा भ्रमयित्वा च द्विपष्ठः प्रतिविष्णवे तारकाय मुमोच । तच्चक्रं च तारकशिरच्छित्त्वा वासुदेवकरे पुनः समापतत् । ततश्च द्विपृष्ठो यात्रारम्भेण तेनैवाऽशेषं दक्षिणभरतार्धं साधयित्वा मागध-वरदामप्रभासाधीश्वरानपि वशगान् कृत्वा दिग्यात्राया निवृत्तः । तत्र स मागधेषु कोटिनरोत्पाट्यां महाशिलां वामेन बाहुनोत्पाट्य तां पुनर्यथास्थानं निधाय कतिपयैदिनैभरकां प्रपेदे । तत्र च ब्रह्मनृपेण विजयेनाऽखिलैर्नृपैश्च सिंहासनासीनस्य तस्याऽर्धचक्रित्वाभिषेकश्चक्रे । ३शिष.भा-३ Page #19 -------------------------------------------------------------------------- ________________ चतुर्थ पर्व-द्वितीयः सर्गः २५ इतश्च मासं छद्मस्थो विहृत्य वासुपूज्यः प्रभुर्दीक्षोद्यानमागमत् । पाटलाया अधो द्वितीयशुक्लध्यानान्ते घातिकर्मसु त्रुटितेषु माघशुक्लद्वितीयायां शतभिषग्गते चन्द्रेऽमलं केवलमाप्तः प्रभुः दिव्ये समवसरणे देशनां व्यधात् । प्रभोः सूक्ष्मादीनां गणभृतां षट्षष्टिरभवत् । तथा तत्तीर्थे समुत्पन्ने हंसवाहनः श्वेतवर्णो दक्षिणाभ्यां बाहुभ्यां मातुलिङ्ग-बाणधरो वामाभ्यां च नकुल-धनुर्धरः कुमाराख्यो यक्षः, श्यामवर्णाऽश्ववाहना दक्षिणाभ्यां भुजाभ्यां वरद-शक्तिधरा वामाभ्यां च पुष्प-गदाधरा चन्द्रा नाम्नी देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । अन्येधुश्च सपरिवारो विहरन् प्रभुरकाया उद्याने चत्वारिंशदधिकाष्टशतधनुरुच्चाशोकपादपशोभिते देवैः कृते समवसरणे प्राङ्मुखो यथाविधि रत्नसिंहासनमुपाविशत् । देवादयश्चाऽपि यथास्थानमुपविविशुः। द्विपृष्ठचाऽपि सार्धद्वादशरूप्यकोटीर्वृत्तान्तनिवेदकाय दत्त्वा विजयेनाऽन्वितः समवसरणं प्राप्य यथाविधि यथास्थानमासाञ्चक्रे । भक्त्या स्तुत्वा च तूष्णीं स्थिते शक्रे भगवान् देशनामारेभे । ___ "अमुष्मिन् संसारसागरे कथञ्चिद् मानुष्यं प्राप्य नरैर्धर्मपरैर्भवितव्यम् । स च धर्मो जिनोत्तमैराख्यातो दशधा संयमादिः । यं समालम्बमानस्तत्र न मञ्जेत् । धर्मप्रभावत एव हि कल्पद्रुमाद्या अभीप्सितं ददति । अपारे दुःखसागरेऽतिवत्सल एकबन्धुः सदा सविधवर्ती धर्मो देहिनं पाति । धर्मस्य प्रभावादेवाऽम्भोधिर्महीं नाऽऽप्लावयति, अम्बुदश्च वर्षति । किं बहुना ? सूर्याचन्द्रमसावपि धर्मस्य शासनादेव विश्वोपकारायोदयेते । असौ ह्यबन्धूनां बन्धुरमित्राणां मित्रमनाथानां नाथश्च । स हि देहिनो नरकादिपातात् पाति । निरुपम सर्वज्ञवैभवमपि यच्छति । तं दशविधं धर्मं च मिथ्यादृशो न जानन्ति । क्वाऽपि कस्याऽपि तथोक्तिरपि वाग्विलासमात्रम् । क्रियायां वचने च साम्यं जिनमतस्पृशामेव । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः गोमेधादियज्ञकारिणां प्राणिघातिनां याज्ञिकानां कुतो धर्मः ? असद्भूतमश्रद्धेयं परस्परविरोधि च वस्तु प्रलपतां पुराणविधायिनां, परद्रव्यं जिघृक्षतां, मृदादिभिः शौचं कुर्वतां स्मार्त्तानाम्, ऋतुकालापगमे भ्रणहत्याविधायिनां, ब्रह्मचर्यापलापिनामदित्सतोऽपि यजमानात सर्वस्वं जिघृक्षतामार्थे प्राणान् त्यजतां ब्राह्मणानां, स्वल्पेऽप्यपराधे क्षणाच्छापं प्रयच्छतां लौकिकानामृषीणां च कुतः क्षमा-मार्दवादिधर्मलेश: ? अरक्त-द्विष्ट-मूढानां केवलज्ञानशालिनामर्हतामेव वचनं धर्मः । रागद्वेषदुष्टानां हि न सत्यवादिता, किन्तु वीतरागाणामर्हतामेव तत् । ____ इष्टापूर्तं कर्म कुर्वतां, पशुघातात् स्वर्गसौख्यमन्वेषयतां, ब्राह्मणभोजनैः पितृतृप्ति चिकीर्षतां, पञ्चस्वापत्सु पुनरुद्वाहकारिणां, क्षेत्रजाद्यपत्यवादिनां सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनां, श्रेयोबुद्ध्या छागमांसोपजीविनां, क्रत्वादिषु सुरापानविधायिनां, गवां स्पर्शतः शुचिमानिनां, जलादिस्नानमात्रेण पापशुद्धिवादिनां, वटादिवृक्ष पूजाविधायिनां, वह्नौ हवनेन देवप्रीणनवादिनां, जटादिधारिणाम्, अर्क-धत्तूरादिभिर्देवपूजाविधायिनां, गीत-नृत्यादिकुर्वताम्, असभ्यभाषापूर्वकं देवादीन् घ्नतां, व्रतभङ्गं विधाय दासत्वादिकमिच्छताम्, अनन्तकायकन्दाद्याशिनां, परिग्रहवतां, भक्ष्याभक्ष्यादिषु समात्मनां, कौलाचार्यान्तेवासिनामन्येषामपि च क्व धर्म: ? जैनेन्द्रस्याऽपि धर्मस्य यदत्राऽमुत्र वा फलं, तदानुषङ्गिकमेव, मुख्यं फलं तु मोक्ष एव" । एवं तां देशनां श्रुत्वा भूयांसो जनाः प्राव्रजन् । द्विपृष्ठः सम्यक्त्वं विजयश्च श्रावकत्वं प्राप । प्रथमपौरुष्यां व्यतीतायां प्रभौ देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायां सूक्ष्माख्ये गणधरे देशनाविरते प्रभुस्ततोऽन्यत्र विजहार । शक्रादयश्च निजनिजं स्थानं जग्मुः । तदानीं च प्रभोः परिवारे श्रमणानां द्वासप्ततिसहस्राणि, साध्वीनां लक्षमेकं, पूविणां द्वे शते सहस्रं च, अवधिमतां सचतुःशता पञ्चसहस्री, मनःपर्ययिणामेकषष्टिः शतानि, केवलिनां षष्टिः शतानि, Page #20 -------------------------------------------------------------------------- ________________ चतुर्थ पर्व-द्वितीयः सर्गः २७ जातवैक्रियलब्धीनां दश सहस्राणि, वादलब्धिमतां सप्तचत्वारिंशच्छतानि, श्रावकाणामुभे लक्षे पञ्चदश सहस्राणि च, श्राविकाणां सषट्त्रिंशत्सहस्रिका चतुर्लक्षी च मासोनं वर्षलक्षाणां चतुःपञ्चाशतमा केवलाद् विहरतोऽभवन् । अथ मोक्षमासन्नं ज्ञात्वा प्रभुश्चम्पामागत्य षड्भिर्मुनिशतैः सममनशनं प्रपद्य मासान्ते अषाढशुक्लचतुर्दश्यामुत्तरभद्रपदास्थे चन्द्रे सशिष्यः शिवमगात् । तदेवं प्रभोः कौमारेऽष्टादशाब्दलक्षाणि, व्रते चतुष्पञ्चाशदब्दलक्षाणीति मिलित्वा द्वासप्तत्यब्दलक्षमायुः । श्रेयांसप्रभुनिर्वाणाच्च सागरेषु चतुष्पञ्चाशत्यतीतेषु वासुपूज्यप्रभोनिर्वृतिरभूत् । द्विपृष्ठो वासुदेवोऽपि च महारम्भपरिग्रहो यथेच्छं भोगान् भुञ्जानो विपद्य षष्ठी नरकावनिं जगाम । द्विपृष्ठस्य कौमारे पादोनवर्जितमब्दलक्षं, माण्डलिकत्वेऽपि तावदेव, दिग्विजयेऽब्दशतं, राज्ये सप्तत्यब्दलक्षी नवशताधिकवत्सरैकोनपञ्चाशत्सहस्री चाऽऽयुः । विजयो बलभद्रोऽपि च पादोनकोटिवर्षायुः स्वभ्रातृस्नेहमोहितः कथञ्चिदेकाकी स्थितो भवविरक्तो विजयसूरिपादान्ते गृहीतदीक्ष: काले विपद्य शिवं जगाम ॥ २ ॥ इति चतुर्थे पर्वणि श्रीवासुपूज्य-द्विपृष्ठ-विजय-तारकवर्णनात्मको द्वितीयः सर्गः ॥२॥ तृतीयः सर्गः श्रीविमलनाथचरितम् कृतवर्मसुतः श्रीमान् श्यामायाः कुक्षिजो जिनः । विमलो विमलज्ञान-महिमा श्रेयसेऽस्तु वः ॥१॥ अथ धातकीखण्डे प्राग्विदेहेषु भरताख्ये विजये महपुयाँ नगर्यां पद्मसेनो नाम नृपो बभूव । स च जैनशासनपरायणो भवनिविण्णः सर्वगुप्तसूरिमुपेत्य दीक्षां गृहीत्वा सम्यग् व्रतं परिपालयन् कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपाय॑ चिरं तीव्र तपस्तप्त्वा विपद्य सहस्रारे महर्द्धिकोऽमरोऽभवत् । इतच जम्बूद्वीपे भरतक्षेत्रे चैत्यादिमण्डिते काम्पील्यपुरे कृतवर्मा नाम भूपतिरासीत् । तस्य च सर्वश्रीमत्याः पतिव्रतायाः श्यामानाम्न्याः पत्न्याः कुक्षौ स्वोत्कृष्टमायुः पूरयित्वा सहस्त्रारत: पद्मसेनजीवश्च्युत्वा वैशाखशुक्लद्वादश्यामुत्तरभाद्रपदास्थे चन्द्रेऽवातरत् । तदानीं च श्यामादेवी तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् दृष्टवती । पूर्णे काले च माघशुक्लतृतीयायामुत्तरभाद्रपदास्थे चन्द्रे शूकरचिह्न स्वर्णवर्णं सुतं सुखं सुषुवे । ततश्च षट्पञ्चाशद् दिक्कुमार्यः समुपेत्य यथाविधि सूतिकर्म चक्रुः । शक्रय स्वामिनं यथाविधि मेलं नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथोपचारं स्नात्रादि विधाय स्तुत्वा यथागतं गत्वा श्यामादेवीपार्वे मुक्त्वा स्वं धाम जगाम । प्रातश्च कृतवर्माऽपि समहोत्सवं 'गर्भस्थे तस्मिन् जननी विमला जाते'ति तस्य प्रभोविमल इत्याख्यामकरोत् । Page #21 -------------------------------------------------------------------------- ________________ ३० चतुर्थ पर्व-तृतीयः सर्गः सुरस्त्रीभिर्धात्रीभिाल्यमानश्च प्रभुः क्रमेण शैशवमतिक्रम्य यौवनं प्रपन्न: षष्टिधनुरुत्तुङ्गः पित्रोरुपरोधाद् नृपकन्या: परिणीय कौमारे पञ्चदशाब्दलक्षीमतीत्य पित्राज्ञया मेदिनीमशात् । त्रिंशति वर्षलक्षेषु गतेषु दीक्षोत्सुको लोकान्तिकामरैस्तीर्थप्रवर्त्तनाय प्रार्थितो वार्षिकदानं प्रदाय वासवैः कृतदीक्षाभिषेको देवदत्ताख्यां शिबिकामारुरोह स प्रभुः । सुरादिभिः परिवृतः सहस्राम्रवणमुपेत्य कृतषष्ठो नृपसहस्रेण समं माघशुक्लचतुर्थ्यां जन्मनक्षत्रे पञ्चमुष्टिकेशोत्पाटनपूर्वकं यथाविधि प्राव्राजीत् । द्वितीयेऽह्नि च धान्यकटपुरे जयाख्यनृपगृहे परमान्नेन पारणं विधाय छद्मस्थो ग्राम-पुरादिषु विहाराय प्रावर्तत । *** इतश्च जम्बूद्वीपेऽपरविदेहेष्वानन्दकाँ पुर्यां नन्दिसुमित्रनृपो जन्मतोऽपि भवोद्विग्नो राज्यं त्यक्त्वा सुव्रताचार्यपार्श्वे प्रव्रज्यामुपादाय दुश्चरं तपश्चरित्वाऽनशनं च कृत्वा विपद्याऽनुत्तरे सुरोऽभवत् । तथाऽत्रैव जम्बूद्वीपे भरतक्षेत्रे श्रावस्त्यां नगर्यां धनमित्रनृपस्याऽतिथिर्भूत्वा बलि म महीपतिरवात्सीत् । एकदा च तौ द्यूतं रममाणौ स्वस्वराज्यं पणीचक्रतुः । तत्र च हारितराज्यो धनमित्रनृपो रोरपुत्र इवाऽ श्रीकोऽवमाननां प्राप्त इतस्ततोऽटन् सुदर्शनमुनेर्देशनां श्रुतवान् । स प्रतिबुद्धस्तत्पार्श्वे प्रव्रज्यां गृहीत्वा चिरं पालयन् “भवान्तरेऽहं बलिभूपतेर्वधाय भूयास"मिति निदानं कृत्वाऽनशनेन मृत्वाऽच्युते कल्पे प्रकृष्टायुः सुरोऽभवत् । बलिश्चाऽपि यतिलिङ्गमुपादाय काले विपद्य महद्धिकोऽमरोऽभवत् । ततश्च्युत्वा च बलिजीवो भरतक्षेत्रे नन्दनपुरे समरकेसरिनृपस्य सुन्दाँ पत्न्यां श्यामवर्णः षष्टिधन्वोन्नतः षष्टिवत्सरलक्षायुरद्भुतविक्रमः सुतोऽभवत् । स चाऽऽवैताढ्यं भरतार्धशास्ताअर्धचक्रभृन्मेरकाख्यः प्रतिविष्णुर्बभूव । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च भरतक्षेत्रे द्वारकायां पुरि रुद्रो नाम महीपतिरासीत् । तस्य च श्री-पृथिव्याविव सुप्रभा पृथिवीति च द्वे पत्न्यावभूताम् । तत्र नन्दिसुमित्रस्य जीवोऽनुत्तरविमानतश्च्युत्वा सुप्रभादेव्याः कुक्षौ समवातरत् । सा च देवी सुखसुप्ता रात्रिशेषे बलभद्रजन्मसूचकांश्चतुरो महास्वप्नान् ददर्श । पूणे समये च सा सुप्रभादेवी चन्द्रवर्णं सुतं सुषुवे । रुद्रनृपश्च तस्य भद्र इति नामाऽकरोत् । धनमित्रस्य च जीवोऽच्युतकल्पतश्च्युत्वा पृथिवीदेव्याः कुक्षाववातरत् । तदानीं च सा वासुदेवजन्मसूचकान् सप्त महास्वप्नान् दृष्टवती । पूणे समये च श्यामवर्णं सुतमसूत । रुद्रभूपश्च तस्य समहोत्सवं स्वयम्भूरिति नामाऽकरोत् । तौ च बलभद्र-वासुदेवौ धात्रीभिः पाल्यमानौ क्रमशो वर्धमानौ सर्वेषु शास्त्रेषु शस्त्रेषु च कृताभ्यासावेकदा पुरीपरिसरे क्रीडन्तौ हस्त्यश्वादिसमग्रं सारक्षं शिबिरमपश्यताम् ।। बलभद्रेण 'केनेदं प्रेष्यते'ति पृष्टः सचिवो जगाद-"नृपेण शशिसौम्येनाऽर्धचक्रिणे मेरकाय दण्डे प्राभृतमिदं प्रेषितम्" । तच्छ्रुत्वा क्रुद्धः स्वयम्भूर्वासुदेवः 'सर्वमप्येतदाच्छिद्य गृह्यताम्, अस्मासु सत्स्वपि कोऽयं मेरको य: पार्थिवान् दण्डयति ? द्रष्टव्यं तस्य पौरुष'मिति भटानादिशत् । तैश्च वासुदेवभटैर्हन्यमानाः शशिसौम्यभटाः प्राणानादाय काकवत् प्रणेशुः । विष्णुना च तद्धस्त्यश्वादि सर्वमाददे । शशिसौम्यस्य भटाश्च पूत्कुर्वन्तो मेरकाय सर्वं वृत्तान्तं शशंसुः । तदाकर्ण्य परिक्रुद्धो मेरकोऽधिसभं जगाद-"रुद्रपुत्रेणाऽनात्मज्ञेन स्वमृत्यवे सर्वमिदं कृतम् । तं प्राभृतापहारिणं दस्युमिवैष हनिष्यामि" | तच्छृत्वैक: सचिवोऽवोचत्-"रुद्रपुत्राभ्यां बाल्यभावादिदं कृतम् । रुद्रेण चिरं सेवितोऽसि, ततो मा कुपः, प्रसीद, मामादिश, तदभयं च प्रयच्छ । अहं ततः सविशेष प्राभृतमानेष्यामि" । मेरकेण चोमित्युक्तः स द्रुतं द्वारकामुपेत्य भद्र-स्वयम्भूसहितं रुद्रनृपमभाषत"-नृपते ! तव पुत्राभ्यामज्ञानात् किमेतत् कृतम् ? Page #22 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वयम्भूदिग्यात्राया निवृत्तो मागधेषु कोटिनरोत्पाट्यां शिलां वामेन बाहुनोत्पाट्य तथैव तां न्यस्य च कतिपयैदिनैभरकां प्राप्तवान् । तत्र च तस्य रुद्रेण भद्रेणाऽपरैश्च पार्थिवैरर्धचक्रित्वाभिषेकः समहोत्सवं चक्रे। चतुर्थ पर्व-तृतीयः सर्गः एवमपि सर्वमर्म्यतां, यथा ते दोषो न भविष्यति" । तच्छ्रुत्वा विष्णुः स्वयम्भूरूचे-"स्वामिभक्त्या भवानिदं वक्ति, तत् साधु । धीरीभूय निरीक्षध्वम् । तस्येदं कियदाच्छिन्नम् ? सर्वामेव महीमाच्छेत्स्यामः । एकं तमेव मेरकं हत्वाऽहं स्वयमर्धभारतं भोक्ष्ये । अन्यैः कुट्टितैः किम्?" स्वयम्भुवस्तदुक्त्या विस्मितो भीतश्च स सचिवो द्रुतं गत्वा मेरकाय यथातथं सर्वं समाचख्यौ । ततोऽतिक्रुद्धो मेरकः सैन्यभारैः पृथिवीं कम्पयन् प्रतस्थे । स्वयम्भूरपि च रुद्रेण भद्रेण च समन्वितः कन्दरात केसरीव द्वारकापुर्याः प्रतस्थे । राहुसौरी इव चैकत्र तौ रुद्र-मेरको समीयतुः । ततः सैन्ययोर्दारुणे युद्धे प्रवृत्ते स्वयम्भूवादितपाञ्चजन्यध्वनिना मेरकसैनिकाः सिंहबूत्कारेण वारणा इव सुः । ततो मेरकः सैन्यान् संस्थाप्य स्वयं स्वयम्भुवमभि रथमारुह्य डुढौके । 'किं मुधा सैन्यसंहारेणे'ति वदन्तौ च तौ मिथो धनुरास्फाल्य बाणवृष्ट्या बाणवृष्टि निराकुर्वाणौ भयङ्करौ ददृशाते । मेरकश्च बाणैरजय्यं स्वयम्भुवं मत्वा गदादिष्वस्त्रेषु स्वयम्भुवा प्रत्यस्त्रैर्भस्मीकृतेषु रणपारं जिगमिषुश्चक्रं सस्मार । चक्रं च तस्य पाणावपतत् । ततो मेरको जगाद-"एष ते शीर्ष छेत्स्यामि, अधुनाऽपि गच्छ गच्छ” । ततः स्वयम्भुवा "मुक्त्वाऽपि चक्रं त्वया नष्टव्यमित्यद्याऽपि नश्यताम्, अथवा चक्रं मुञ्च, तबलमपि दृश्यतामित्युक्तो मेरकश्चक्रं व्योम्नि भ्रमयित्वा मुमोच । ततस्तच्चक्रतुम्बाग्रेणोरसि ताडित: स्वयम्भूर्मूच्छितः स्यन्दनोत्सङ्गे पपात । क्षणाच्च लब्धसंज्ञस्तिष्ठ तिष्ठेत्यरं वदन्नुत्थाय तदेव पार्श्वस्थं चक्रमादाय भ्रमयित्वा च मुमोच, मेरकस्य शीर्षं च लीलया चकर्त्त । तदैव च स्वयम्भुव उपरिष्टाद् दिव: पुष्पवृष्टिः पृथिवीपृष्ठे मेरकस्य कबन्धश्चाऽपतत् । तदैव च मेरकायत्तै पैः स्वयम्भूः शिश्रिये । ततो दक्षिणपाणिस्थं चक्रं दधद् भरतार्धं दक्षिणं साधयित्वा इतश्च वर्षद्वितयं छद्मस्थो विहृत्य विमलप्रभुर्दीक्षोपवनं सहस्राम्रवणमुपेतवान् । तत्र च जम्बूतले प्रभोरपूर्वकरणक्रमात् क्षपक श्रेण्यारूढस्य घातिकर्माणि तुत्रुटुः । पौषस्य सितषष्ठ्यामुत्तरभाद्रपदानक्षत्रे च प्रभोः षष्ठेन तपसा केवलज्ञानमुदभूत् । तत: प्रभुदिव्ये समवसरणे देशनां विदधे । प्रभोश्च मन्दरादय: सप्तपञ्चाशद् गणधरा अभूवन् । तत्तीर्थे च समुत्पन्ने श्वेतवर्णो मयूरवाहनो दक्षिणैर्बाहुभिः फलचक्रेषु-खड्ग-पाशा-ऽक्षसूत्रधरो वामैश्च नकुल-चक्र-कोदण्डफलकांशुका-ऽभयधरः षण्मुखाख्यो यक्षः, हरितालवर्णा पद्मारूढा दक्षिणाभ्यां बाहुभ्यां बाण-पाशधरा वामाभ्यां च कोदण्ड-नागधरा विदिताख्या देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ताभ्यां सहितश्च प्रभुस्तत: स्थानाद् महीं विजहार । अथ विहारेण प्रभुः पृथ्वी पुनानो द्वारवत्याः परिसरं प्राप्त: शक्राद्यैविहिते समवसरणे चैत्यप्रदक्षिणादिपूर्वकं रत्नसिंहासनमध्यतिष्ठत् । देवादयश्चाऽपि यथाद्वारं प्रविश्य यथास्थानमुपविविशुः । तदैव च द्वारकामागत्य राजपुरुषैः 'स्वामी समवसृत' इति निवेदित: स्वयम्भूरपि निवेदकेभ्यो रूप्यस्य सार्धद्वादशकोटी: पारितोषिकं प्रदाय भद्रेण सह समवसरणमेत्य प्रभुं प्रदक्षिणीकृत्य नत्वा चाऽनुशक्रं सभद्रः समुपाविशत् । ___ततः शक्रः स्तुत: प्रभुर्धर्मदेशनामारेभे-"अकामनिर्जरारूपात्पुण्यात् प्राणिनः कथञ्चन स्थावरत्वात् त्रसत्वं तिर्यक्त्वं वा प्रजायते । तत्र कर्मलाघवात् कथञ्चन मनुष्यत्वमार्यदेशः सर्वेन्द्रियपाटवमायुश्च प्राप्यते । पुण्यतः श्रद्धा-कथक-श्रवणेषु प्राप्तेष्वपि तत्त्वनिश्चयरूपं Page #23 -------------------------------------------------------------------------- ________________ ३३ चतुर्थ पर्व-तृतीयः सर्गः बोधिरत् सुदुर्लभम् । राज्यादिकं वा तथा न दुर्लभं, यथा बोधिः । सर्वजीवैः सर्वे भावा अनन्तश: प्राप्तपूर्वाः । बोधिस्तु न कदाऽपि प्राप्ता । कथमन्यथा तेषां भवभ्रमणम् । ___ इहाऽनन्तेषु पुद्गलपरावर्तेषु गतेषूपार्धे पुद्गलावर्ते शेषे सर्वेषां प्राणिनां सर्वेषां कर्मणां शेषेऽन्तःकोटीकोट्यवस्थितौ ग्रन्थिभेदात् कश्चिदेवोत्तमां बोधि लभते । केचिच्च यथाप्रवृत्तिकरणाद् ग्रन्थिसीमनि प्राप्ता अपि ततश्च्यवन्ति, भवं च पुनर्भमन्ति । कुशास्त्रश्रवणं, मिथ्यादृग्भिः सङ्गः, कुवासना, प्रमादशीलता च बोधिपरिपन्थिनः स्युः । यद्यपि चारित्रप्राप्तिरपि दुर्लभा कथिता । तथाऽपि सा बोधिप्राप्तौ सत्यां सफला, अन्यथा तु निष्फलैव । अभव्या अपि चारित्रं प्राप्य ग्रैवेयकावध्युत्पद्यन्ते, न तु विना बोधि निर्वृति प्राप्नुवन्ति । बोधिरत्ने ह्यप्राप्ते चक्रवर्त्यपि रङ्कतुल्यः । सम्प्राप्तबोधिरत्नस्तु रङ्कोऽपि ततोऽधिक: स्यात् । बोधि सम्प्राप्ता जीवा निर्ममत्वा भवे न रज्यन्ति । किन्त्वेकं मुक्तिमार्गमेव व्रजन्ति" । ईदृशीं च बोधिदां प्रभोधर्मदेशनां श्रुत्वा प्रबुद्धा बहवो जनाः प्राव्रजन् । स्वयम्भूः सम्यक्त्वं भद्रश्च श्रावकत्वं भेजे । ततः प्रथमपौरुष्यां पूर्णायां प्रभौ देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायां मन्दरे गणधरे देशनाविरते शक्रादयः प्रभुं नत्वा स्वं स्वं स्थानं ययुः । विमलस्वामी च लोकानुग्रहकाम्यया तत: स्थानात् सपरिवारः पुर-ग्रामादिषु विजहार । तदानीं च प्रभोः परीवारे श्रमणानामष्टषष्टिः सहस्राणि. आर्यिकाणामष्टभिः शतैरन्वितं लक्षमेकं, पूर्विणामेकादश शतानि, अवधिभृतामष्टचत्वारिंशच्छतानि, मनःपर्ययिणां पञ्चपञ्चाशच्छतानि, केवलिनामपि तावन्त्येव, जातवैक्रियलब्धीनां नवतिः शतानि, वादलब्धिमतां त्रिसहस्त्री द्विशती च, श्रावकाणां सहस्राष्टकसंयुते द्वे लक्षे, श्राविकाणां चतुस्त्रिशत्सहस्रयुक् चतुर्लक्षी चाऽभवन् । तथा प्रभुः सपरिवारो द्विवर्षोनां पञ्चदशाब्दलक्षी यावत् केवलात् परं विजहार । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो निर्वाणमासन्नं ज्ञात्वा सम्मेताद्रिं प्राप्य प्रभुः षड्भिः साधुसहस्त्रैः सहाऽनशनं प्रपद्य मासान्ते आषाढकृष्णसप्तम्यां पौष्णगे चन्द्रे तैर्मुनिभिः समं परमं पदं जगाम । शक्रादिभिश्च तत्रोपेत्य विमलस्वामिनो मुनीनां च निर्वाणमहिमा विदधे । तदेवं प्रभोः कौमारे पञ्चदशाब्दलक्षाः, राज्ये त्रिंशदब्दलक्षाः, व्रते पञ्चदशाब्दलक्षा इति मिलित्वा षष्ट्यब्दलक्षमायुरभूत् । श्रीवासुपूज्यनिर्वाणाच्च सागराणां त्रिंशति व्यतीतायां विमलस्वामिनिर्वृतिरभूत् । स्वयम्भूरपि चैश्वर्यमदेन परिलुप्तविवेकः क्रूरकर्मा षष्टि वत्सरलक्षाणि निजमायुः पूरयित्वा षष्ठी नरकावनि जगाम । तस्य च कौमारे द्वादशाब्दसहस्री, मण्डलिकत्वेऽपि तावदेव, दिग्जये नवत्यब्दी, राज्ये त्वेकोनषष्ट्यब्दलक्षाणि पञ्चसप्ततिसहस्राणि दशाधिकनवशतानि चाऽभूवन् । भद्रोऽपि च सोदरमरणेन विरक्तो मुनिचन्द्रमुनेः समीपे गृहीतव्रतो निजायूंषि षष्टिं पञ्च च वर्षलक्षाणि व्यतीत्य विपद्य परमं पदं प्रपेदे इति चतुर्थे पर्वणि श्रीविमलनाथ-स्वयम्भू-भद्रमेरकचरितवर्णनात्मकः तृतीयः सर्गः ॥३॥ Page #24 -------------------------------------------------------------------------- ________________ ३६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ययौ । पित्रा च प्रभोः “अस्मिन् गर्भस्थेऽनन्तं परबलं जित"मिति तस्याऽनन्तजिदिति नाम चक्रे । प्रभुश्च निजागुष्ठसुधां पिबन् वर्धमानः शैशवं व्यतीत्य पञ्चाशद् धनुरुत्तुङ्गो यौवनं प्रपद्य पित्राज्ञया दारपरिग्रहं कृत्वा जन्मत: सार्धसप्तलक्षेषु वर्षेषु गतेषु पित्रनुरोधेन राज्यभारमुपाददे । तथा पञ्चदशवर्षलक्षान् यावद् वसुन्धरां पालयित्वा दीक्षोत्सुको लोकान्तिकामरैः प्रार्थितः शक्राज्ञप्तकुबेरप्रेरितजृम्भकसुरैः पूर्यमाणवित्तो वार्षिकदानं प्रददौ प्रभुः । सुरादिभिः कृतदीक्षाभिषेकः सागरदत्ताख्यां शिबिकामारुह्य सुरासुरादिभिरन्वीयमानः सहस्राम्रवणं प्राप्य कृतषष्ठो वैशाखकृष्णचतुर्दश्यां रेवतीस्थे चन्द्रे नृपसहस्रेण समं प्राव्राजीत् । इन्द्रादयश्च स्वामिनं नत्वा स्वं स्वं स्थानं ययुः । प्रभुश्च द्वितीयदिवसे वर्धमानपुरे विजयनृपगृहे परमान्नेन पारणं विधाय छद्मस्थः परीषहान् सहमानो विजहार । चतुर्थः सर्गः श्रीअनन्तजिनचरितम् तत्त्वार्थबोधने दक्षः सुयशःसिंहसेनभूः । सिद्धानन्तचतुष्को यो जिनोऽनन्तः श्रियेऽस्तु सः ॥ १ ॥ अथ धातकीखण्डे प्राग्विदेहेष्वैरावताख्ये विजयेऽरिष्टनाम्न्यां नगयाँ द्विषन्तपः समस्तपृथिवीशासको मोक्षश्रीसाधनोत्सुको विषयविरक्तः पद्मरथो नाम नृपो नीत्या प्रजाः पालयति स्म । सः कञ्चित्कालमतिवाह्य चित्तरक्षगुरोर्दीक्षामुपादायाऽर्हद्भक्त्यादिभिः स्थानकैस्तीर्थकृन्नामकर्मोपाये मृत्वा प्राणतकल्पस्य पुष्पोत्तरे सुरोऽभवत् । इतश्च जम्बूद्वीपे दक्षिणभरतार्धेऽयोध्यायां पुरि सिंहपराक्रमः सिंहसेनो नाम नृप आसीत् । तस्य च धर्मा-ऽर्थ-कामानविरोधेन सेवयतो धर्मवासभूमिः शीलसम्पन्ना सर्वाङ्गरम्या सुयशा नाम्नी भार्या बभूव । तस्याश्च कुक्षौ प्रकृष्टमायुः पूरयित्वा प्राणताच्च्युत्वा पद्मोत्तरजीवः श्रावणकृष्णसप्तम्यां रेवतीस्थे चन्द्रेऽवातरत् । तदानीं च सा तीर्थकृज्जन्मसूचकान् गजादींश्चतुर्दश महास्वप्नान् सुखसुप्ता निशाशेषे दृष्टवती । पूणे समये च वैशाखकृष्णत्रयोदश्यां रेवतीस्थे चन्द्रे सुवर्णवर्णं श्येनलाञ्छनं सुतं सुखं सुषुवे । ___ ततः षट्पञ्चाशद् दिक्कुमार्यः समेत्य तस्याऽर्हतो यथाविधि सूतिकर्म चक्रिरे । शक्रश्चोपेत्य प्रभुं मेरौ नीत्वा सर्वैरिन्द्रादिभिः सह तत्र यथाविधि स्नात्रं विधाय स्तुत्वा पुनः प्रभुं नीत्वा सुयशोदेव्या: पार्वे मुक्त्वा नन्दीश्वरे शाश्वतार्हत्प्रतिमाष्टाह्निकोत्सवविधानपूर्वकं स्वस्थानं इतश्च जम्बूद्वीपे प्राग्विदेहेषु नन्दपुर्यां महाबलो नृपः संसारवासवैराग्यं मनसि धारयन् वृषभर्षिपादमूले गत्वा पञ्चमुष्टिकेशोत्पाटनपूर्वकं चारित्रं प्रतिपद्य चिरं पालयित्वा विपद्य सहस्रारेऽमरोऽभवत् । तथा जम्बूद्वीपे भरतक्षेत्रे कौशाम्बीनगर्यां समुद्रदत्तनामा नृप आसीत् । तस्य च रूपगुणसम्पन्ना नन्दानाम्नी भार्याऽऽसीत् । एकदा च तस्य गहे तन्मित्रं मलयभूनाथश्चण्डशासनः समाययौ । समुद्रदत्तश्च महत्या प्रीत्या सादरं सोदरमिव तं सपरिच्छदं निजसद्मन्यभोजयत् । स च चण्डशासनस्तत्र मृगाक्षी नयनानन्दकारिणी नन्दां दृष्ट्वा कामातॊ जातः । समुद्रदत्तगृहे कृतवासश्च रोगात इव स्मरज्वरपीडितो निशास्वपि निद्रां न लेभे । मन्दमति: सोऽनुदिनं नन्दाप्राप्त्युपायांश्चिन्तयन् मित्रव्याजेन कञ्चित्कालं निनाय । Page #25 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व-चतुर्थः सर्गः ३७ अथाऽन्यदा स विश्वस्ते समुद्रदत्ते शकुनी रत्नावलिमिव नन्दामपहत्य निजनगरं जगाम । समुद्रदत्तश्च रक्षसेव बलिना छलिना च हृतां तां नन्दा प्रत्याहर्तुमसमर्थः परमं वैराग्यं प्राप्य श्रेयांसमुनिसन्निधौ दीक्षां प्रपद्याऽत्युग्रं तपः कुर्वन् 'अस्य तपसः प्रभावेण नन्दाहर्तुर्वधाय स्या'मिति कृतनिदानो विपद्य सहस्रारे सुरोऽभवत् । चण्डशासनोऽपि च कालक्रमाद् मृत्वाऽनेकयोनिषु भ्रान्त्वा भरतक्षेत्रे पृथ्वीपुरे विलासभूपतेर्गुणवती नाम्न्यां पत्न्यां मधुनामा सुतोऽभवत् । स च मधुस्तमालपुष्पच्छविस्त्रिंशद्वर्षलक्षायुः पञ्चाशद्धनुरुत्तुङ्गो महाबाहुर्महावीर्यः पूर्वेषां शस्त्राशस्त्रिकथां श्रुत्वा प्रतिमल्लमप्राप्नुवन् त्रिखण्डं भरतवर्षाधं लीलया जित्वा चतुर्थः प्रत्यर्धचक्री बभूव । तथाऽसमानपराक्रमो वैरिश्रीभोगलम्पटः कैटभो नाम तस्य सोदरश्चाऽऽसीत् । तस्मिन्नेव समये च द्वारकायां गुणैः सोमसूर्यसमः सोमो नाम नृपो बभूव । तस्य च गुण-शीलसम्पन्ने सुदर्शना सीता च द्वे पत्न्यावभूताम् । तत्र सुदर्शनादेव्याः कुक्षौ सहस्रारान्महाबलजीवश्च्युत्वाऽवातरत् । तदा च सा रात्रिशेषे बलभद्रजन्मसूचकांश्चतुरो महास्वप्नान् दृष्टवती । पूर्णे समये च श्वेतवर्णं सुतं सुखमसूत । सोमनृपश्च याचकेभ्यो धनं प्रयच्छन् समहोत्सवं तस्य सुप्रभ इति नामाऽकरोत् । सीतादेव्याः कुक्षौ च पूर्णायुः समुद्रदत्तजीवः सहस्राराच्च्युत्वाऽवातरत् । तदानीं च सा सुखसुप्ता रात्रिशेषे विष्णुजन्मसूचकान् सप्त महास्वप्नान् दृष्टवती । सम्पूर्णे च समये श्यामवर्ण सर्वलक्षणलक्षितं तनयं जनयामास । तस्य च चतुर्थस्य वासुदेवस्य सोमनृपः समहोत्सवं पुरुषोत्तम इति नामाऽकरोत् । नील-पीताम्बरौ तालगरुड-ध्वजौ महाभुजौ तौ सुप्रभपुरुषोत्तमौ प्रीत्या युगलिकाविव सहचरावभाताम् । पूर्वजन्मप्रभावतश्च तावाचार्य निमित्तीकृत्य सर्वाः कला जगृहतुः । श्रीलीलावने महापराक्रमौ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तौ क्रमेणाऽङ्गपावनं यौवनं प्रपेदाते । देवैश्च तयोर्बलभद्रस्य हलादीनि वासुदेवस्य च शामदीनि रत्नानि ददिरे । ___ अथ कलहकौतुकी नारदो महाबलौ तौ सुप्रभ-पुरुषोत्तमौ दृष्ट्वोत्पत्य प्रतिविष्णोर्मधोर्धाम जगाम । तं च पूजयित्वा नमस्कृत्य स्वागतादि विधाय मधुरुवाच-"दिष्ट्याऽद्य नो दृष्टिपथेऽसि, भरतार्धभूभुजो मागधेशाद्याः सर्वेऽपि मदीयाः किङ्कराः । तद्येन वस्तुना देशेन वा तव यत् प्रयोजनं, तद् ब्रूहि, यथा निःशङ्क ते यच्छामि"। ततो नारदोऽब्रवीत्-"भरतार्धेश ! क्रीडयाऽत्राऽहमागमम् । न मे किमपि प्रयोजनमस्ति । किन्तु त्वं मुधैव विकत्थसे, बन्दिना स्तुतिन क्वचित् सर्वाऽपि यथार्था भवति । अर्थलोभादर्थिजनेन स्तूयमानेन धीमता लज्जितव्यं, न तु प्रत्येतव्यम् । वसुन्धरा हि बहुरत्ना, यतोऽत्र बलिभ्योऽपि बलितमा, महद्भयोऽपि महत्तमा दृश्यन्ते" । तच्छ्रुत्वाऽन्तःकुपितो मधुर्नारदं प्रत्यभाषत-"अत्र भरतार्धे गङ्गात: का महती नदी ? वैताढ्यात् को महानद्रिः ? कच मत्तो बलाधिकः? यं बलीयांसं मन्यसे, तमाख्याहि, येन क्षणात् तबलं ते दर्शयामि । कि केनाऽपि प्रमत्तेनाऽद्याऽवज्ञातोऽसि, येन तस्याऽद्य स्तुतिव्याजेन वधं विधित्ससि ?" ततो नारद उवाच-"नाऽहं कस्याऽपि प्रमत्तस्य पार्श्व गच्छामि, तन्मे कथं तदवज्ञा स्यात् ? यदद्य निजपर्षदि भरतार्धेश्वरोऽस्मीत्यवादीस्तद् भूयो मा वादीः, यतस्तत् ते हसाय भवेत् । किं त्वया द्वारकायां सोमनृपस्य तनयौ सुप्रभ-पुरुषोत्तमौ जनश्रुत्याऽपि न श्रुतौ ? ताभ्यां महाबाहुबलाभ्यामधिष्ठितेऽत्र भरतेऽज्ञानात् कथं मदान्ध इव गर्जसि ?" तच्छ्रुत्वाऽत्यन्तं कुपितो मधुरुवाच-"यदि तव वचः सत्यं, तर्हि सोऽद्यैव रणं भवानिव द्रष्टुं निमन्त्र्यते मया । त्वं तैः शून्यं द्वारकाराज्यं पश्य" । Page #26 -------------------------------------------------------------------------- ________________ ४० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मुक्त्वा च तालतरोः फलमिव मधोः शिरो भूमावपातयत् । पुरुषोत्तमसेनान्या च महाभट: कैटभोऽपि जघ्ने । मध्वाश्रितैर्भूपैश्च सद्य: पुरुषोत्तमः शिश्रिये । ततो मागधेशादिसहितं दक्षिणभरतार्धं साधयित्वा कोटिनरोत्पाट्यां शिलां लीलयोत्पाट्य यथास्थिति मुक्त्वा च वासुदेवः स्वपुरीं द्वारकां समाययौ । तत्र च सोमेन बलभद्रेणाऽपरैर्भूपैश्च परया मुदा तस्याऽर्धचक्रित्वाभिषेकश्चक्रे । चतुर्थ पर्व-चतुर्थः सर्गः एवमुक्त्वा नारदं विसृज्य स मधुर्दूतं रहस्यनुशिष्य ससुतं सोमं प्रति प्राहिणोत् । दूतश्च सद्यो गत्वा सौजस्क: सोममब्रवीत्-"महापराक्रमो भरतार्धस्वामी प्रचण्डशासनो मधुस्त्वां शासितुं मां प्राहिणोत्, तच्छृयताम्-त्वं भक्तिकारीति पुरा जानामि, यदि त्वं स एवाऽसि, तर्हि स्वामिने दण्डः प्रेष्यताम् । अन्यथा तव सर्वस्वं यास्यति । सम्पदो दूरे सन्तु, स्वामिनि कुपिते कलत्र-पुत्रादिजीवितमपि न स्यात् । तत्स्वामिन आदेशं कृत्वा देशं यथास्थिति शाधि" । तच्छ्रुत्वा रोषारुणनेत्रः पुरुषोत्तमो बभाषे-"दूतत्वेन कद्वदोऽपि त्वमवध्योऽसि । स तव स्वामी न मया कदापि स्वामित्वेन प्रतिपन्न: । गच्छ, स्वस्वामिनं दण्डकामिनं रणायाऽऽनय । तस्य प्राणैः सह श्रियमपि दासीमिव हठादादास्ये" । पुरुषोत्तमेनैवमुक्तः स दूतो रुषितो गत्वा दुर्वचमपि तद्वचः सर्वं मधवेऽशंसत् । तच्छृत्वा च कुपितो मधुः क्षणाद् यात्राभेरी वादयित्वा सैन्यपरिवृतः प्रस्थाय दुनिमित्तशकुनान्यप्यविगणय्य द्रुतं देशसीमां ययौ । पुरुषोत्तमोऽपि च तदानीमेव सोम-सुप्रभसैन्यादिपरिवृतस्तत्कालं तत्र समागात् । तत्र च तयोः सैन्ययोस्तुमुले युद्धे प्रवृत्ते मधुसैन्येन पुरुषोत्तम सैन्यं क्षणादेवाऽभाञ्जि । तत: सुप्रभेणाऽन्वीयमानः पुरुषोत्तमः पाञ्चजन्यमवादयत् । तच्छङ्घनादेन च मधुसैनिकास्तत्कालं सुः । केऽपि मुमूर्छ:, केपि भूतले पेतुश्च । इत्थं स्वसैन्यं विधुरमालोक्य मधुरपि स्वं धनुरास्फालयन् पुरुषोत्तममाह्यस्त । तयोश्च परस्परं शस्त्राशस्त्रियुद्धे प्रवृत्ते मिथःसाम्यकुपितो मधुः स्वविशेष दर्शयितुं चक्रं सस्मार । चक्रमपि च तत्कालं मधुपाणौ पपात । ततश्च तच्चक्रं भ्रमयित्वा मधुः पुरुषोत्तमं प्रति मुमोच । तच्चक्रतुम्बाग्रघातेन वक्षसि ताडितो मूच्छितश्च स्यन्दने पतित: सुप्रभेणोत्पत्य निजोत्सङ्गे धृतः क्षणाल्लब्धसंज्ञ: पुरुषोत्तमः समीपस्थं तच्चक्रमेवाऽऽदाय भ्रमयित्वा इतश्च त्रिवर्षी यावच्छद्मस्थो विहृत्याऽनन्तजित्प्रभुः सहस्राम्रवणमुद्यानं ययौ । तत्र चाऽशोकतरोस्तले ध्यानस्थस्य तस्य संसारस्य मर्माणीव घातिकर्माणि तुत्रुटुः । वैशाखकृष्णचतुर्दश्यां रेवतीस्थे चन्द्रे च कृतषष्ठस्य प्रभोरमलं केवलं समुदपद्यत । ततो दिव्ये समवसरणे प्रभुर्देशनां पञ्चाशतं यशःप्रभृतिकान् गणधरांश्चचक्रे । तत्तीर्थे च रक्तवर्णो मकरवाहनस्त्रिमुखो दक्षिणैर्बाहुभिः पद्मखड्ग-पाशधरो वामैश्च नकुल-फलका-ऽक्षसूत्रधरः पातालाख्यो यक्षः, पद्मवाहना गौराङ्गी दक्षिणाभ्यां बाहुभ्यां खड्ग-पाशधरा वामाभ्यां च फलका-ऽङ्कुशधराऽकुशानामदेवी च समुत्पन्ने शासनदेवते प्रभोः सन्निहिते अभूताम् । ताभ्यामुपासितश्च प्रभुर्महीं विजहार । अथ विहारक्रमेण प्रभुरवती प्राप्य शक्राद्यैर्विहिते समवसरणे षड्धनुःशतोत्तुङ्गचैत्यपादपसमन्विते पूर्वद्वारा प्रविश्य चैत्यवृक्षप्रदक्षिणातीर्थनमस्कारपूर्वकं रत्लसिंहासने प्राङ्मुखो न्यषदत् । श्रीसङ्घश्च यथास्थिति समुपाविशत् । ततः समवसृतचतुर्दशतीर्थनाथशंसकाय सार्धा द्वादश कोटी रूप्यस्य पारितोषिकं दत्त्वा बलभद्रयुतो वासुदेव: समागत्य प्रभुं प्रदक्षिणीकृत्य नत्वा चाऽनुशक्रमुपाविशत् । ततः शक्राद्यैः स्तुतोऽनन्तजित्प्रभुर्देशनां दातुमारेभे-"जन्तुरतत्त्वज्ञोऽमार्गज्ञ: ४शिष.भा-३ Page #27 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व चतुर्थः सर्गः ४१ पान्थ इवाऽस्मिन् संसारकान्तारे बम्भ्रमीति । तानि च तत्त्वानि जीवाजीवा - ऽऽ श्रव-संवर- निर्जरा-बन्ध-मोक्षाश्चेति सप्त । तत्र मुक्त संसारिभेदतो जीवो द्विधा । ते च सर्वे ज्ञान-दर्शनलक्षणा अनादिनिधनाः । तत्र मुक्ता अनन्तदर्शन-ज्ञान-वीर्याऽऽनन्दमया जन्मादिक्लेशवर्जिता एकस्वभावाः । संसारिणो जीवाश्च स्थावर त्रसभेदतो द्विधा । द्वावपि च तौ पर्याप्ताऽपर्याप्तभेदतो द्विविधौ । पर्याप्तयश्चाऽऽहार - शरीरेन्द्रिय-प्राण- भाषा मनांसीति षट् । तत्रैकेन्द्रियाणां चतस्रः, विकलेन्द्रियाणां पञ्च पञ्चेन्द्रियाणां च षट् पर्याप्तयो यथाक्रमं भवन्ति । एकेन्द्रियाश्च भूम्यप्तेजो-वायु-वनस्पतयः स्थावराः। तत्र भूम्यप्तेजो- वायुकायाश्चत्वारः सूक्ष्मा बादराश्च भवन्ति । वनस्पतयश्च प्रत्येकाः साधारणाश्चेति द्विप्रकाराः । तत्र प्रत्येका बादराः, साधारणाः सूक्ष्मा बादराश्च । त्रसा द्वि-त्रि- चतुःपञ्चेन्द्रियभेदैश्चतुर्विधाः । तत्र पञ्चेन्द्रियाः संज्ञिनोऽसंज्ञिनश्चेति द्विप्रकाराः । तत्र सम्प्रवृत्तमनः प्राणाः शिक्षोपदेशालापज्ञाः संज्ञिनोऽन्येऽसंज्ञिनः । स्पर्शन- रसन-प्राण-चक्षुःश्रोत्राणि पञ्चेन्द्रियाणि यथाक्रमं स्पर्श-रस- गन्ध-रूप- शब्दगोचराणि । कृमयो द्वीन्द्रियाः, ते च शङ्ख- गण्डूपद - जलौक:- कपर्दकशुक्तिकाद्या विविधाः । यूका मत्कुण मत्कोट- लिक्षाद्यास्त्रीन्द्रियाः । पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः । तिर्यग्योनिभवाः शेषा जलस्थल- खचारिणो, नारका, मानवा देवाश्च सर्वे पञ्चेन्द्रियाः । मनोभाषा - काय - बलत्रयमिन्द्रियपञ्चकमायुरुच्छ्वासनिःश्वासमिति दश प्राणाः । तत्र सर्वजीवेषु देहायुरुच्छासेन्द्रियाणि द्वीन्द्रियाणां देहायुरुच्छ्वासाः स्पर्शन - रसनेन्द्रियं भाषा चेति षट्, त्रिन्द्रिय- चतुरिन्द्रियाऽसंज्ञिपञ्चेन्द्रियाणां च क्रमात् स्वस्वेन्द्रियवृद्ध्या सप्ताऽष्टौ नव च प्राणाः। संज्ञिनां तु मन:सहिता दशाऽपि प्राणाः । देव-नारका उपपातभवाः, गर्भजा जरायु-पोता - ऽण्डभवाः । शेषाः सम्मूर्च्छनोद्भवाः । नारकाः सम्मूच्छिनश्च जीवाः पापा नपुंसकाश्च । ४२ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः देवा: स्त्री-पुंसवेदाः । परे वेदत्रयजुषः । सर्वे जीवा व्यवहारिणोऽव्यवहारिणश्चेति द्विविधाः । तत्र सूक्ष्मनिगोदा अव्यवहारिणोऽन्ये व्यवहारिणः । सचित्तोऽचित्तः सचित्ताचित्तः संवृतो विवृतः संवृतविवृतः, शीत उष्णः शीतोष्णश्चेति नवधा योनिरङ्गिनाम् । पृथिव्यप्तेजोवायुकायेषु प्रत्येकं सप्तलक्षा योनयः । प्रत्येकवनस्पतिकायेषु दशलक्षा:, अनन्तकायेषु साधारणवनस्पतिकायेषु चतुर्दशलक्षा योनयः । विकलेन्द्रियेषु षट्, मनुष्येषु चतुर्दश, नारक- तिर्यग्- देवेषु प्रत्येकं चतस्त्रश्च लक्षा योनयः । सङ्कलनया योनीनां चतुरुत्तराशीतिर्लक्षाणि । एकेन्द्रिया बादराः सूक्ष्माश्च, पञ्चेन्द्रियाः संज्ञिनोऽसंज्ञिनश्च, द्वि-त्रि- चतुरिन्द्रियाश्च सप्त पर्याप्ता सप्ताऽपर्याप्ताश्चेति चतुर्दशजीवस्थानानि । गतीन्द्रिय-काय - योग- वेद- ज्ञानानि, क्रोधादयः कषायाः, संयमा-ऽऽहार-दृग्-लेश्या-भव्य- सम्यक्त्व - संज्ञिनश्चतुर्दश मार्गणाः । मिथ्यादृष्टिः, सास्वादन - सम्यङ्मिथ्यादृशावविरतसम्यग्दृष्टिविरताविरतः, प्रमत्तोऽप्रमत्तो, निवृत्तिबादरोऽनिवृत्तिबादरः, सूक्ष्मसंपरायक, उपशान्तमोहः, क्षीणमोहः, सयोग्ययोगी चेति चतुर्दश गुणस्थानानि । मिथ्यादर्शनस्योदये मिथ्यादृष्टिः, एतस्य गुणस्थानकत्वं भद्रकत्वाद्यपेक्षया । मिथ्यात्वस्याऽनुदयेऽनन्तानुबन्ध्युदये सति सास्वादनसम्यग्दृष्टिरुत्कर्षात् षडावली: । सम्यक्त्व - मिथ्यात्वयोगाद् मुहूर्तं मिश्रदर्शनः । अप्रत्याख्यान कोदयेऽविरतसम्यग्दृष्टिः प्रत्याख्यानकोदये विरताविरतः । प्राप्तसंयमो यः प्रमाद्यति स प्रमत्तसंयतः । यः संयमी न प्रमाद्यति सोऽप्रमत्तसंयतः । उभावपि तौ परावृत्त्याऽऽन्तमौहूर्तिकौ स्याताम् । कर्मणामपूर्वस्थितिघातादिकरणादपूर्वकरणः स एव क्षपकः शमकश्च । यत्र मिथः परिणामा न निवर्तन्ते सोऽनिवृत्तिबादरः क्षपकः शमका । लोभाभिधसंपरायस्य सूक्ष्मकिट्टीकरणात् सूक्ष्मसंपरायः क्षपकः शमकश्च । मोहोपशमे उपशान्तमोहः । मोहस्य क्षये क्षीणमोहः । Page #28 -------------------------------------------------------------------------- ________________ चतुर्थ पर्व-चतुर्थः सर्गः घातिकर्मक्षयादुत्पन्नकेवल: सयोगिकेवली । योगानां च क्षयेऽयोगिकेवली, इति जीवतत्त्वम् । अजीवाः पुनर्धर्मा-ऽधर्मा-ऽऽकाश-काल-पुद्गलाः । जीवा अजीवाश्च द्रव्याणि । तत्र कालं विना सर्वे प्रदेशप्रचयात्मका: । जीवं विना च सर्वेऽचिद्रूपा अकर्त्तारश्च । तथा कालं विना सर्वेऽस्तिकायाः, पुद्गलं विना च सर्वेऽमूर्त्ताः । सर्वाणि च द्रव्याणि स्थित्युत्पादविगमात्मकानि । स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गला अणव: स्कन्धाश्चेति द्विविधाः । तत्राऽबद्धा अणवः । बद्धाः स्कन्धा गन्ध-शब्द-स्थौल्यसौम्या-ऽऽकृतिमन्तोऽन्धकारा-ऽऽतपो-द्योत-भेदच्छायात्मकाश्च कर्मकाय-मनो-भाषाचेष्टितोच्छ्वासदायिनः सुख-दुःख-जीवितमृत्यूपग्रहकारिणश्च । धर्मा-ऽधर्मी नभश्च प्रत्येकमेकद्रव्याणि निष्क्रियाण्यमूर्त्तानि सर्वदा स्थिराणि च । तथा धर्मा-ऽधर्मावेकजीवपरिमाणसङ्ग्यातीतप्रदेशको लोकाकाशमभिव्याप्य व्यवस्थितौ । तत्र धर्मः स्वयं गन्तुं प्रवृत्तेषु जीवा-ऽजीवेषु यादसां पानीयमिव सर्वत: सहकारी। अधर्मश्चाऽध्वगानां छायेव स्वयं स्थिति प्रपन्नानां जीवानां पुद्गलानां च सहकारी । आकाशमवकाशदं सर्वगं स्वप्रतिष्ठं लोकाऽलोको व्याप्य स्थितमनन्तप्रदेशभाक् च । लोकाकाशप्रदेशस्था भिन्ना ये कालाणवस्ते भावानां परिवर्तकारकत्वाद् मुख्यकाल: । ज्योतिःशास्त्रे यस्य समयादिकं मानमुच्यते, स व्यावहारिकः कालः । भुवने पदार्थानां नवजीर्णादिरूपेण परिवृत्तिः कालचेष्टितम् । कालादेव च पदार्था वर्तमाना अतीतत्वं भाविनो वर्तमानतां च प्रतिपद्यन्ते इत्यजीवतत्त्वम् । मनो-वचन-कायानां कर्म आश्रवः । शुभस्य हेतुः शुभोऽशुभस्य हेतुरशुभश्च इत्याश्रवतत्त्वम् । सर्वेषामाश्रवाणां रोधहेतुः संवरः । भवहेतूनां कर्मणां जरणाद् निर्जरा, इति संवर-निजरे तत्त्वे । ४४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सकषायतया जीवानां कर्मयोग्यपुद्गलादानं बन्धो जीवास्वातन्त्र्यकारणम् । अस्य बन्धस्य च प्रकृति-स्थित्य-नुभाव-प्रदेशाश्चत्वारः प्रकाराः। प्रकृतिस्तु स्वभावः, सा ज्ञानावरणाद्यष्टधा, ज्ञानदृष्ट्यावरणे वेद्यं मोहनीयाऽऽयुषी नाम-गोत्रा-ऽन्तरायाश्चेति मूलप्रकृतयः । जघन्यत उत्कर्षतश्च कर्मणां कालनियमः स्थितिः । अनुभवो विपाकः कर्मणाम् । कर्मणामंशप्रकल्पनं प्रदेशः । मिथ्यादृष्टिरविरतिः प्रमादः क्रुधादयो योगेन सह पञ्च बन्धहेतवः, इति बन्धतत्त्वम् । बन्धहेतूनां कर्मणामभावे घातिकर्मक्षये केवलोत्पत्तिः, ततः सर्वकर्मक्षये मोक्षः । मोक्षसुखस्य च सुरादिसुखमनन्तभागोऽपि न, इति मोक्षतत्त्वम् । एवं तत्त्वानि जानानो जनो जगति जातुचिद् न निमज्जति" । प्रभोरनन्तजित एवं देशनया प्रबुद्धा बहवो जनाः प्राव्रजन् । पुरुषोत्तमः सम्यक्त्वं सुप्रभश्च श्रावकत्वं भेजे । तत: प्रथमपौरुष्यां व्यतीतायां प्रभौ देशनाविरते द्वितीयस्यां च पौरुष्यां व्यतीतायां यशसि गणधरे च देशनाविरते सति शक्रादयः प्रभुं नत्वा स्वं स्वं धाम ययुः । प्रभुरपि च सपरिवारो भव्यजन्तून् प्रबोधयन् महीं विजहार । तदानीं च प्रभोः परीवारे श्रमणानां षट्षष्टिसहस्राणि, साध्वीनां द्वाषष्टिसहस्राणि, चतुर्दशपूर्वभृतां नवशतानि, अवधिज्ञानिनां चतु:सहस्त्री त्रिशती च, मन:पर्यायिणां पञ्चचत्वारिंशच्छतानि, केवलज्ञानिनां पञ्च सहस्राणि, जातवैक्रियलब्धीनामष्टौ सहस्राणि, वादलब्धिमतां त्रिसहस्री द्वे शते च, श्रावकाणां लक्षद्वयं षष्टिशतानि च, श्राविकाणां चतुर्लक्षी चतुर्दशसहस्री चाऽभवन् । प्रभुश्च केवलात् त्र्यब्दोनानि सार्धानि सप्ताब्दलक्षाणि महीं विजहार । ततः स्वमोक्षकालं ज्ञात्वा सम्मेताद्रिमागत्य प्रभुः साधुसप्तसहस्रया सहाऽनशनं प्रपद्य मासान्ते चैत्रशुक्लपञ्चम्यां रेवतीस्थे चन्द्रे तैर्मुनिभिः समं मोक्षं प्रपेदे । शक्रादयश्चैत्य तदानीं सशिष्यस्य प्रभोनिर्वाणमहोत्सवं चक्रिरे । Page #29 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व चतुर्थः सर्गः ४५ तदेवं प्रभोः कौमारे सार्धानि सप्ताब्दलक्षाणि राज्ये पञ्चदशवर्षलक्षाणि व्रते सार्धसप्तवर्षलक्षाणीति त्रिंशद्वर्षलक्षाण्यायुः । विमलस्वामिनिर्वाणाच्च नवसु सागरोपमेषु व्यतीतेषु चाऽनन्तजित्स्वामिनिर्वृतिरभूत् । पुरुषोत्तमो वासुदेवश्च त्रिंशद्वर्षलक्षायुरत्युग्रकर्मभिस्तमः प्रभाख्यां षष्ठीं नरकावनिं जगाम । तस्य च कौमारेऽब्दसप्तशती, मण्डलित्वे त्रयोदशवर्षशतानि, दिग्जयेऽशीतिवर्षाणि, राज्ये चाऽब्दानामेकोनत्रिंशल्लक्षी सप्तनवति सहस्री नवशती विंशतिश्चाऽऽयुः । सुप्रभञ्च बलभद्रः पञ्चपञ्चाशद्वर्षलक्षायुः स्वभ्रातुरवसानेन दुःखितो विरक्तो मृगाङ्कुशमुनिपार्श्वे आत्तव्रतः केवलं प्राप्य सिद्धानन्तचतुष्कः परमं पदं प्राप ॥ ४ ॥ इति चतुर्थे पर्वणि श्रीअनन्तजित्स्वामि- पुरुषोत्तम सुप्रभमधुचरितवर्णनात्मकश्चतुर्थः सर्गः ॥ ४ ॥ पञ्चमः सर्गः श्रीधर्मनाथचरितम् रत्नत्रयधरः श्रीमान् सुव्रता भानुनन्दनः । धर्मनाथः श्रियै भूयाद् धर्मचक्रप्रवर्त्तकः ॥ १ ॥ अथ धातकीखण्डद्वीपे प्राग्विदेहेषु भरतक्षेत्रे विशाले भद्रिलपुरे साम्राज्ये सत्यप्यनुत्सेकी विवेकी संसारवासेऽनास्थावान् दृढरथो नाम महीपतिरभवत् । स च भोगेषु विरक्तः शरीरेऽपि निःस्पृहः प्राज्यं राज्यं त्यक्त्वा विमलवाहनगुरोश्चारित्रमुपाददे । तथा समतां धारयन्, परीषहान् सहमानो, दुस्तपं तपस्तप्त्वा विषयदूषितमात्मानं पावयित्वाऽर्हद्भक्त्यादिभिः स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य काले समाहितो ऽनशनेन विपद्य वैजयन्ताख्ये विमाने महर्द्धिकः सुरोऽभवत् । इतश्च जम्बूद्वीपे भारते वर्षे सर्वतः समृद्धे रत्नपुरे पुरे तेजसा भानुमानिव गुणरत्नखानिः सार्वभौमो भानुर्नाम नृपो बभूव । तस्य च पतिभक्तिपरायणा पतिव्रताशिरोमणिः शीलादिगुणसम्पन्ना सुव्रतानाम्नी भार्याऽऽसीत् । तस्याः कुक्षौ च वैशाखशुक्लसप्तम्यां पुष्यस्थे चन्द्रे दृढरथजीवो निजमायुः पूरयित्वा वैजयन्ताच्च्युत्वाऽवातरत् । तदानीं च सा सुव्रतादेवी निशाशेषे सुखसुप्ता तीर्थकृज्जन्मसूचकान् गजादीन् महास्वप्नांश्चतुर्दश दृष्टवती । माघशुक्लतृतीयायां पुष्यस्थे चन्द्रे च स्वर्णवर्णं वज्रलाञ्छनं सुतं सुखमसूत । ततः षट्पञ्चाशद्दिक्कुमार्यश्च भोगङ्करादयस्तत्कालमेत्य स्वामिनः स्वामिमातुश्च सूतिकर्माणि यथाविधि चक्रुः । शक्रश्च समुपेत्य प्रभुं नीत्वा Page #30 -------------------------------------------------------------------------- ________________ चतुर्थ पर्व-पञ्चमः सर्गः मेरावतिपाण्डुकम्बलायां रत्नसिंहासने देवेन्द्रैर्देवैश्च सह यथाविधि स्नात्रादिकं विधाय स्तुत्वा पुनः प्रभमादाय सव्रतादेव्याः पार्वे यथास्थिति मुक्त्वा निजं धाम जगाम । प्रातश्च भाननपः समहोत्सवं "गर्भस्थेऽस्मिन् मातुर्धर्मविधौ दोहदोऽभू"दिति प्रभोधर्म इत्याख्यामकार्षीत् । ____ अथ प्रभुर्देवकुमारैः सह क्रीडन् शैशवमतीत्य पञ्चचत्वारिंशद्धनून्नतो यौवनं प्राप्तः पित्रोरुपरोधाद् दारपरिग्रहं चक्रे । जन्मतः सार्धे वर्षलक्षद्वये ऽतीते पित्रनुरोधतो राज्यभारमुपादाय वर्षाणां पञ्चलक्षाणि यावद् वसुधां पालयित्वा दीक्षोत्सुको लोकान्तिकामरैः प्रार्थितो वार्षिकदानं प्रददौ । देवेन्द्रैः कृतदीक्षाभिषेको नागदत्ताख्यां शिबिकामारुह्य सुरादिभिरनुसृतो रम्यं वप्रकाञ्चनमुद्यानं प्रविश्य माघशुक्लत्रयोदश्यां पुष्यस्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण समं प्राव्राजीत् प्रभुः । द्वितीयेऽह्नि च सौमनसे पुरे धर्मसिंहनृपगृहे परमान्नेन पारणं चकार । ततः स्थानाद् महीं विहर्तुं प्रावृतत् । ४८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुक्षौ चतुर्महास्वप्नसूचितबलभद्रजन्मो पुरुषवृषभजीवः सहस्राराच्च्युत्वाऽवातरत् । पूर्णे काले च सा विजयादेवी सुखं सुतं सुषुवे। शिवनृपश्च शुभेऽह्नि समहोत्सवं तस्य जातकस्य सुदर्शनत्वात् सुदर्शन इत्याख्यामकार्षीत् । विकटजीवोऽपीशानकल्पाच्च्युत्वा सप्तमहास्वप्नाख्यातविष्णुजन्माऽम्मकोदरे समवातरत् । साऽम्मकादेव्यपि सम्पूर्णे समये कृष्णवर्णं पूर्णलक्षणं सुतमसूत । शिवनृपोऽपि तस्य "एष पुरुषेषु पौरुषेण सिंह इवे"ति तस्य पुरुषसिंह इत्याख्यामकार्षीत् । धात्रीभिाल्यमानौ च तौ ताल-गरुडाङ्कौ नील-पीताम्बरौ परस्परं क्रीडन्तौ क्रमाद् वृद्धिमीयतुः । उपाध्यायं च साक्षिणं कृत्वा सर्वाः कला जगृहतुः । एवं क्रमेण च तौ कवचहरौ जातौ । अथाऽन्यदा कस्यचिदविनीतस्य सीमभूपतेः साधनाय शिवो भूपो बलभद्रं सुदर्शनं प्रेषीत् । पुरुषसिंहोऽपि च स्नेहात् कतिचित् प्रयाणानि तमनुययौ । ततो बलभद्रेण प्रत्यादिष्टो यूथभ्रष्टो द्वीप इव विष्णुः पुरुषसिंहस्तत्रैव कष्टमस्थात् । तत्र च विविधैर्विनोदैः कालं गमयति विष्णौ पितृसकाशादागतेन पुरुषेणाऽपितं लेखं मूाधाय तत्र 'शीघ्रमागच्छ वत्से'त्यक्षराणि वीक्ष्य स सम्भ्रान्तं 'मम पितुरम्बयोश्च कुशलं कच्चित्, किमर्थं मम शीघ्राह्वान'मिति च तं पुरुषमपृच्छत् । ततः पुरुषेण तेन 'दाहज्वरपीडितो देवस्त्वां सत्त्वरं समाह्वयती'त्युक्तो विषण्णः शीघ्रमेव ततो विष्णुः प्रस्थितः । द्वितीयेऽह्नि च स्वां नगरी प्राप्य वैद्यादिसंकुलं पितुः सदनं प्रविश्य पितुः पादौ प्रणम्य तद्दुःखदुःखितो जातः । शिवश्च सुतकरस्पर्शाद् बाढमाश्वस्तः पाणिना सुतं स्पृशन् “त्वं कथं खिन्नोऽसी"त्यपृच्छत् । तदा विष्णोः पुरुष उवाच-"देव ! तव दारुणामिमां दशां श्रुत्वा विष्णुः सद्यस्त्वां द्रष्टुं प्रस्थितोऽशन-पानादिकमकुर्वन्नेव द्वाभ्यां दिनाभ्यामत्राऽऽगतोऽस्ति" । तदाकर्ण्य द्विगणं दुःखभागवाच शिवः "त्वया किमनर्थान्तरं चक्रे? सपरिवारो गत्वा भोजनं कुरु । कायो इतश्च जम्बूद्वीपेऽपरविदेहेष्वशोकायां पुरि पुरुषवृषभो नृपः सदा संसाराद् विरक्तस्तात्त्विकः सात्त्विकश्च प्रजापालमुनेः पादमूले पर्यव्राजीत् । दुस्तपं च तपस्तप्त्वा काले विपद्याऽष्टादशसागरोपमायुः सहस्त्रारे सुरोऽभवत् । तस्य देवस्याऽऽयुषः षोडशसागरोपमेषु गतेष्विहैव पोतनपुरे विकटो नाम नृपो राजसिंहनाम्ना नृपेण रणे पराजितो लज्जित: स्वसुताय राज्यं दत्त्वाऽतिभूतिमुनिपार्वे व्रतमाददे । तीव्र तपस्तप्त्वा "भवान्तरे राजसिंहोच्छेदाय भवेय"मिति कृतनिदान: कालयोगाद् विपद्य द्विसागरोपमायुद्वितीये कल्पे सुरोऽभवत् सः । राजसिंहनृपश्चाऽपि चिरं भवं भ्रान्त्वा भरते हरिपुरे कृष्णवर्णः पञ्चचत्वारिंशद् धनुरुत्तुङ्गो दशवत्सरलक्षायुरुग्रशासनोऽपाग्भरतार्धशास्ता निशुम्भो नाम नृपोऽर्धचक्री प्रतिविष्णुरजायत । अत्रैव भरतेऽश्वपुरनगरे शिवैकास्पदस्य शिवनामनृपस्य कीर्तिश्रियाविव मूर्त्तिमत्यौ विजया-उम्मके पत्न्यावभूताम् । तत्र विजयायाः Page #31 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व पञ्चमः सर्गः ४९ भोजनादेव कार्यसाधको भवति" । एवं पित्रा समादिष्टो भुक्त्वा भूयः पितुः सदनं प्रविशन् द्वारस्थितयैक्या जनन्याऽग्रे भूत्वा सकरुणं व्यज्ञपि"कुमार ! परित्रायस्व, परित्रायस्व । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति । तदाकर्ण्य सम्भ्रान्तो मातुरालयं गत्वा "सर्वं कोशसर्वस्वं सप्तक्षेत्र्यामर्प्यताम् । महापथप्रस्थितानां हीदं प्रथमं पाथेयम् । पत्युर्विपत्तौ नाऽहं मनागपि वैधव्यदुःखसहा, अहं तदग्र एव यास्यामि, अनलो द्रुतं सज्यताम् " एवं ब्रुवाणां मातरं दृष्ट्वा समुपेत्य नत्वोवाच - "मातस्त्वमपि मां मन्दभाग्यं किं त्यजसि ? मम दैवमेव विरुद्धं यद्देव्यैवं प्रचक्रमे । तदाऽम्मादेव्युवाच - "विष्णो ! तज्ज्ञैः सम्यक् परीक्षितः । अयं रोगस्त्वत्तातस्य प्राणहर उपस्थितः । अहं विधवेत्यक्षराणि क्षणमपि श्रोतुं न क्षमा । ततस्त्वत्पितुरग्रतः कौसुम्भधारिणी यास्यामि । मम जन्म पत्या, पञ्चमेनाऽर्धचक्रिणा त्वया पुत्रेण च कृतार्थमभवत् । पत्युर्विपत्तौ मत्प्राणाः स्वयमेव यास्यन्ति । तानग्नौ प्रविश्य त्यक्ष्यामि । यथा मे हीनसत्त्वता मा भूत् । त्वं कुलाचारमाचरन्त्या मे अन्तरायो मा भूः । त्वं सुदर्शनेन समं नन्द" । एवमुक्त्वा साऽनलं प्रवेष्टुमचलत् । पुरुषसिंह्श्च दुःखानुबन्धिभिर्दुःखैः श्लथाङ्गः पितुः पार्श्वं गत्वा स्वां मातरं स्मरन् पितरं चाऽऽतुरं पश्यन् प्रतीकारासहो भुवि पपात । दाहज्वरार्तोऽपि राजा धैर्यमाश्रयन् बभाषे - "स्वकुलानुचितं कार्यं तव कुतः ? धैर्यं धेहि" । एवं पुरुषसिंहमाश्वास्य शिवाशयः शिवो नृपः सायं कालधर्मं ययौ । तच्छ्रुत्वा च मूच्छितः पृथिव्यां पतितः शीतोपचारैर्लब्धसंज्ञो विलपन् कथञ्चिद् धैर्यमाधाय पितुर्वह्निसंस्कारं विधाय निवापादि विधाय च स्वपर्षदि निषद्य पितुर्मृत्युसूचकं पत्रं सुदर्शनाय प्राहिणोत् । बलभद्रोऽपि तं प्रान्तभूपतिं साधयित्वा लेखेन दुःखार्त्तस्त्वरमाण: समागत्य भ्रात्रा सह मिलितवान् । ततो द्वावपि च चिरं विलपन्तौ गोत्रवृद्धैः प्रबोधितौ धैर्यमापतुः । त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः अथ तदानीमेव प्रत्यर्धचक्रिणो निशुम्भस्य दूतः समागत्य तौ नत्वा विज्ञपयामास - "लोकमुखाच्छिवराजं धर्मराजपथप्रस्थितं श्रुत्वा तद्भक्ति स्मरन् सशोको निशुम्भो मां वाचिकमुपदिश्य युष्मत्पार्श्वे प्राहिणोत् । अद्याऽपि युवां बालौ द्विड्भिर्मा परिभूतामितीह मामुपेत्य निरुपद्रवं तिष्ठतम् । युष्मत्पितृकृतभक्तिपरवशत्वाद् मया युवां लघीयांसौ गरीयांसौ विधातव्यौ" । ५० तच्छ्रुत्वा चोत्पन्नेन क्रोधेन बाधितशोको भ्रुकुटिं कुर्वन् पुरुषसिंह उवाच-यदि स इत्थं वाचकं न दद्यात् तर्हि तस्य शोको यथार्थः स्यात् । बालकस्याऽपि सिंहस्य को देशं प्रयच्छति ? कः प्रवर्धयति तम् ? कुतो वा तस्य पराभवः ? वयं न तत्सापेक्षा:, दोष्मतां दोष्णोरपेक्षैव" । एवमुक्तस्तेन स दूतः ससंरम्भमुत्थाय रभसेन गत्वा निशुम्भाय सर्वं यथातथमाख्यत् । तदाकर्ण्य क्रुद्धो निशुम्भः ससैन्योऽश्वपुरं प्रति प्रतस्थे । तं च प्रस्थितं श्रुत्वा पुरुषसिंहोऽपि ससुदर्शनः सद्य एव सैन्यैः सह प्रतस्थे । अर्धमार्ग एव च तौ निशुम्भ-पुरुषसिंहौ मिथः प्रमथनोद्यौ समगंसताम् । मिथः सैन्ययोर्द्वयोर्युद्धे प्रवृत्ते च रथस्थितेन विष्णुना पूरितपाञ्चजन्यध्वनिना परसैन्यानि सर्वतश्चक्षुभुः । तेन च क्रुद्धो निशुम्भो योद्धुं विष्णुमुपतस्थे । तौ च विष्णु-प्रतिविष्णू धनुरास्फालयन्तो सिंहनादैर्विद्याधरीस्त्रासयन्तौ बाणैरवर्षताम् । एवं नानाऽऽयुधैर्युध्यमानयोस्तयोः प्रतिविष्णुर्वज्री वज्रमिव चक्रं सस्मार । स्मृतिमात्रोपस्थितं च चक्रं भ्रमयित्वा सर्वौजसा विष्णुं प्रत्यमुचत् । तच्चक्रतुम्बाग्रेण वक्षसि ताडितश्च पुरुषसिंहो मूच्छितो भुवि पतितः सुदर्शनेन गोशीर्षचन्दनैः सिक्तो लब्धसंज्ञः सहसोत्थाय तदेव चक्रं पाणिनाऽऽदाय भ्रमयित्वा तेन निशुम्भस्य प्रतिविष्णोः शिरश्चकर्त । तदानीं च विष्णोस्तस्य मूर्ध्नि दिवः पुष्पवृष्टिः पपात । तथैव यात्रया च भरतार्धं साधयित्वा Page #32 -------------------------------------------------------------------------- ________________ ५१ चतुर्थं पर्व-पञ्चमः सर्गः मगधेषु प्राप्त: कोटिनरोत्पाट्यां शिलामुत्तोल्य यथास्थिति मुक्त्वा चाऽश्वपुरं समाययौ । तत्र च बलभद्रेणाऽन्यैर्नृपैश्च तस्य पुरुषसिंहस्याऽर्धचक्रित्वाभिषेकश्चक्रे । इतश्च भगवान् धर्मनाथश्छद्मस्थो वत्सरद्वयं विहृत्य दीक्षोपवनं वप्रकाञ्चनं प्राप्तवान् । दधिपर्णतले च ध्यानस्थस्य तस्य कृतषष्ठस्य पौषपूर्णिमायां रेवतीस्थे चन्द्रे केवलमत्पन्नम् । ततो दिव्ये समवसरणे देशनामरिष्टादीस्त्रिचत्वारिंशतं गणधरांश्च विदधे । तत्तीर्थे च समुत्पन्ने रक्तवर्णः कूर्मरथो दक्षिणैर्बाहुभिर्मातुलिङ्गगदा-ऽभयधरो वामैश्च नकुल-पद्मा-ऽक्षमालाधरः किन्नराख्यो यक्षः, गौराङ्गी मत्स्यवाहना दक्षिणाभ्यां बाहुभ्यामुत्पला-ऽङ्कुशधरा वामाभ्यां च पद्मा-ऽभयधरा कन्दर्पा नाम्नी देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ताभ्यां सेव्यमानश्च प्रभुमहीं विजहार । अथ विहारक्रमतो धर्मजिनोऽश्वपुरं प्राप्तो देवैः सद्यो विहिते समवसरणे चत्वारिंशत्पञ्चधन्वशतोच्च चैत्यपादपोपशोभिते प्रविश्य यथाविधि रत्नसिंहासनमध्यतिष्ठत् । सुरादयोऽपि च यथास्थानमुपविविशुः । आयुक्तपुरुषैविज्ञप्त: पुरुषसिंहोऽपि निवेदकाय सार्धद्वादशरूप्यकोटीदत्त्वा ससुदर्शनः समागत्य प्रभुं नत्वाऽनुशक्रमुपविवेश । ततः शक्रादयो भूयोऽपि स्वामिनं नत्वा भक्त्या स्तुत्वा च तूष्णीं विविशुः । ततो भगवान् धर्मस्वामी देशनां दातुं प्रारेभे-"चतुर्वर्गे मोक्षः प्रधानम् । तस्य च कारणं योगो ज्ञान-दर्शन-चारित्ररूपम् । तदेव रत्नत्रयं कथ्यते । तत्र तत्त्वानुगा मतिर्ज्ञानम् । सम्यक श्रद्धा दर्शनम् । सर्वसावधयोगानां त्यागश्चारित्रम् । अथवा यतेरात्मैव ज्ञान-दर्शनचारित्राणि । यत आत्मा ज्ञानाद्यात्मक एव शरीरमधितिष्ठति । यो मोहत्यागादात्मानमात्मना वेत्ति, तस्य तदेव चारित्रं ज्ञानं दर्शनं च । आत्मनोऽज्ञानेन जातं दुःखमात्मज्ञानेनैव नश्यति । अनात्मजैस्तपसाऽपि ५२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तच्छेत्तुं न शक्यते । चिद्रूपोऽयमात्मैव कर्मयोगतः शरीरी सन् ध्यानाग्निदग्धकर्मा निरञ्जनः सिद्धात्मा स्यात् । कषायेन्द्रियवश आत्मैव संसारः, तद्विजेता च स एव मोक्षः । कषायाः शरीरिणां क्रोध-मान-माया-लोभरूपाः । ते च प्रत्येक संज्वलनादिभेदैश्चतुर्विधाः । तत्र पक्षपर्यन्तं संज्वलनो वीतरागत्वघातको देवत्वप्रदः । मासचतुष्टयं यावत् प्रत्याख्यानो यतित्वघातको मनुष्यत्वप्रदः। वर्षं यावदप्रत्याख्यानक: श्राद्धत्वघातकस्तिर्यक्त्वप्रदः । जन्मपर्यन्तं च कषायोऽनन्तानुबन्धकः सम्यग्दृष्टित्वघातको नरकप्रदः । तत्र क्रोध उपतापको वैरस्य कारणं दुर्गतेार्ग: शमसुखनिरोधकश्च । स उत्पद्यमानः प्रथममग्निवत् स्वाश्रयमेव दहति, पश्चादन्यं दहति न वा । क्रोधाग्निीष्टवर्षानपूर्वकोटिवर्षाजितमपि तपस्तत्क्षणाद दहति । क्रोधविषसंसर्गाच्च प्राज्यपुण्यसञ्चितं शमरूपं दुग्धं तत्क्षणादेवाऽसेव्यं जायते । तथा क्रोधश्चारित्रमपि नाशयति । स किमकार्यं न करोति, क्रोधादेव द्वारकाविनाशोऽपि द्वैपायनसकाशाद् भावी । क्रुध्यतः कार्यसिद्धिर्हि न क्रोधादपि तु पूर्जितस्वकर्मणः खलु तत्फलम् । तदेवं शरीरिणः स्वलोकद्वयोच्छेदाय स्व-परार्थनाशायैव च शरीरेष क्रोधं दधति । क्रोधान्धा हि निर्दयाः सन्तः पित्रादीनपि घ्नन्ति । तस्मात् क्रोधवः शमनाय भव्यैः शीघ्रमेव क्षमाऽऽश्रयणीया । अपकारिजने च क्रोधः सत्त्वमाहात्म्याद् निरोढुं शक्यते । अथवा -"य: स्वपापमङ्गीकृत्य मां बाधितुमिच्छति, स स्वकर्मणैव निहतः, तस्मिन् कोपेनाऽलम् । दुःखहेतुः स्वकर्मैव कोपपात्रम् । यतः कर्मभिः प्रेरित एव कोऽपि मह्यं क्रुध्यति । भावी जिनो महावीरो हि क्षमार्थं म्लेच्छेषु यास्यति । तस्मादयत्नेनाऽऽगता क्षमैवाऽऽश्रयणीया । तथापुण्यं नाऽकृथाः, अतः कोऽपीदानी बाधते । तस्मात् स्वप्रमादं शोचन् क्षमामङ्गीकुरु । क्रुद्धस्य मुनेश्चाण्डालस्य च न किमप्यन्तरम् । क्रुद्धं मुनि त्यक्त्वा कूरगड्डुकमेव देवताः स्तुवन्ति । तस्मात् Page #33 -------------------------------------------------------------------------- ________________ ५३ चतुर्थं पर्व-पञ्चमः सर्गः सर्वपुरुषार्थचौरः कोप एव कोपपात्र"मित्यादिप्रकारया भावनया क्रोध जयेत् । ____ मानश्च विनय-श्रुत-शीलानां त्रिवर्गस्य च घातको विवेकलोचनं लुम्पन् नृणामन्धङ्करणः । किं च जाति-लाभ-कुलैश्वर्य-बल-रूपतप:-श्रुतैर्मदं कुर्वन् जनस्तानि हीनानि लभते । अनेकविधान् जातिभेदान् दृष्ट्वा कः सुधीर्जातिमदं कुर्वीत ? कर्मत एवोत्तमां हीनां वा जातिमाप्नोति । तदेवमनित्यां जातिमासाद्य न मदनीयम् । लाभश्चाऽन्तरायक्षयादेव जायते । तस्माल्लाभमदो न कर्तव्यः । नृपादिप्रसादादि भवे लाभे च को नाम मदः? तस्याऽन्याऽधीनत्वात् । अकुलीनानपि प्रज्ञाश्रीशीलशालिनश्च प्रेक्ष्य कुलमदो न कर्त्तव्यः । कुशीलस्य सुशीलस्य वा कुलेन किम् ? एवं विदंश्च सुधीः कुलमदं न विदध्यात्। तथा देवेन्द्रस्य त्रिभुवनैश्वर्यसम्पदं श्रुत्वा पुरादीनामैश्वर्ये कीदृशो मदः ? ऐश्वर्यं हि कुशीलस्त्रीव गुणवन्तमपि त्यजति, दोषवन्तमपि श्रयतीति न तद्विवेकिनां मदाय । महाबलोऽपि रोगादिभि: क्षणादेवाऽबलः क्रियत इत्यनित्यतया बलमदोऽपि पुंसां न युक्तम् । बलवन्तोऽपि वृद्धत्वे मृत्यौ कर्मफलभोगे चाऽबला एवेति बलमदो मुधैव । रूपमपि जरा-रुजादिना चयाऽपचयावाप्नोतीति रूपमदोऽपि न कार्यः । सनत्कुमारस्याऽपि रूपक्षयं भावि श्रुत्वा को विवेकी स्वप्नेऽपि रूपमदं कुर्यात् ? ऋषभप्रभोर्वीरजिनस्य च तपोनिष्ठां श्रुत्वा स्वकीये स्वल्पतपसि को मदमाश्रयेत् ? येन तपसा कर्माणि तरसा त्रट्यन्ति, तेनैव मदलिप्तेन तानि वर्धन्ते । तथाऽन्यैराचार्लीलया रचितानि शास्त्राणि किञ्चिद् ज्ञात्वा सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गान्येव खादति । तथा गणधरादीनां निर्माणधारणे श्रुत्वा कः सकर्णः श्रुतमदं श्रयेत ? दोषप्रसारको गुणनाशकश्च मानो मार्दवैर्दूरीकरणीयः । औद्धत्यनिषेधरूपा मृदुता मार्दवम् । मानश्चौद्धत्यमेव । तस्माद् मार्दवेन मानं ५४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जयेत् । मानाद् बद्धो हि बाहुबलिर्दिवाद् क्षणाद् मुक्त्वा सद्यः केवलं प्राप । तत: सर्वत्र मार्दवं कुर्यात्, पूज्येषु तु विशेषतः कुर्यात् । येन पूज्यपूजाव्यतिक्रमपापाद् विमुच्यते । चक्रवर्त्यपि विरतो मानच्छेदाय मार्दवमाश्रित्य वैरिणामपि गृहे भिक्षार्थं याति, रङ्कसाधवेऽपि नमस्यति, चिरं वरिवस्यति च । एवं मानदोषमशेषतो ज्ञात्वा तन्निरासाय धीमान् मार्दवमाश्रयेत् । माया चाऽसत्यमाता, शीलवृक्षस्य परशुरविद्याया जन्मभूमिर्दुर्गतिकारणं च । कुटिला बकवृत्तयः पापा मायिनो भुवनं वञ्चयमानाः स्वमेव वञ्चयन्ते । राजानो हि कूटेन षाड्गुण्यस्य सन्धिविग्रहादेः प्रयोगेणाऽर्थलोभाच्छलाद् विश्वस्तघातनादखिलं जगद् वञ्चयन्ते । तथा द्विजास्तिलकैर्मुद्रया मन्त्रैर्दीनताप्रदर्शनेन चाऽन्तःशून्या बहिःसारा जनं वञ्चयन्ति । पाखण्डाश्व जटादिधारणैः कृत्वा मुग्धं श्राद्धं वञ्चयन्ते । अननुरक्ताभिर्वेश्याभिश्च भाव-हावादिभिः कृत्वा जगद् वञ्च्यते । द्यूतकारैश्व कूटशपथादिभिर्धनवन्तः प्रतार्यन्ते । पितृ-पुत्रादयोऽपि माययाऽन्योन्यवञ्चका भवन्ति । लोभिनो निर्दया बन्धाद्याश्च प्रमादिनमहर्निशं छलयन्ति । शिल्पिनश्चाऽलीकशपथैः साधुवञ्चनं कुर्वते । व्यन्तरादयोऽपि प्रमादिनं बहविधैच्छलैर्बाधन्ते । मत्स्यादयोऽपि धीवरैर्जालहस्तैर्मायया बध्यन्ते । व्याधैश्च मृगादयो मायया बध्यन्ते विनाश्यन्ते च । पक्षिणोऽपि मायया बध्यन्ते। तदेवं परवञ्चकतातत्परा: स्वस्वधर्मं सद्गतिं च नाशयति । माया हि तिर्यग्योने/जं मोक्षान्तरायो विश्वासनाशिनी विवेकिभिहेयैव । मल्लिनाथोऽपि पूर्वभवे स्वल्पां मायां कृत्वा स्त्रीभावमुपयास्यति । तस्माज्जगद्द्रोहकरी मायामार्जवेन जयेत् । आर्जवं हि मुक्तिपुर्याः सरलः पन्थाः । आर्जविनो हि लोके प्रीतिकारणं भवन्ति । आर्जववतां भविनामपि मुक्तिसुखं स्वसम्वेद्यमेवाऽस्ति । विद्यायामधिगतायामप्याजवं धन्यानामेव जायते । ऋज्वालोचनया ह्यशेषमपि कर्म नश्यति । Page #34 -------------------------------------------------------------------------- ________________ ५६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः शक्रादयोऽर्हन्तं नत्वा स्वं स्वं धाम जग्मः । प्रभधर्मनाथजिनोऽपि सर्वातिशयसम्पन्नस्तत: स्थानाद् महीं विहत्तुं प्रववृत्ते । चतुर्थ पर्व-पञ्चमः सर्गः कुटिलयाऽऽलोचनया तु स्वल्पमपि कर्म विवर्धते । किं च मोक्ष ऋज्वात्मनामेव न तु कुटिलात्मनाम् । तस्माद् निर्वृतिकामनया जन एकामृजुतामेवाऽऽश्रयेत् । लोभश्च सर्वदोषाकरो गुणप्रतिपन्थी व्यसनमूलं च । दारिद्र्यात् क्रमश इन्द्रत्वेऽपि च प्राप्ते लोभो न निवर्तते । रोगाणां राजयक्ष्मेव लोभः सर्वपापानां मूलम् । द्रविणलोभेन द्वीन्द्रियादयोऽपि स्वकीयानि प्राग् निधानानि मूर्च्छयाऽधितिष्ठन्ति । भुजङ्गादयः पञ्चेन्द्रिया अपि धनलोभेन निधानस्थानभूमिषु वसन्ति । पिशाचादयोऽपि स्वकीयं परकीयं वा धनं लोभतोऽधितिष्ठन्ति । भूषणादिषु मूच्छिता देवा अपि च्युत्वा तत्रैव पृथिवीकायादियोनिषु जायन्ते। उपशान्तमोहत्वं प्राप्याऽपि यतयोऽपि लोभात् पतन्ति । सोदर्या अपि धनलोभात् परस्परं युध्यन्ते। लोभो हि यथा यथा पूर्यते तथा तथा वर्धत एव । लोभस्य त्यागेऽत्यागेऽपि वा तपोभिरप्यलम् । तस्माल्लोभस्यैकस्य हानाय मतिमान् सदा प्रयतेत । लोभश्च सन्तोषेण निवारणीयः । सन्तोषो हि सुराणामिन्द्र इव गुणानां प्रवरो गुणः । सन्तुष्टस्य यतेरसन्तुष्टस्य चक्रिणश्च सुख-दुःखे तुल्ये । चक्रिणोऽपि सन्तोषामृततृष्णया राज्यमुत्सृज्य निःसङ्गत्वं प्रतिपद्यन्ते । सन्तोषसिद्धावेव वैराग्यसिद्धिः । सन्तोषमात्रेणाऽपि हि मुक्तिश्रीर्लभ्यते । सन्तुष्टा हि जीवन्तोऽपि विमुक्ता एव । सन्तोषरहितं तीव्र तपोऽपि न कर्म नाशयितुं क्षमम् । तस्माल्लोभं निराकर्तुं सन्तोषमाश्रयेत् । एवं प्रकारेण जितकषायो जनोऽत्राऽपि शिवसौख्यभाक, परत्र चाऽवश्यमनश्वरं शिवसुखं प्राप्नोति" । प्रभोरेवं देशनां श्रुत्वा बहवो जनाः प्राव्रजन् । विष्णुः सम्यक्त्वं बलभद्रश्च श्रावकत्वं भेजे । ततः प्रथमपौरुष्यां पूर्णायां प्रभौ देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायामरिष्टे गणधरे देशनाविरते सति ५ विष.भा-३ तदानीं च प्रभोर्वर्षद्वितयहीनं सार्धं वर्षलक्षद्वयमाकेवलाद् विहरत: परीवारे श्रमणानां चतुष्षष्टिः सहस्राणि, साध्वीनां सचतुःशताद्वाषष्टिः सहस्राः, चतुर्दशपूर्वभृतां नवशतानि, अवधिज्ञानिनां त्रिसहस्त्री षट्शती च, मन:पर्ययिणां पञ्चचत्वारिंशच्छतानि, केवलज्ञानिनामपि च तावन्ति शतानि, जातवैक्रियलब्धीनां शतसप्ततिः, वादलब्धिमतां वे सहस्र अष्टौ शतानि च, श्रावकाणां चत्वारिंशत्सहस्रयुग्लक्षद्वयी, श्राविकाणां त्रयोदशसहस्रयुक्चतुर्लक्षी चाऽभवन् । अथ मोक्षसमयं ज्ञात्वा धर्मजिन: सम्मेताद्रिमुपेत्याऽष्टोत्तरेण मुनिशतेन सममनशनं प्रपद्य मासान्ते ज्येष्ठशुक्लपञ्चम्यां रेवतीस्थे चन्द्रे तैर्मुनिभिः समं परमं पदं प्रपेदे । शक्रादयः सुराश्च तत्क्षणं प्रभोनिर्वाणमहोत्सवं चक्रे। अनन्तस्वामिनिर्वाणाच्च चतुःसागरोपमेष्वतीतेषु धर्मनाथस्वामिनिर्वृतिर्जाता । तदेवं प्रभोः कौमारे सार्धाब्दलक्षे, राज्ये पञ्चाब्दलक्षी, व्रते सार्धा व्यब्दलक्षीत्येवं दशाब्दलक्षाण्यायुः । ___पुरुषसिंहोऽपि च तैस्तैहिस्रकर्मभिः पूर्णायुर्विपद्य षष्ठी नरकमेदिनीमगच्छत् । तस्य च कौमारे त्र्यब्दशती, माण्डलित्वेऽब्दानां सार्धानि द्वादशशतानि, दिग्जये सप्तत्यब्दी, राज्ये नव लक्षाण्यष्टानवतिः सहस्राणि त्रीणि शतान्यशीतिश्चेति दशाब्दलक्षाण्यायुः । बलभद्रश्च सुदर्शन: सप्तदशाब्दलक्षायुरनुजं विना दुःखितो विरक्तः कीर्तिमुनिपार्वे व्रतमादाय पूरितायुः परमं पदं प्राप ॥ ५ ॥ इति चतुर्थे पर्वणि श्रीधर्मनाथ-पुरुषसिंह-सुदर्शन-निशुम्भचरित वर्णनात्मकः पञ्चमः सर्गः ॥५॥ Page #35 -------------------------------------------------------------------------- ________________ ५८ षष्ठः सर्गः श्रीमघवचकवर्तिचरितम् अथाऽत्रैव भरते महीमण्डलपुरे वासुपूज्यजिनतीर्थे न्यायपरायणो दीनानाथपरिपालको धर्मैकबुद्धिरमरपतिपो राज्यं रुजमिवोत्सृज्य परिव्रज्यामादाय मूलोत्तरगुणैरन्वितश्चिरं व्रतं पालयित्वा विपद्य ग्रैवेयकेऽहमिन्द्रोऽभवत् । इतश्चाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे श्रावस्त्यां नगर्यां समुद्रविजयो नाम नृपो बभूव । तस्य च सर्वभद्रास्पदं भद्रानाम्नी भार्याऽऽसीत् । तया सह वैषयिकं सुखमनुभवतो नृपस्य कियानपि कालो व्यतीयाय । क्रमात् तस्याः कुक्षौ ग्रैवेयकस्थोऽमरपतिजीवः स्वमायुः पूरयित्वा च्युत्वाऽवातरत् । तदानीं च भद्रादेवी सुखसुप्ता निशाशेषे चक्रिजन्मसूचकान् चतुर्दशमहास्वप्नान् निजमुखे प्रविशतो दृष्टवती । पूणे समये च सुवर्णवर्णं सार्द्धद्विचत्वारिंशद्धनुरुन्नतं पुण्यलक्षणं सुतं सुखमसूत । तस्य च बालस्य समुद्रविजयो नृप: 'पृथिव्यामयं मघवेव भावी'ति मघवेत्याख्यां चक्रे । समुद्रविजयमनु च स जयी समुद्रवसनां पृथिवीं शशास । एकदा च तस्याऽस्त्रशालायां तेजस्वि चक्ररत्नं समुत्पेदे । तथा पुरोधः प्रभृतीन्यन्यान्यपि रत्नानि क्रमात् तस्य यथास्थानं जज्ञिरे । ततः स दिग्जिगीषयाऽनुचक्रं प्रस्थितो मागधतीर्थेशं प्राप्य स्वनामाङ्कबाणं दूतमिव प्राहिणोत् । मागधतीर्थेशश्चैत्य तस्य सेवामाश्रितवान् । तथा स दक्षिणस्यां वरदामेशं प्रतीच्या प्रभासेशं त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च देवं विजिग्ये । ततो दक्षिणं रोधो गत्वा सिन्धुदेवीं साधयित्वा वैताढ्यपर्वतमाप्य वैताढ्यकुमारं वशीकृत्य च तमिस्रागुहां प्राप्य तद्द्वारे स्थितं कृतमालदेवं प्रसाधितवान् । मघवचक्रिसमादेशाच्च सेनानीरत्नं चर्मरत्नेन सिन्धुमुत्तीर्य तस्याः सिन्धोः प्रत्यग्निष्कुटं वशीकृत्य पुनः समाययौ । तत: सेनान्या दण्डरत्नेन कपाटोद्घाटने कृते ससैन्यश्चक्री गजरत्नेन तां गुहां प्रविश्य काकिणीकृतमण्डलैर्गजदक्षिणकुम्भस्थमणिप्रभया च कृतालोको वर्धकिरलनिर्मितपद्ययोन्मग्न-निमग्ने नद्यावुत्तीर्य स्वयं विघटितकपाटेनोत्तरद्वारमार्गेण गहाया निरगात् । तत आपातनाम्नः किरातान् विधिवद् विजित्य सेनान्या सिन्धोः प्रत्यग्निष्कुटं स्वयं च हिमाचलकुमारान् साधयित्वा ऋषभनाम्नि कूटे काकिणीरत्नेन मघवा चक्रवर्तीति स्वनाम विलिलेख । ततो निवृत्त्य सेनान्या गङ्गायाः पूर्वनिष्कुटं स्वयं गङ्गां वशीकृत्य वैताढ्यपर्वतश्रेणिद्वयविद्याधरानपि साधयित्वा खण्डप्रपाताद्वारस्थं नाट्यमालं देवमधिकृत्य सेनान्युद्घाटितकपाटया खण्डप्रपातया वैताढ्यानिरगात् चक्री । गङ्गामुखनिवासिनो नैसर्पादीन् नवाऽपि निधीन् वशगान् विधाय सेनान्या गङ्गापश्चिमनिष्कुटं साधयित्वा षट्खण्डभरताधिप: सम्पूर्णचक्रिसामग्र्या शोभमानो मघवाऽमरावतीमिव श्रावस्ती समाजगाम । ततो देवैर्नृपैश्च यथाविधि तस्य चक्रवर्त्तित्वाभिषेको विदधे । स च द्वात्रिंशन्नृपसहस्रैः षोडशदेवसहस्रैर्नव निधिभिश्चतुष्षष्टिसहस्रैरन्तःपुरस्त्रीभिश्च सन्ततं सेवमानोऽपि प्रमादस्थानेष्वन्येष्वपि सत्सु च पित्र्ये श्रावकधर्मे जातु प्रमादी नाऽऽसीत् । स जिनबिम्बसनाथानि नानाविधानि चैत्यानि स्वर्णरत्नैर्व्यधत्त । तस्य चाऽर्हन् देवः, सुसाधु गुरुर्दयामयो धर्मश्चाऽजायत । स कदाऽपि चैत्यपूजासु नियमं न तत्याज। स श्रावकधर्मान्तकाले यथाविधि परिव्रज्यामुपात्तवान् । Page #36 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व-षष्ठः सर्गः तस्य कौमारे पञ्चविंशत्यब्दसहस्राणि, मण्डलित्वेऽपि तावत्येव, दिग्जये दश, चक्रित्वे त्र्यब्दलक्षी नवतिः सहस्रा च, व्रते च पञ्चाशदब्दसहस्राणीति जन्मत: पञ्चाब्दलक्षीमतिवाह्य पञ्चपरमेष्ठिन: स्मरन् पञ्चत्वमाप्य सनत्कुमारेऽमरवरी जातः ॥ ६ ॥ इति चतुर्थे पर्वणि श्रीमघवचक्रिचरितवर्णनात्मकः षष्ठः सर्गः ॥ ६ ॥ सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् अथेह भारते काञ्चनपुरे नगरे विक्रमयशा नाम प्रवरविक्रमो नृप आसीत् । तस्य चाऽन्तःपुरस्त्रीणां पञ्चशतान्यासन् । तदानीं तस्मिन्नेव पुरे सम्पदां निधानमिव महद्धिको नागदत्तो नाम सार्थवाह आसीत् । तस्य च रूप-सौभाग्य-लावण्यवती विष्णुश्रीनाम्नी भार्याऽऽसीत् । सा चैकदा काकतालीयन्यायेन कथमपि विक्रमयशोनृपदृष्टिगोचरा जाता । तां प्रेक्ष्य च कामवशो लुप्तविवेकः स नृपोऽचिन्तयत्"अदृष्टपूर्वमस्याः सर्वाङ्गसौन्दर्यम् । एतामपहत्य निजान्तःपुरं नेष्यामि"। एवं विचिन्त्य स नृपस्तां गृहीत्वाऽन्तःपुरमुपनीय सदा स्मरलीलाभी रमयामास । सार्थवाहो नागदत्तश्च तद्वियोगेन विधुरो दुःखेन कालं गमयामास । विष्णुश्रिया च रममाणे तस्मिन् नृपतौ क्रुद्धाः शुद्धान्तयोषित ईर्ष्णया कार्मणं चक्रुः । तेन च क्षणे क्षणे क्षीयमाणा सा गतजीविता जाता । नृपोऽपि तस्या मृत्युना जीवन्मृत इव स्थितो नागदत्त इव प्रलापी विलापी चाऽभवत् । स मृतामपि विष्णुश्रियं 'प्रिया ममैषा प्रणयतूष्णीके ति सन्ततं वदन्ननले क्षेप्तुं नाऽदत्त । ततो मन्त्रिणो मन्वयित्वा नृपं कथमपि वञ्चयित्वा विष्णुश्रियं नीत्वाऽरण्ये चिक्षिपुः । इतश्च नृपः तस्या वियोगेनोन्मत्त इव प्रलपन् तेषु तेषु स्थानेषु बभ्राम । त्यक्तान्न-पानवृत्ते राज्ञश्च त्र्यहे गतवति सचिवा नृपमरणाशङ्किनस्तस्या वपुरदर्शयन् । गलितमदर्शनीयं पूतिगन्धि च तस्या Page #37 -------------------------------------------------------------------------- ________________ ६१ ६२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चिरमचिन्तयच्च । भुक्ते च तस्मिन् द्विजे तत्पृष्ठात् पायसपात्री सपङ्केष्टिकेव मांसादिसहिता समुच्चख्ने । ततो जिनधर्मो गृहं गत्वा स्वकीयं सर्वमपि लोकमाहूय क्षमयित्वा चैत्यपूजां विधाय साधो: समीपम्पेत्य यथाविधि परिव्रज्यामुपादत्त । ततो नगराद् निर्गत्य शैलशृङ्गमधिरुह्याऽनशनं प्रपद्य पूर्वस्यां दिशि पार्श्वभागं कृत्वा कायोत्सर्ग विधायाऽपरास्वपि दिक्ष्वेवं कायोत्सर्ग विधाय गृध्रादिभिश्चञ्चुभिस्त्रोट्यमानोऽपि व्यथां सहमानो नमस्कारपरायणो विपद्य सौधर्मे कल्पे देवेन्द्रः समजायत । स त्रिदण्डिकोऽपि च मृत्वा शक्रस्य वाहनमैरावणो द्विपोऽभूत् । पूर्णायुश्च ततश्च्युत्वा त्रिदण्डिजीवो भवे भ्रान्त्वाऽसिताक्षो नाम यक्षराडभूत् । चतुर्थं पर्व-सप्तमः सर्गः विष्णुश्रियो वपुरवलोक्य विरक्तो नृपो विक्रमयशाश्चिन्तयामास'अहो ! असारे संसारे किमपि न सारम् । धिक् , सारबुद्ध्या कियच्चिरमेतस्यां मोहिताः स्मः । परमार्थवित् कश्चिदपि नारीभिर्न हियते । स्त्रियो ह्यन्तर्विविधमलदूषिता बही रम्याश्चर्मप्रसेविकातुल्याः । यदि हि स्त्रियो वपुषो बहिरन्तविपर्यासः स्यात् तदा कामुको गृद्धगोमायुसमर्पणमेव कुर्यात् । कामो हि स्त्रीशस्त्रेणैव जगदेतज्जिगीषति। हहा ! मनोभुवाऽनेन सर्वं विश्वं विडम्बितम् । तत्तस्य कामस्य सङ्कल्पाख्यं मूलमेव सर्वत उत्खनामि" । एवं विचिन्त्य संसारविरक्तः स महामनाः सुव्रताचार्यपादान्ते दीक्षामुपाददे । देहनिःस्पृहश्चतुर्थ-षष्ठादितपोभिश्चाऽऽत्मानं शोषयित्वा दुस्तपं तपस्तप्त्वा कालयोगाद् विपद्य सनत्कुमारकल्पे प्रकृष्टायुः सुरोत्तमोऽभूत् । ततोऽप्यायु:क्षये च्युत्वा रत्नपुरे पुरे जिनधर्मो नाम श्रेष्ठिसुतो जातः । आबाल्यादपि द्वादशविधं श्रावकधर्मं पालयन् तीर्थकरानष्टप्रकारया पूजयाऽऽराधयन्नेषणीयादिदानेन साधूंश्च प्रतिलाभयन्न साधारणवात्सल्यात् साधर्मिकांश्च प्रीणयन् कञ्चित्कालं गमयाम्बभूव । इतश्च नागदत्तोऽपि प्रियाविरहदुःखित आर्त्तध्यानाद् मृतस्तिर्यग्योन्यादिषु चिरं भ्रान्त्वा सिंहपुरे नगरेऽग्निशर्मा नाम द्विजपुत्रोऽभवत् । कालेन च त्रिदण्डित्वं समादाय तीव्रद्विमासादितपोरतो रत्नपुरं समाययौ । तं च परिव्राजमागतं श्रुत्वा तत्पुरनृपो हरिवाहनः पारणक दिवसे न्यमन्त्रयत् । नृपगृहमागतश्च स जिनधर्मं दृष्ट्वा प्राग्जन्मवैरेण क्रुद्धो नृपं जगाद-'अस्य श्रेष्ठिनः पृष्ठे चेदुष्णपायसभाजनं न्यस्यात् तदाऽहं भुजेऽन्यथा न" । अन्यपुंसः पृष्ठे स्थालं न्यस्याऽहं त्वां भोजयामीति नृपेणोक्तश्चाऽतिक्रुद्धः पुनरब्रवीत्-"अस्यैव पृष्ठे स्थालमुष्णपायसं न्यस्याऽहं भुञ्जेऽन्यथाऽकृतार्थो यामि" । तद्वचःप्रतिपन्नेन राज्ञाऽऽदिष्टो दत्तपृष्ठो भुञ्जानस्य द्विजस्य स्थालतापं स जिनधर्मोऽधिसेहे । प्राक्तनकर्मणः फलमेतदनेन विधिना त्रुट्यत्वेवं इतश्चाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे कुरुजाङ्गलदेशे हस्तिनापुरे पुरे गुणरत्नरोहणाचलोऽश्वसेनो नाम नपो बभूव । तस्य च रूपेण देवीव सहदेवीनाम्नी भार्याऽऽसीत् । तस्याः कुक्षौ च जिनधर्मजीव: प्रथमात् कल्पाद् निजायुर्भुक्त्वा च्युत्वाऽवातरत् । तदानीं च सहदेवी मुखे प्रविशतश्चतुर्दश गजादीन् महास्वप्नान् दृष्टवती । पूर्णे समये च सर्वलक्षणलक्षितं विलक्षणरूपविभवं स्वर्णवर्णं सुतमसूत । नृपश्च सोत्सवं तस्य सनत्कुमार इति नाम चक्रे । स च सनत्कुमारो धात्रीभिलाल्यमानः क्रमेण वर्धमानो लीलया सर्वाः कलाः शिक्षयामास । शैशवमुल्लङ्घ्य च साधैंकचत्वारिंशद्धनुन्नतो यौवनं प्राप्तवान् । तस्य च कालिन्दीसूरतनयो विख्यातविक्रमो महेन्द्रसिंहनामा परमं मित्रमासीत् । एकदा वसन्ते स सनत्कुमारस्तेन मित्रेण महेन्द्रसिंहेन सह कौतुकात् क्रीडितुं मकरन्दाख्यमुद्यानं ययौ । विविधाभिः क्रीडाभिस्तत्र क्रीडति तस्मिन्नश्वपती राज्ञः प्राभृते सर्वलक्षणलक्षितान् गतिचतुरान् हयान् प्राहिणोत् । तेष्वेकं जलधिकल्लोलं नाम वाजिनं सनत्कुमारस्याऽर्पयामास । सनत्कुमारश्च क्रीडां त्यक्त्वा तमश्वमारुह्य कशामुत्क्षिप्यैकेन पाणिना वल्गामाकृष्याऽऽसनास्पृष्टपर्याण एवोरूभ्यां Page #38 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व - सप्तमः सर्गः ६३ तं प्रैरयत् । सोऽश्वश्च पृथिवीमस्पृशन्निव वेगेन प्रधावित: कुमारेण यथा यथा वल्गया चकृषे, तथा तथा विपरीतशिक्षोऽधिकमधावत । एवं सोऽश्वोऽश्वमूर्ती राक्षस इव सादिनां राजपुत्राणां धावता क्षणाददृश्योऽभूत् । ततोऽश्वसेनोऽश्वसेनयाऽश्वेनाऽऽकृष्टं सूनुं प्रत्यानेतुमन्वचालीत् । यावच्च जनोऽसावश्वो याति एतानि तस्य पदानि, इमास्तस्य फेनलाला' इत्येवमाख्याति, तावत्कालरात्रिरिव दृशामन्धङ्करणी प्रचण्डा वात्योदभूत् । तदानीं रेणुभिर्दिशोऽच्छाद्यन्त, सैन्यानि स्तम्भितानीव पादमप्युद्धर्तुं नाऽलम् । गच्छतस्तस्य वाजिनश्चाऽशेषाण्यपि पदफेनादिचिह्नानि पांशुभिस्तिरोहितानि । ततश्च मूढोपायाः सर्वे सैनिकाः पर्याकुल्यभवन् । ततो महेन्द्रसिंहोऽश्वसेनं नत्वा व्यजिज्ञपत्- 'देव ! पश्य, देवस्येयं दुर्घटा घटना । अन्यथा कुमारः क्व दूरदेश: स हयः क्व ? तत्राऽज्ञातशीले कुमारस्याऽधिरोहणं क्व तेन कुमाररस्याऽपहरणं क्व ? इयं वात्याच प्रचण्डा क्व ? तथाऽपि दैवं जित्वा स्वामिसन्निभं स्वमित्रमन्विष्याऽऽनेष्यामि । प्रभो ! ममाऽल्पपरिवारस्य क्वचिदेकाकिनोऽपि च कुमारस्याऽन्वेषणं सुकरं, किन्तु प्रचुरसैन्यपरिवारस्य यत्र कुत्रचिदसम्मातो देवस्य तद् न योग्यम्" । एवं भूयोभूयः सम्प्रार्थ्य तेन पादलग्नेन निवर्तितोऽश्वसेनो दुःखितो नगरं ययौ । महेन्द्रसिंह स्वल्पबलवत्परिवारसमन्वितः सहसा सनत्कुमारमन्वेष्टुमतिदुर्गां महाटवीं प्रविवेश । विकटां तामटतस्तस्य खिन्नखिन्नानि सैन्यानि मन्त्रिमित्रादीनि च त्यक्तसङ्गानि बभूवुः । एवं क्रमादेकाकी स धनुर्धरो निकुञ्ज-कन्दरादिषु भ्रमन् सनत्कुमारमन्वेषयन् वर्षा -ऽऽतप- शीतादिकं सहमान: क्रमश: षड् ऋतूनपि व्यतीयाय । एवं सनत्कुमारान्वेषणायाऽटवीमटतस्तस्यैको वत्सरो जगाम । त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः एकदा च तस्यामेवाऽटव्यां कियद् दूरं गत्वाऽवस्थितो दिशो विलोकयामास । कारण्डवादिपक्षिशब्दैः पङ्कजगन्धिना मरुता च किञ्चित्सर इहाऽस्तीत्यनुमानतो निश्चिकाय । स तदभिमुखं प्रयातो मधुरं सङ्गीतं शृण्वन्नग्रे गच्छन् विचित्रवस्त्रनेपथ्यानां रमणीनां मध्यवर्तिनं मित्रं सनत्कुमारं ददर्श । ततश्चाऽसौ मे प्रियसुहृदेव माया वेत्यचिन्तयद् यावत्, तावद्वैतालिकेन पठ्यमानां प्रशस्ति श्रुत्वा सनतकुमारस्य दृक्पथं गतो हर्षाश्रुधारया समं तत्पादपद्मयोः पतन् सनत्कुमारेणाऽभ्युत्थायोद्धृत्य परिषष्वजे । साश्चर्यैर्विद्याधरकुमारैश्च वीक्ष्यमाणौ तौ महार्घ्यासनयोरासाञ्चक्राते । सनत्कुमारप्राप्तेश्च महेन्द्रसिंहस्य श्रमः क्वाऽपि जगाम । ६४ ततः सनत्कुमारः स्वचक्षुषोर्हर्षाश्रु प्रमृज्य महेन्द्रसिंहमुवाच" कथमत्र समागतः ? एकाकी कथमासीः ? मां कथमज्ञासी: ? कथं कालमक्षिपः ? मद्वियोगे पितृपादाः कथं प्राणानधारयन् ? पितृभ्यामिह दुर्गमे कथमेकाकी प्रेषितः" इत्थं कुमारेण पृष्टो महेन्द्रसिंहः सर्वं प्राग्वृत्तं यथातथमाचचक्षे । ततः सनत्कुमारस्तस्य महेन्द्रसिंहस्य विद्याधरीभिर्मज्जन- भोजनादि कारयामास तदनु विस्मितो महेन्द्रसिंहो विनयाद् रचिताञ्जलिः सनत्कुमारं पप्रच्छ " तदा तेन तुरङ्गेण कियतीं भुवमपहृतः तत्प्रभृति मद्वियोगे च त्वया किं प्राप्तम् ? इयमृद्धिर्वा ते कुत: ? यदि मयि न गोपनीयं तर्ह्येतद् रहस्यमाख्यातुमर्हसि " । ततः सनत्कुमारो - ऽस्मिन्नात्मकल्पे स्ववयस्ये न किमपि गोपनीयमिति विचिन्त्य स्ववामपार्श्वे निषण्णां स्वदयितामादिदेश “विद्यया वेद्यवेदिनि ! बकुलमतिके! प्रिये ! महेन्द्रसिंहाय तथ्यां मत्कथां कथय । मामधुना निद्रा बाधते" । इत्युक्त्वा सुषुप्सुः स रतिगृहं प्रविवेश । ततो बकुलमतिरवोचत्- "तत्र दिने युष्माकं पश्यतामपि वाजिना हृतस्तव सखा महाटवीमेतां प्रवेशितो द्वितीयेऽन्यपि वेगाद् गच्छन् मध्याह्ने क्षुत्पिपासार्तो जिह्वां कृष्ट्वाऽवस्थितः । ततस्तस्मात् खिन्ना Page #39 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व-सप्तमः सर्गः दश्वादार्यपुत्रोऽप्यवतीर्याऽश्वात् पर्याणादिकमुत्तार्य पिपासया पयोऽन्वेषयन्नस्यामटव्यामितस्तत: परिभ्रमन्नप्यपश्यन् सुकुमाराङ्गोऽध्वश्रान्तो दवदाहाद् व्याकुलो दूतं सप्तपर्णतरुमूलं गत्वोपाविशत् क्षोण्यां पपात च । तदा च पुण्यवशात् तद्वनदेवता यक्षोऽमुं सर्वाङ्गं शीतलै लैः सिषेच। लब्धसंज्ञ उत्थाय चाऽसौ तद्दत्तं जलं पीत्वा कस्त्वं कुतो वेदं जलमित्यपृच्छत् । स यक्षराट-"यक्षोऽहं, त्वत्कृते मानसात् पयः समानीत"मित्याचख्यौ । तत आर्यपुत्रोऽवोचत्-"महान् सन्तापोऽङ्गे, स मानससरोमज्जनाद् विना नाऽपयास्यति" । "एष तवेच्छां पूरयामी". त्युक्त्वा च स यक्षोऽमुं कदलीसम्पटे क्षिप्त्वा मानससरोऽनयत् । तत्र च यथाविधि स्नानेनाऽऽर्यपुत्रस्य श्रमो दूरीभूतः । तत्र च तव सुहृदः प्राग्जन्मारिरसिताक्षो यक्षः कृतान्त इव हननाय समागच्छत् । एकं वृक्षं च समुन्मूल्य यष्टिलीलयाऽऽर्यपुत्राय प्राक्षिपच्च । तं च पतन्तं द्रुमं तव सखा हस्तेन निहत्याऽपातयत् । ततः स यक्षो बहलधूलीभिर्जगदन्धकारमयं चकार । तेन विकृताश्च भीषणाः पिशाचा आर्यपुत्रमधावन्त । आर्यपुत्रोऽपि च तैर्मनागप्यभीतो नागपाशैर्बद्धोऽपि तान् सर्वान् लीलया त्रोटयामास । ततो विलक्षो यक्षोऽमुं कराघातैरताडयत् । आर्यपुत्रोऽपि तं वज्रसारण मुष्टिना जघान। ततो गरीयसा मुद्गरेण तेन यक्षेणाऽऽहत आर्यपुत्रश्चन्दनद्रुममुन्मूल्य तं यक्षं जघान । स भुवि पपात च । ततः शैलं लीलयोत्क्षिप्य यक्षेणाऽऽहत आर्यपुत्र क्षणं निश्चेतनो जज्ञे । लब्धसंज्ञश्च तमद्रि विधूयाऽऽर्यपुत्रो बाहुभ्यां योद्धं प्रववृते । तं च निहत्य दोर्दण्डेनाऽऽर्यपुत्रः कणशश्चक्रे । तथाऽपि देवत्वात् स नाऽमृत । किन्तु विरसमारट्य स यक्षो वायुवेगेन पलायिष्ट । रणकौतुकावलोकिन्यो विद्याधर्यादयस्त्वन्मित्रे पुष्पाणि ववृषुः । ततो धीरमानस आर्यपुत्रोऽपराह्ने मानसादचालीत् । नन्दनादायाता रूपवती खेचरकन्यका ददर्श च । ताभिश्चाऽपि हावभावमनोहरं त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वन्मित्रं ददृशे । ताश्चोपेत्य सद्भावं प्रकटयामासुः । आर्यपुत्रोऽपि ता उवाच-"यूयं कस्य महात्मनः पुत्र्यः ? इदमरण्यं च केन हेतुना युष्माभिर्भूषितम् ?" ततस्ता अप्यूचुः-"वयं विद्याधरेन्द्रस्य भानुवेगस्याऽष्टौ कन्यकाः । मम पितुश्च नगरीतोऽनतिदूर एवाऽस्ति । तां विश्रान्त्याऽलङ्कुरु" । सविनयमुक्तस्ताभिश्च ते सखा वरचिन्ताभृतः स्वपितुरन्तिकमनायि । भानुवेगश्चाऽभ्युत्थानं कृत्वा स्वागतवचनमुच्चार्योवाच-"त्वं कन्यानामुचितो वरोऽसीति मया प्रार्थ्यसे इमा अष्टावपि परिणय" । तेन चैव अभ्यर्थितस्तव सखा तदैव ता अष्टा अपि विधिपूर्वकं पर्यणैषितः । ____ताभिश्च समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणो निद्रितोऽसिताक्षेणोत्क्षिप्याऽन्यत्र चिक्षिपे । निद्रान्ते च तव सखा स्वं सकङ्कणं भूमिष्ठमरण्यान्तरेकाकिनं पश्यन् किमिदमिति चिन्तयामास । पूर्ववच्चैकाक्यटव्यन्तरटन्नेकमभ्रंलिहं सप्तभूमिकं प्रासादं ददर्श । अदोऽपि कस्याऽपि मायाविनो मायाविलसितं किञ्चित् चिन्तयंस्तं प्रासादमाससाद । तत्र च कस्याश्चिद् योषितः सकरुणं रुदितं श्रुत्वा दयावीर आर्यपुत्रस्तत्र प्रासादे सप्तमी भूमि प्राप्त:-सनत्कुमार ! जन्मान्तरेऽपि त्वमेव मम भर्ता भूया इति भूयो भूयो वदन्ती रूपलावण्यपुण्याङ्गीमधोमुखीमश्रुपूर्णेक्षणां कन्यकां ददर्श । स्वनामश्रवणाच्च केयमित्याशङ्कितः पूरोभूय तामाभाषिष्ट-"भद्रे ! सनत्कुमारः कः ? काऽसि त्वम्, इह किमागता, किंवा ते व्यसनं, येन तं स्मरन्ती रोदिषि ?" तेनेत्थमुक्ता सा बालोवाच-“साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेश्चन्द्रयशसो देव्याश्च सुनन्दानाम्न्यहं पुत्री । सनत्कुमारश्चाऽश्वसेननृपस्य रूपजितकामः पुत्रः । स च मनोरथमात्रेण मम भर्ता । यस्मात् पितृभ्यामुदकपूर्वकं तस्मै दत्ताऽस्मि । किन्त्वकृतविवाहामेको विद्याधरो मां स्वगृहादिहाऽनैषीत् । इमं प्रासादं विकृत्य मामत्रैव विमुच्य च स Page #40 -------------------------------------------------------------------------- ________________ ६८ चतुर्थ पर्व-सप्तमः सर्गः क्वाऽप्यगात् । न जाने, कि भविष्यति ?" तत आर्यपुत्रोऽप्युवाच"कातरेक्षणे ! मा भैषीः । यमलं स्मरसि, स एष कौरव्यः सनत्कुमारोऽस्मि" । तत: साऽप्येवं प्रत्यभाषिष्ट-“देव ! चिराद् मेऽद्य दृष्टिपथेऽसि, दैवेन दिष्ट्या सुस्वप्नमिव दशितोऽसि" । एवं तयोरालपतोः स वज्रवेगो नाम विद्याधरोऽशनिवेगपुत्रः क्रुद्धस्तत्राऽगात् । तथाऽऽर्यपुत्रमुत्पाट्योल्लोलयामास । "हा नाथ ! दैवेन निहताऽस्मीति भाषमाणा च सा मूर्च्छया महीपृष्ठे न्यपतत् । आर्यपुत्रोऽपि च क्रुद्धो मुष्ट्या तं दुराशयं वज्रवेगमवधीत् । तथाऽक्षताङ्ग आर्यपुत्रो नेत्रानन्दं जनयंस्तत्समीपं समाययौ । तां समाश्वास्य च नैमित्तिकैः स्त्रीरत्नमिति सूचितां तां सद्यः पर्यणैषीच्च । तत्र च क्षणेनैव वज्रवेगस्य भगिनी सन्ध्यावली समागात् । भ्रातृवधात् क्रुद्धाऽपि "भ्रातृवधकस्ते भर्ता भावी"ति ज्ञानिनां वचः स्मृत्वा च क्षणेनाऽशाम्यत् । तत: साऽपि च स्वयंवरपरायणाऽऽर्यपुत्रं नाथमिच्छन्त्युपतस्थे । सुनन्दयाऽनुज्ञातश्च त्वत्सखा रागिणीं तां गान्धर्वेण विवाहेनोपायंस्त । तदानीं च द्वौ विद्याधरावुपेत्य सनत्कुमाराय ससन्नाहं महारथमुपनीयाऽवोचताम्-"त्वया गरुडेन पन्नगमिव हतं वज्रवेगं श्रुत्वा तत्पिताऽशनिवेगः क्रुद्धो योद्धमभ्येति, चन्द्रवेगेन भानुवेगेन च पितृभ्यां प्रेरितावावां भवत: श्वसुर्यों साहाय्यार्थे समागतौ । तत्प्रेषितममुं रथमारोह, अमुं कवचं च परिधेहि । द्विषां बलं विजयस्व च । चन्द्रवेग-भानुवेगौ चाऽपि साहाय्याय वायुवेगिभिर्वाहनैरागतावेव विद्धि" तदानीमेव च तौ चन्द्रवेग-भानुवेगौ महासैन्यौ समेयतुः । तदा चाऽशनिवेगस्य समागच्छतः सैन्यसमूहैस्तुमुल उत्तस्थे । तदा च सन्ध्यावलिरार्यपुत्राय प्रज्ञप्तिकां नाम विद्यामदत्त । आर्यपुत्रोऽपि च सन्नह्य तं रथं समारुह्य च रणायोत्कण्ठितस्तस्थौ । चन्द्रवेगादयश्च विद्याधराः सनत्कुमारं परिवृत्य तस्थुः । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथाऽशनिवेगस्य सैनिका 'गृह्णीत गृह्णीत हत हते'ति भाषमाणा अतिवेगेनाऽऽगमन् । ततश्चोभयोः सैन्यास्ताम्रचूडा इवोत्पत्त्योत्पत्त्याऽमर्षात् प्रहारिणोऽयुध्यन्त । चिरं च शस्त्राशस्त्रि-दण्डादण्डि-बाहूबाहवियुद्ध्वा द्वयोरपि सैन्येषु भग्नेषु रथेनाऽनिलवेगिनाऽशनिवेगः समुत्थाय परानुच्चैराक्षिपन् धनुरधिज्यं विदधे । आर्यपुत्रोऽपि च तथैव तमधिक्षिपन् साधिज्यं धनुर्व्यधात् । ततो द्वयोरपि महौजसोः शराशरि-शस्त्राशस्त्रियुद्धे प्रवृत्ते धावतोऽशनिवेगस्य भुजार्धमार्यपुत्रः खड्गेन चकत । तादृशोऽपि च सोऽशनिवेगः क्रोधाद् धावमानः प्रहर्तुं प्रायतत । तत आर्यपुत्रो विद्यार्पितेन चक्रेण तस्य शिरश्चिच्छेद । तथाऽशनिवेगस्य राज्यलक्ष्मी वशेकृत्य चन्द्रवेगादिभिः समं वैताढ्यं गिरिं जगाम । तत्र चाऽऽर्यपुत्रस्य विद्याधरेन्द्रविद्याधरमहाराज्याभिषेक्श्चक्रे। स चाऽऽर्यपुत्रः शाश्वतार्हत्प्रतिमानामष्टाह्निकोत्सवं चकार । अन्येधुश्च मम पिता चन्द्रवेग आर्यपुत्रं सप्रश्रयमवदत्-"एकदा पुरा मया कोऽपि ज्ञानरत्नाकरो मुनिर्दृष्टः पृष्टश्च मां शिष्टवान्-तव बकुलमतिप्रमुखं कन्याशतं चतुर्थश्चक्री सनत्कुमारः परिणेष्यति । ततश्च तच्चिन्ताग्रस्ते मयि सति भाग्यात् त्वमिह समागतः । तत् प्रसीद, अमू: कन्या: परिणय" । ततश्चैवं मम पित्रा प्रार्थितस्तव सुहृद् मदादिकाः शतं कन्या: पर्यणैषीत् । तत्प्रभृति च विद्याधरैः परिवृतो मदादिकाभिस्ताभिः सर्वाभिः कन्यकाभिः सुखं रममाणो यथेच्छं विषयसुखमनुभवन् तव सखा कालमनैषीत् । अधुना च क्रीडानिमित्तमेवेहाऽऽगतस्त्वया मिलितः।। __एवमुक्तवत्यां बकुलमत्यां रतिनिकेतनाद् निर्गत: सनत्कुमारो महेन्द्रसिंहेन विद्याधरैश्च परिवृतो वैताढ्याद्रिमगात् । यथासुखं कालं गमयंश्चैकदा महेन्द्रसिंहेन विज्ञापित:-"तवाऽनया महा मम मनो नितरां मोदते, किन्तु त्वद्वियोगात्तौ पितरौ त्वां स्मारं स्मारं विषीदतः । तत् प्रसीद, हस्तिनापुर नगरमभिगच्छावः" । तेन सख्या तथाऽभिहित: Page #41 -------------------------------------------------------------------------- ________________ चतुर्थं पर्व - सप्तमः सर्गः ६९ सोऽपि सोत्कण्ठो बलयुतैर्विद्याधराधिपशतैः परिवृतः समित्रः सकलत्रश्च सनत्कुमारो हस्तिनापुरं प्राप । तत्र च वियोगात्त पितरौ पौरांश्च निजदर्शनात् समानन्दयत् । ततोऽश्वसेननृपः स्वे राज्ये सनत्कुमारं तत्सेनाधिपत्ये च महेन्द्रसिंहं निधाय श्रीमद्धर्मतीर्थकृत्तीर्थे स्थविराणामन्तिके परिव्रज्यां समादाय स्वार्थमसाधयत् । **ats इतश्च सनत्कुमारस्य राज्यं परिपालयतः सतश्चतुर्दशचक्रादीनि महारत्नान्यजायन्त । ततः स चक्रमार्गानुगः स्वयं षट्खण्डं भरतक्षेत्रं नैसर्पादीन् निधींश्च दशभिर्वर्षसहस्त्रैः साधयित्वा हस्तिनापुरं प्राविशत् । तं च नगरे प्रविशन्तमवधिज्ञानतः शक्रः सौहृदात् स्वमिव वीक्षाञ्चक्रे । ततः पूर्वजन्मन्यसौ मे बान्धव इति स्रेहवशाच्छक्रो नगरं प्रविशतः सनत्कुमारस्याऽभिषेको विधीयतामिति कुबेरं समादिशत । हारं शशिमालामातपत्रं चामरे मुकुटं कुण्डलयुगं देवदूष्यद्वयीं सिंहासनपादुके पादपीठं च शक्रः सनत्कुमारार्थं कुबेरस्य समार्पयत् । तिलोत्तमानारदादीन् तदभिषेकाय समादिशच्च । ततः कुबेरस्तैः सार्धं हस्तिनापुरमेत्य सनत्कुमाराय शक्रादेशं निवेद्य तदनुज्ञात एकयोजने माणिक्यपीठं विचकार । तदूर्ध्वं मण्डप - सिंहासनादि क्षणाद् विधाय देवादिभिः क्षीरोदसलिल- गन्धमाल्यादि च समानाय्य सनत्कुमारस्य सर्वैर्देवादिभिश्चक्रवर्तित्वाभिषेकं समहोत्सवं विदधे । गजरत्नमध्यारोह्य तं हस्तिनापुरे प्रावीविशत् स्वपुरमिव च हस्तिनापुरं धनाकीर्णं कृत्वा कुबेरः स्वं धाम जगाम । तथा राजभिः सामन्तादिभिश्च तस्याऽभिषेको विदधे । तस्याऽभिषेकोत्सवाच्च हस्तिनापुरं द्वादशाब्दीं यावद् दण्ड- शुक्लादिवर्जितमभूत् । स चक्री च पितेव विधिवत् सकलाः प्रजाः पालयामास । तदानीं च सुधर्मायां रत्नसिंहासनस्थिते सौदामनीं नाटकं नाटयति शक्रे सर्वरूपाभिभाविनाऽनवद्येन रूपेण सर्वदेवानां विस्मयं जनयन् त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः देहप्रभाभिस्सर्वेषां तेजांसि तिरयन्नैशानकल्पात् सङ्गमाख्योऽमरः समागत्य पुनः प्रत्यगात् । गते च तस्मिन् देवाः शक्रं पप्रच्छुः - अस्य लोकोत्तरं तेजोऽनुपमं रूपं च कथम् । ततः शक्रोऽवदत्-"प्राग्जन्मन्येतेनाऽऽचामाम्लवर्धमानं तपः कृतं, तेनाऽस्येत्थं रूपतेजसी" । ततः पुनःजगत्त्रये किं कोऽप्यन्योऽपीदृश: ?" इत्यमरैः पृष्टः शक्रोऽब्रवीत्“राज्ञः सनत्कुमारस्य यद्रूपं तदन्यत्र देवेषु मनुष्येषु च न" । ततस्तद्रूपस्यैवं प्रशंसामश्रद्दधानौ विजयो वैजयन्तश्च द्वौ सुरौ पृथिव्यामवतीर्य रूपान्वेषणार्थं विप्ररूपेण नृपतेः प्रासादद्वारि द्वाःस्थसन्निधौ तस्थतुः । ७० तदानीं च सनत्कुमारोऽपि मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन् प्रारब्धमज्जन आसीद् । तदा द्वारपालेन निवेशितौ च तौ विप्रौ सनत्कुमारमालोक्य सुविस्मितौ शक्रोक्तं तथैवेति चिन्तयामासतुः । "किं निमित्तमिहाऽऽगतौ” इति तौ सनत्कुमारेण पृष्टावूचतुः - "राजन् ! भुवने भवतो रूपं लोकोत्तरचमत्कारकं गीयते । दूरतोऽपि तदाकर्ण्य कौतुकाद् विलोकयितुमायातौ । लोके यथा वर्ण्यमानं तव रूपं श्रूयते, ततोऽप्येतत्सविशेषं निरीक्ष्यते" । ततः सनत्कुमार ऊचे - " अभ्यक्तेऽङ्गे कियती कान्तिः ? क्षणं प्रतीक्षेथां, यावद् मज्जनं निर्वर्त्यते । पुनः कृतनेपथ्यं रूपं निरीक्षेथाम्” । तत: स्नात्वा कृतनेपथ्यः स सभामध्यास्त । ततोऽनुज्ञातौ विप्रौ पुरोभूय नृपते रूपं ददृशतुः । विषण्णौ दध्यतुश्च - "तद्रूपं, सा कान्तिस्तल्लावण्यं च क्षणात् क्वाऽगात् ? मर्त्यानां सर्वमेव क्षणिकम्" । तौ विषण्णौ दृष्ट्वा राज्ञा पृष्टौ विप्रावूचतुः - "आवां सौधर्मवासिनी सुरौ । शक्रकृतं तद्रूपवर्णनमश्रद्दधानौ द्रष्टुमिहाऽऽगतौ । पुरा त्वद्रूपं यथा शक्रोक्तं दृष्टं । तदिदानीमन्यादृशमेवाऽजायत । कान्तिसर्वस्वतस्करैर्व्याधिभिरधुना तव देहः समन्तादाक्रान्तः " । इति यथार्थमभिधाय शीघ्रं तिरोहितयोस्तयोर्नृपः स्वं विच्छायमपश्यत् । ततश्च सांसारिके वस्तुनि जातानित्यत्वभावनः सञ्जातवैराग्यः प्रव्रज्यां जिघृक्षुः सुतं राज्ये Page #42 -------------------------------------------------------------------------- ________________ ७२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्र्यब्दलक्षाण्यायुः । ततो ज्ञातावसानसमयोऽनशनं प्रपद्य पूरितायुः पञ्चपरमेष्ठिनः स्मरन् सनत्कुमारः सनत्कुमारे कल्पे सुरः समजनिष्ट चतुर्थं पर्व-सप्तमः सर्गः निवेश्योद्यानं गत्वा विनयन्धरसूरिपादपार्श्वे सर्वसावधविरतिप्रधान व्रतमग्रहीत् । ततो महाव्रतधरस्याऽस्य विहरतोऽनुरागेण सर्वं प्रकृतिमण्डलं पृष्ठतोऽनुसरत् षण्मासान् यावत् पर्युपास्य कथञ्चिद् न्यवर्त्तत । अन्यदा च कृतषष्ठः स सनत्कुमारो गोचरे प्रविष्टश्चीनककूर लेभे । साजातक्रं च तदभुक्त । भूयोऽपि षष्ठभक्तान्ते तथैव कृतात् पारणादस्य व्याधयो ववृधिरे । ततः स पुण्यात्मा वर्षशतानि यावत् कच्छू शोष-ज्वरादिकाः सप्तवेदना अधिसेहे । तदेवं दुःसहान् परीषहान् सहमानस्य तस्य लब्धयः समुदपद्यन्त । ताश्च सप्त नामतः कफविपुड्जल्लमलविष्ठामोषधयो लब्धयः । अत्रान्तरे शक्रो जातचमत्कारो देवानुद्दिश्य तस्य वर्णनं चक्रे 'अयं सनत्कुमारश्चक्रवर्तिश्रियं त्यक्त्वा दुस्तपं तपस्तप्यते । लब्धास्वपि सर्वासु लब्धिषु शरीरनिरपेक्षोऽयं स्वरोगान् न चिकित्सति" इति ।। शक्रस्य वाक्यमश्रद्दधानौ द्वौ विजय-वैजयन्तौ सुरौ तत्समीपमुपेत्योचतु:-"महाभाग ! कि रोगैः परिताम्यसि? आवां वैद्यौ स्वैरेव भेषजैविश्वं चिकित्सावः । यदि त्वमनुजानासि तर्हि तव रोगान् शीघ्र निगृह्णीवः" । ततः सनत्कुमारः प्रत्यूचे-“भोश्चिकित्सकौ ! देहिनां भावतो द्रव्यतश्च द्विविधा रोगाः । क्रोधादयो भावरोगा जन्मान्तरसहस्रानुगा अत्यन्तदुःखदाः । युवां तांश्चिकित्सितुमीशौ चेत् तहि चिकित्सतम् । यदि द्रव्यरोगांश्चिकित्सथ तहि पश्यतम्" । ततो गलत्पामामङ्गुली स्वकफविप्रुषा लिप्त्वा द्राक् सुवर्णीचकार । तद् दष्ट्वा च तौ तस्य पादयो: पेततुरुचतुश्च-"त्वद्रूपं द्रष्टुं पूर्वमायातावेवाऽऽवां सम्प्रत्यप्यायातौ। शक्रश्च लब्धसिद्धिरपि व्याधिबाधां सहमानस्तपस्यतीति त्वामवर्णयत् । तदावामिहाऽऽगत्य प्रत्यक्षेण परीक्षित"मित्युदित्वा तौ देवौ तिरोहितौ । तदेवं चक्रिणस्तस्य कौमारे वर्षलक्षाधू, मण्डलित्वे च तावत्, दिग्जये दशवर्षसहस्राणि, चक्रित्वे नवतिवर्षसहस्राणि, व्रते वर्षलक्षमिति इति चतुर्थपर्वणि श्रीसनत्कुमारचरितवर्णनात्मकः सप्तमः सर्गः ॥७॥ पञ्चाऽर्हन्त: सीरिणः पञ्च पञ्चोपेन्द्रा: पञ्चैतद्विषश्चक्रिणौ द्वौ । यत्रोक्ता द्वाविंशतिः शस्तसारोद्धारे तुर्यं पर्व तद्वः श्रियेऽस्तु ॥ १ ॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य __श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्नश्रीविजययशोभद्रसूरीश्वरशिष्यरत्न श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे चतुर्थपर्वणि समाप्तं श्रीश्रेयांसजिनादिद्वाविंशतिशलाकापुरुषचरितप्रतिबद्धं चतुर्थं पर्व ॥४॥ ६ शिष.भा-३ Page #43 -------------------------------------------------------------------------- ________________ ७४ ॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्र-सूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः श्रीशान्तिनाथचरितप्रतिबद्धं पञ्चमं पर्व प्रथमः सर्गः प्रादात् प्रजानां यः शान्ति गर्भस्थोऽपि जिनेश्वरः । अचिराकुक्षिजं विश्व-सेनसूनुं नमामि तम् ॥ १॥ अथाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्धविभूषणे रत्नपुरे पुरे धर्मा-ऽर्थ-कामाननाबाधया सेवमानः प्रार्थिजनकल्पद्रुमो रूपवान् दयावांश्च श्रीषेणनामा नृपो बभूव । तस्य च शीलगुणसमन्विते रूपतिरस्कृतदेव्यावभिनन्दिता-शिखिनन्दिते द्वे पत्न्यावभूतां, कालक्रमेण चाऽभिनन्दिता गर्भं दधौ । तदानीं च सा स्वोत्सङ्गस्थौ सूर्याचन्द्रमसौ स्वप्ने ददर्श । नृपश्च तवोत्कृष्टं पुत्रद्वयं भावीति स्वप्नफलमाख्यत् । पूर्णे च समये सा देवी पुत्रद्वयमसूत । ततः श्रीषेणः समहोत्सवं तयोरिन्दुषेणो बिन्दुषेणश्चेत्यभिधानमकरोत् । धात्रीभिाल्यमानौ च तौ क्रमाद् वर्धमानौ सर्वशस्त्र-शास्त्रनिपुणतामापन्नौ कामक्रीडावनं यौवनं प्रतिपेदाते । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्चाऽत्र भरते मगधेषु ग्रामोत्तमेऽचलग्रामे वेदविद् धरणिजटनामा विप्राग्रणीर्बभूव । तस्य च कुलीना यशोभद्रानाम्नी पत्न्यासीत् । तस्याश्च क्रमेण नन्दिभूति-श्रीभूतिनामानौ द्वौ पुत्रौ जज्ञाते । तथा तस्य विप्रस्य कपिलाख्यायां दास्यां कपिलो नाम पुत्रो बभूव । स द्विजो नन्दिभूति-श्रीभूतिसुतौ साङ्गान् सरहस्यान् वेदानपाठयत् । अतिमेधावी कपिलोऽपि च तत्सर्वं तूष्णीकोऽवधारयन् वेदाब्धिपारगो जज्ञे । स च कपिलः प्रकटवैदुषिको यज्ञोपवीतद्वितयं कण्ठदेशे निधाय द्विजोऽस्मीति गिरा प्रकाशयन् देशान्तरेषु बभ्राम । भ्रमंश्च स क्रमेण रत्नपुरपत्तनं प्राप्याऽशेषपौरोपाध्यायस्य सत्यकिनाम्नः कलानिधेः पाठशालां दिने दिने गत्वा पृच्छतां छात्राणां संशयानच्छिदत् । ततश्च विस्मितः सत्यकिर्दुर्ज्ञानानि शास्त्ररहस्यानि तमपृच्छत् । कपिलश्च तस्मै तानि सविशेषाणि प्रत्यपादयत् । ___ ततः सत्यकिस्तं राजा युवराजमिव सर्वकर्मधुरन्धरं चक्रे । स च सर्वशिष्याणामन्वहं व्याख्यां चकार । तेन स्वेन पुत्रेणेव निश्चिन्तः सत्यकिस्तस्थौ । तथा कपिलः सत्यकेः पितुरिव सविशेषां भक्ति चकार । तेन प्रीतश्च सत्यकिः किमेतस्मै करोमीत्यचिन्तयत् । तदा सत्यकेर्जम्बुका नाम भार्या शील-रूपादिसमन्वितायाः स्वपुत्र्याः सत्यभामाख्यायाः सम्प्राप्तयौवनाया वरान्वेषणाय तं प्रेरयामास । ___ ततः सत्यकिरूचे-"रूपगुणसम्पन्नो विनीतः कपिलो विप्रः सत्यभामोचितो वरोऽस्ति" । जम्बुकया च तत्स्वीकृते शुभे लग्ने सत्यकिविधिवत् सत्यभामा-कपिलयोविवाहं व्यधात् । ततश्च कपिलः सत्यकिवत् पौरैः पूज्यमानः सर्वेष्वपि पर्वसु सत्यकेरपि पूज्योऽयमिति धन-धान्यादिभिः सक्रियमाण: सत्यभामया सह भोगान् भुजानो धनैर्गुणैश्च समृद्धो जज्ञे । एकदा च प्रावृषि स निशि नाट्यविलोकनाय सदनाद् बहिर्गतश्चिरं तत्र स्थितः । ततो निवृत्तस्य गृहं गच्छतोऽर्धमार्गेऽम्बुदो वर्षितुमारब्धवान् । Page #44 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-प्रथमः सर्गः ७५ ततः स तदानीं विजनत्वाद् नग्नीभूय स्ववाससी कक्षान्तः प्रक्षिप्य वेश्मद्वारं प्राप्तः पुनस्तत् पर्यधात् । सत्यभामा च वृष्ट्या मद्भर्तुर्वस्त्राणि स्तीमितानि स्युरिति बुद्ध्याऽन्यवस्त्राणि गृहीत्वा समुपस्थिता । "विद्याप्रभावेण मे वस्त्रे न स्तीमिते, तदन्यैर्वासोभिरल"मित्युक्तवतः कपिलस्य वासांस्यनार्द्राणि शरीरं चाऽऽर्द्रं विलोकमाना सा दध्यौ - "यदि विद्याशक्त्या स्ववासांस्यसावरक्षत् तदा स्वाङ्गं कथं नाऽरक्षत् । नूनं नग्नोऽयमागतोऽस्ति । अतोऽयं मत्पतिरकुलीनो मेधाबलादेव कर्णश्रुत्या श्रुतीरध्यगीष्ट" । एवं मन्यमाना च तत्प्रभृति तस्मिन् कपिले सा मन्दानुरागा जाता । दैवाच्च क्षीणधनस्तदैव धरणिजट आढ्यं कपिलं श्रुत्वा धनेच्छया समाययौ, कपिलश्च स्वयं पाद्यखानादिना तं सच्चक्रे । भोजनावसरे प्राप्ते च प्रियां प्रोवाच - "प्रिये ! शरीरबाधा ममाऽस्ति ततः पितृहेतवे भोजनं विभिन्नं सम्पादय" । ततः पितुः पुत्रस्य चाऽऽचरणमन्यथा दृष्ट्वा सत्यभामा कुलीनाऽधिकमाशशङ्के । चरितैश्च श्वशुरं कुलीनं ज्ञात्वा जनकवदाराधयित्वा ब्रह्महत्याशपथं दत्त्वा रहसि "अयं तव सूनुः शुद्धपक्षद्वयोद्भवोऽन्यथा वे" ति पप्रच्छ । ततो धरणिजटः सर्वं यथातथं समाचख्यौ । अथ कपिलेन विसृष्टो धरणिजट: पुनरेव निजं ग्रामं जगाम । सत्यभामाऽपि च गत्वा श्रीषेणं व्यजिज्ञपत्- "ममाऽयं दैववशादकुलीनो भर्ताऽभवत् । ततो मामस्माद् मोचय । अनेन मुक्ता सती च सुकृतमाचरिष्ये" । ततः श्रीषेणोऽपि कपिलमाहूय "धर्माचरणार्थं सत्यभामेयं त्वया मुच्यताम् । विरक्तायामस्यां तव वैषयिकं सुखं कीदृग्भवेत् ?" इति बोधयामास । कपिलश्च "क्षणमप्यनया विना प्राणान् धर्तुं नाऽलमस्मि तत इमां पाणिगृहीतीं कथञ्चनाऽपि न त्यजामि त्यजनं त्याजनं वा गणिकास्वेव युज्यते" इत्युवाच । ततः क्रुद्धा सत्यभामोचे-“यदि ७६ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः मामेष न त्यजति तदा जले ज्वलने वा प्रवेक्ष्यामि । ततो राजोवाचअसौ प्राणान् मा त्याक्षीदिति मम गृह एव ते प्रिया कतिचिद् दिनानि तिष्ठतु" । एवमस्त्विति कपिलेनोक्ते च राज्ञा राज्यै समर्पिता सत्यभामा विविधं तपः समाचरन्ती समवस्थिता । तस्मिन्नेव च समये कौशाम्ब्यां नगर्यां बलो नाम महाबलो नृपः श्रीमतीदेवीप्रसूतां स्वसुतां श्रीकान्तां प्राप्तयौवनां रूपशीलादिसमन्वितामिन्दुषेणस्य स्वयम्वरे प्रभूतयद्धर्ध्या प्रैषीत् । तया सहाऽऽगतामनन्तमतिकां वेश्यां रूपोत्कृष्टामिन्दुषेण- बिन्दुषेणावपश्यताम् । एषा मम ममेति प्रजल्पन्तौ सामर्षौ तौ देवरमणाभिधानोद्यानमीयतुः । तत्र च द्वावपि सन्नद्धौ तदर्थं वृषभाविव युयुधाते । नृपश्च तयोर्युद्धं निषेधितुं नाऽशक्नोत् । ततो विषण्णः श्रीषेणोऽभिनन्दिता-शिखिनन्दिताभ्यां विचार्य प्राप्तकालमिदमिति ब्रुवाणस्तालपुटाख्यविषव्याप्तं कमलमाघ्राय क्षणाद् विपेदे । ते देव्यावपि तदेव कमलमाघ्राय तन्मार्गमन्वीयतुः । सत्यभामाऽपि च कपिलादनर्थं सम्भावयन्ती तदेव पद्ममाघ्राय तत्पथं गता । तथा ते चत्वारोऽपि जम्बूद्वीपोत्तरकुरुक्षेत्रे श्रीषेणा-ऽभिनन्दिते शिखिनन्दिता-सत्यभामे चेत्येवं युगलधर्मिणोऽभवन्, ते च तत्र पल्यत्रयायुष्का गव्यूतत्रितयोच्छ्रिता अनुभूतानुपमसुखाः सुखं कालं गमयामासुः । इतश्च तयोरिन्दुषेण- बिन्दुषेणयोर्युद्ध्यमानयोः सतोरेकः कोऽपि विद्याधरो विमानस्थः समेत्य तयोरन्तरे स्थित्वोवाच - "एतां भगिनीमज्ञात्वा भवन्तौ द्वौ तदर्थं किं युध्येते ? विस्तरेण मम वचनं श्रूयताम् । अस्य जम्बूद्वीपस्य महाविदेहेषु सीतानद्युत्तरतटे पुष्कलावत्यां विज विद्याधरावासे वैताढ्यपर्वते उत्तर श्रेण्यामादित्याख्ये नगरे सुकुण्डलीनामा राजाऽस्ति । तस्य पत्नी चाऽजितसेना नाम कुलीनाऽस्ति । अहं तयोः पुत्रो मणिकुण्डलीनामा । Page #45 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व प्रथमः सर्गः ७७ एकदा चाऽहं तत: स्थानाद् नभोमार्गेण जिनेन्द्रं वन्दितुं पुण्डरीकिणीं प्राप्तः । तत्र चाऽमितयशसं नाम जिनेश्वरं वन्दित्वा धर्मदेशनामश्रौषम् । देशनान्ते च "केन कर्मणा विद्याधरोऽहमभव" मिति पृष्टः प्रभुरब्रवीत् - "पुष्करवरद्वीपस्य पश्चिमार्धे शीतोदाया महानद्या दक्षिणे तटे सलिलावत्यां विजये वीतशोकाभिधानायां पुरि पुरा रूपवान् बलवांश्च रत्नध्वजाभिधश्चक्रवर्त्यभूत् । तस्य च कनकश्री - हेममालिन्यौ द्वेपट्टमहिष्यावभूताम् । तत्र कनकश्रीरङ्कस्थकल्पलताद्वयस्वप्नसूचिते कनकलता - पद्मलते पुत्र्यौ, हेममालिनी च पद्मलतास्वप्नसूचितां पद्मां नाम कन्यामसुवाताम् । ताः सर्वाश्च क्रमेण यौवनं प्राप्ताः, तत्र पद्मा भवविरक्ताऽजितसेनार्यापादान्तिके यथाविधि परिव्रज्यामुपादत्त । एकदा च साऽऽर्याया अनुज्ञया पालितद्वाषष्टिचतुर्था शरीरचिन्तार्थं बहिर्गच्छन्ती राजमार्गे मदनमञ्जर्या वेश्यायाः कृते युध्यमानौ राजपुत्रौ ददर्श । तौ दृष्ट्वा च साऽचिन्तयत्- 'अहो ! अस्या सौभाग्यं, यत् तत्कृते युध्येते । तन्मयाऽप्यस्य चतुर्थतपः कर्मणः प्रभावेण भवान्तरे ईदृशं सौभाग्यं भूयात्' । एवं च निदानं कृत्वाऽन्तेऽनशनं कृत्वा निदानमनालोच्यैव मृता सौधर्मकल्पे देवी जाता । तथा कनकश्रीर्भवं भ्रान्त्वाऽनन्तरे दानादि कृत्वा मणिकुण्डली नाम त्वं विद्याधरोऽभूः । कनकलता - पद्मलते च भवं भ्रान्त्वा प्राग्भवेषु बहुधा दानादिधर्मं विधाय श्रीषेणनृपतेः सुताविन्दुषेण- बिन्दुषेणावभूताम् । पद्मजीवश्च सौधर्माच्च्युत्वा कौशाम्ब्यामनन्तमतिकाभिधा वेश्या जाता । तत्कृते च देवरमणे वने ताविन्दुषेण- बिन्दुषेणौ साम्प्रतं युध्यमानौ स्तः । सोऽहं श्रुतपूर्वभवो युवयोः पूर्वजन्मज्ञापनेन कृत्वा युद्धाद् निवारयितुं स्नेहादिहाऽऽगमम् । अहं युवयोः प्राग्भवे माता, इयं वेश्या च स्वस तदेवं संसारे मोहविजृम्भितं बुध्येथाम् । तस्माद् रागादि दूरतः परित्यज्य निर्वाणनगरद्वारं परिव्रज्यां द्रुतं श्रयताम् । ततस्तावूचतु:"अस्माभिर्मोहाद् भगिनीभोगहेतवे किमिदमारब्धम् ? धिग्धिक् त्वं नौ ७८ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः पूर्वभवे माता, अस्मिन् भवे च गुरुः । येनोत्पथादस्मात् प्रबोध्य विनिवर्तितौ स्वः” । एवमुक्त्वा युद्धाद् विरम्य धर्मरुचिमुने: पुरो राज्ञां चतुर्भिः सहस्रैः समं तौ व्रतं जगृहतुः । ततो ध्यानवह्निना दग्धकर्माणौ दुर्ग लोकाग्रं सरलेनैव वर्त्मना तौ जग्मतुः । श्रीषेणप्रमुखाश्च चत्वारो युगलिनो विपद्य प्रथमे कल्पे देवत्वं प्रपेदिरे । *** इतश्चाऽत्रैव भरते नगोत्तमे वैताढ्ये रथनूपुर चक्रवालाख्ये नगरे ज्वलनजटिनो विद्याधरेन्द्रस्याऽर्ककीर्त्तिः पुत्रः स्वयम्प्रभा नाम पुत्री चाऽभूताम् । तां च स्वयम्प्रभां पोतनपुरेश्वरः प्रजापतेः पुत्रः प्रथमो वासुदेवोऽचलाख्यबलभद्रानुजस्त्रिपृष्ठः परिणिनाय । तेन च हृष्टः स त्रिपृष्ठो ज्वलनजटिने विद्याधर श्रेणिद्वयराज्यं ददौ । अर्ककीर्त्तेश्च विद्याधरेन्द्रस्य मेघवनस्य पुत्री ज्योतिर्माला पत्नी बभूव । श्रीषेणजीवश्च सौधर्माच्च्युत्वा ज्योतिर्मालोदरे समवातरत् । तदानीं च सा स्वप्नेऽमिततेजसं सूर्यं निजमुखे प्रविशन्तं ददर्श । पूर्णे च समये पुण्यलक्षणलक्षितं सुतमसूत । पितरौ च तस्य स्वप्नानुमानेनाऽमिततेजा इति नामाऽकरोत् । ज्वलनजटी च राज्येऽर्ककीर्ति निवेश्य चारणर्षेजगन्नन्दनाऽभिनन्दनयोः पुरः प्राव्राजीत् । सत्यभामाजीवश्चाऽपि सौधर्माच्च्युत्वा ज्योतिर्माला - ऽर्ककीयः पुत्रीत्वेनोदपद्यत । गर्भस्थायां तस्यां च जननी स्वप्ने सुतारां निशामपश्यदिति तस्याः पितरौ सुतारेति नाम चक्रतुः । तथाऽभिनन्दिताजीवः सौधर्माच्च्युत्वा स्वयम्प्रभा - त्रिपृष्ठयोः पुत्रत्वेनोदपद्यत । तस्मिन् गर्भस्थे च जननी स्वप्ने साभिषेकां श्रियं दृष्टवतीति पिता तस्य श्रीविजय इति नामाऽकरोत् । तथा स्वयम्प्रभाया द्वितीयोऽपि विजयभद्रनामा पुत्रोऽजायत । शिखिनन्दिताजीवश्च प्रथमकल्पतश्च्युत्वा स्वयम्प्रभात्रिपृष्ठयोर्ज्योतिः प्रभा नाम्नी पुत्री जाता । सत्यभामापतिः कपिलश्च तिर्यगादिषु योनिषु भवं चिरं भ्रान्त्वा चमरचञ्चायां नगर्यामशनिघोष Page #46 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व प्रथमः सर्गः नामा विद्याधरेन्द्रोऽभूत् । अर्ककीर्तिश्च स्वां पुत्रीं सुतारां त्रिपृष्ठपुत्रेण श्रीविजयेन सह पर्यणाययत् । त्रिपृष्ठोऽपि स्वां पुत्रीं ज्योति:प्रभामर्कपुत्रेणाऽमिततेजसा सह पर्यणाययत् । ७९ अन्यदा रथनूपुर - चक्रवालाख्ये नगरे बहिरुद्यानेऽभिनन्दनजगन्नन्दन - ज्वलनजटिनस्त्रयोऽपि मूर्त्तानि रत्नत्रयाणीव समवासरन् । अर्ककीर्तिश्च तज्ज्ञात्वा समेत्य नत्वा देशनां श्रुत्वा जातवैराग्योऽभिनन्दनं कृताञ्जलिरुचे - " तावत् प्रतीक्षस्व, यावदमिततेजसं निजराज्ये निवेश्य व्रतग्रहणार्थमहमागच्छामि " । प्रमादो न विधातव्य इति मुनिना शिष्टश्च स धामाऽऽगत्याऽमिततेजसं साग्रहं राज्ये निवेश्य तेन कृतनिष्क्रमणोत्सवोऽभिनन्दनमुनेः पुरः परिव्रज्यामुपादत्त । ततोऽर्ककीर्तिर्गुरुजनेन समं व्रतं पालयन् भुवं विजहार । तेजस्व्यमिततेजा अपि राज्यं शशास । इतश्च त्रिपृष्ठे कालधर्मे प्राप्ते शुचा वैराग्यमुद्वहन्नचलो बलभद्रः श्रीविजयं राज्ये न्यस्य प्रवव्राज । श्रीविजयश्च पित्र्यं राज्यं नीत्या पालयामास । एकदा चाऽमिततेजाः सुतारा श्रीविजययोर्दर्शनोत्कण्ठितः पोतनपुरं ययौ । पताका-मञ्च - तोरणादिसमन्वितं सञ्जातानन्दसाम्राज्यं तन्नगरं राजकुलं च दृष्टं वीक्ष्य विस्मितो व्योमतोऽवातरत् । श्रीविजयश्च दूरात् तं दृष्ट्वाऽभ्युत्तस्थौ । ततः परस्परं श्वशुर्यौ तौ स्वसृपती च मिथो गाढं प्रीत्या सस्वजाते । ततस्तौ द्वावपि महार्हसिंहासने निषेदतुः । ततोऽमिततेजाः अत्र पुरे महोत्सवस्याऽधुना को हेतुरित्यपृच्छत् । ततः श्रीविजयोऽवोचत्-" इत: प्रागष्टमे दिने एको नैमित्तिक इहाऽगात् । मया सादरमागमनहेतुं पृष्टश्च स जगाद - अस्मादह्नः सप्तमेऽह्नि मध्याह्नसमयेऽशनिर्ध्वनन् पोतनपुरेश्वरस्योपरि पतिष्यति, तदेतत् सूचयितुमहमागतोऽस्मि' । सचिवं च तेन वचसा कुपितं दृष्ट्वा पुनस्सोऽवोचत्-सचिव ! मह्यं मा कुपः, एतच्छास्रदृष्टं वच्मि । तस्मिन् दिने मयि पुनर्वसुधारेव वस्त्राभरणादिवृष्टिः पतिष्यति । ततो मा त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः सचिवोऽभिहितः अस्मै महामतये मा कुप्य । यतो यथार्थकथनादयमुपकारी । किन्तु तं पृच्छ, यदयं निमित्तं कुतः शिक्षितवानस्ति ? ततो नैमित्तिकोऽवोचत् परिव्रज्यां गृह्णता बलदेवेन सह शाण्डिल्यो नाम मे पिताऽपि परिव्रजितवान्, तदनु चाऽहमपि पितृवात्सल्यमोहितः प्राव्रजम् । तदैवेदं निमित्तजालमखिलं मया शिक्षितम् । यतो जिनशासनादन्यत्र न यथार्थज्ञानं सम्भवि । अहं च लाभालाभ सुखदुःखजीवितमरण-जयपराजया अष्टधा निमित्तानि वेद्मि । एकदा च सम्प्राप्तयौवनोऽहं पद्मिनीखण्डपुरमगमम् । तत्र च मम पितृष्वसा हिरण्यलोमिका तत्पुत्री चन्द्रयशाश्चाऽऽसीत् । सा च पूर्वं बालायाऽपि मे दत्ता, किन्तु दीक्षारूपविघ्नेन विवाहो नाऽभवत् । तां च चन्द्रयशसं दृष्ट्वा सानुरागोऽहं भारमिव द्रुतं व्रतं हित्वा पर्यणैषम् । निमित्तेन च स्वार्थमिमं ते महानर्थं च ज्ञात्वाऽत्राऽऽगमम् । राजन् ! यज्जानासि, तत् कुरुष्व" । इत्युक्त्वा विरते तस्मिन् बुद्धिमन्तोऽपि कुलमन्त्रिणो व्याकुला अभवन् । ८० तत्रैकः सचिवोऽवोचत् समुद्रे विद्युत्पातो न भवति, तस्मात् स्वामी तत्र नावमारुह्य सप्ताहं तिष्ठतु । द्वितीयोऽब्रवीत् नेदं मे प्रतिभासते, यतस्तत्र पतन्तीं विद्युतं को निवारयेत् ? किन्तु वैताढ्येऽवसर्पिण्यां विद्युत्पातो न भवति । तस्मात् तस्योपरि गुहां गत्वा प्रभुः सप्ताहं वसतु । ततस्तृतीयः सचिवोऽवदत्-अदोऽपि मह्यं न रोचते, यत्र योऽर्थोऽवश्यं भावी, स तत्राऽन्यथा न भवति । अत्रैव भरते विजयपुरे रुद्रसोमस्य द्विजस्य ज्वलनशिखायां पल्यां शिखीनाम पुत्रोऽभवत्। एकदा च कश्चिद् राक्षसस्तत्राऽऽगतः । सोऽन्वहं बहूनि मानुषाणि प्रणिहन्ति किन्त्वल्पं भक्षयति, शेषं चोच्छिष्टमिव त्यजति । ततो राजा तमुवाच मुधा किं बहून् नॄन् हंसि ? व्याघ्रादयोऽपि क्षुन्निवारणायैकं जन्तुं घ्नन्ति । ततस्त्वयाऽपि ग्रासायैकं मानुषं ग्राह्यम् । तच्च मन्निर्णीतेन वारेण स्वयमेष्यति । तेन च Page #47 -------------------------------------------------------------------------- ________________ ८१ ८२ पञ्चमं पर्व-प्रथमः सर्गः तदभ्युपगते नृपः स्वपुरगृहेषु वारार्थं मानुषाणां नामगोलांश्चक्रे । स गोलः कृष्यमाणो यस्य करे यदा चटेत्, स रक्षसे भक्ष्यभूतः पुररक्षायै प्रयाति । एकदा च तस्य ब्राह्मणपुत्रस्य गोलको निर्ययौ । तदन्तश्च तन्नाम वाचितम् । तच्छ्रुत्वा च तन्माता करुणस्वरं रुरोद । तद्गृहासन्नं चैकं महद् भूतगृहमासीत् । तद्भूतैश्च तस्याः कर्णदुःश्रवं क्रन्दितं शुश्रुवे । जातदयैश्च तैर्ब्राह्मण्यूचे - मा रोदीः, सुस्था भव, त्वत्पुत्रो रक्षसे यातु । राक्षसस्याऽग्रतोऽप्येनं त्वत्पुत्रमानेष्यामि । एष व्यवस्थां नाऽतिक्रमिष्यति, ततो मरिष्यत्यपि न । ततो यावत् सा ता देवता: स्तौति, तावत्त्वरमाणा आरक्षास्तत्सुतमाकृष्य रक्षः समीपं निन्युः । राक्षसश्च यावद् द्विजपुत्रमादत्ते, तावद् भूतास्तमपहृत्य तन्मातुरन्तिकमानयन् । भीता ब्राह्मणी च भयानि पश्यन्ती रक्षाकृते तं पुत्रं तत्क्षणं गिरिगुहान्ताश्चिक्षेप स च द्विजपुत्रस्तत्रस्थेनाऽजगरेण तत्क्षणं जनसे । तद्वदन्यदपि भावि क्वचिदप्यन्यथा न भवति । तस्मादेष उपायो यत् सर्वैस्तप आचर्यताम् । यतो निकाचितानामपि कर्मणां तपसा क्षयो भवति । ततश्चतुर्थो मन्त्र्युवाच-अनेन पोतनप्रभोरुपरि विद्युत्पात: कथितो न श्रीविजयस्य । तत्सप्ताहं यावत् पुरेऽस्मिन् कोऽप्यन्यः पतिः क्रियतां, ततश्च तत्राऽशनिः पतिष्यति । सर्वेषां च दुरितमनेन प्रकारेण गच्छतु । तच्छ्वा हृष्टो नैमित्तिकस्तं मन्त्रिणं प्राशंसत् । मन्निमित्तज्ञानतोऽपि तव मतिज्ञानमधिकम् । तदनर्थपरिहारायाऽमुमुपायमाशु कुरुध्वम् । राजाऽपि जिनपूजारतश्चैत्यस्थितस्तिष्ठतु । ततो मयाऽवोचि-को नरो राज्येऽभिषिच्यते ? कथं निरागसः प्राणिनः प्राणनाशं चिन्तयामि ? सर्वस्य हि प्राणाः प्रिया दुस्त्यजाः । कथं च पश्यतो मे कोऽपि वराको विपत्स्यते ? ततो मन्त्रिणोऽब्रुवन्"देव ! इदं कार्यद्वयं नोऽस्ति, यथा तवाऽनों यास्यति प्राणी च न विपत्स्यते, तथाहि-राज्ये कुबेरस्य प्रतिमाऽभिषिच्यताम् । तां च त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वामिव सर्वो जन सप्ताह सेविष्यते । दिव्यशक्त्योपसर्गश्चेद् न स्यात् तदपि सुन्दरं, स्याच्चेत् तदाऽपि प्राणिवधपापं न भविष्यति", ततो युक्तमेतदिति प्रोच्य जिनमन्दिरं गतोऽहं दर्भासने कृतपौषधोऽस्थाम् । सप्तमे च दिने प्राप्ते प्रलयाम्बुददारुणे मेघे उन्नतेऽशनिस्तस्मिन् राज्येऽभिषिक्ते यक्षबिम्बे पपात । यथा च तत्राऽशनिपातस्तथाऽन्तःपुरादिभिः कृता रत्नवस्त्रादिवृष्टिनैमित्तिकेऽप्यभवत् । ततो मया पद्मिनीखण्डपत्तनं दत्त्वा स नैमित्तिकवरो व्यसृज्यत । कुबेरस्याऽपि च नवां दिव्यरत्नमयीं मूर्ति सद्योऽकारयम् । तन्मद्विघ्नशान्त्याऽमी पौरादयो महोत्सवं विदधते । तच्छ्रुत्वा हृष्टोऽमिततेजा निजां भगिनीं सुतारां वस्त्रा-ऽलङ्कारदानेन पूजयामास । किञ्चित्कालं च तत्र तयोः पार्श्वेऽतिवाह्याऽमिततेजाः स्वनगरं ययौ । अथैकदा श्रीविजयः सुतारया सह क्रीडाकुतूहलाज्ज्योतिर्वनं नाम वनं ययौ । तदैव च तत्र कपिलजीवोऽशनिघोषो विप्रतारणिका विद्यां प्रसाध्य विहायसा समागतः पूर्वजन्मभायाँ सुतारां ददर्श । प्राग्जन्मसंस्काराच्च तस्यामुत्कण्ठितो विद्याबलात् तयोः पुरः प्लवमानं हैमं हरिणं विचक्रे । तं दृष्ट्वा च सताराऽसौ मे क्रीडनकं स्यादिति स्वामिन् ! मृग आनीयता"मिति पतिमब्रवीत् । तया चेत्थमुक्तः श्रीविजयस्तं मृगमन्वधावन् तेन मृगेण विचित्रगत्या दूरमनीयत । ततोऽशनिघोषः शनैः सुतारामभिसृत्याऽपाहरत् । तथा तेन प्रयुक्ता प्रतारणीविद्या च सुतारारूपमासाद्य सर्पदष्टाऽहमित्युच्चैः पूच्चक्रे । तच्छ्रुत्वा हरिणं मुक्त्वा वलितः श्रीविजयस्तां भूमौ लुठितां दृष्ट्वा मणि-मन्त्रौषधादिभिरुपाचारीत्, किन्तु सा शिथिलभूतसर्वाङ्गा नृपतेः पश्यत एवाऽऽशु कालधर्ममियाय ।। ततश्च दुःखेन मूच्छितो नृपः पृथिव्यां पपात । लब्धसंज्ञश्च प्रियाविरहदुःखमसहमानः प्राणान् जिहासुः सद्यो विरचितां चितां तया सहाऽऽरोहयामास । यावच्च वह्निर्चलितुमारेभे, तावत् तत्र द्वौ Page #48 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-प्रथमः सर्गः ८३ विद्याधरावाजग्मतुः । तयोरेकोऽभिमन्त्र्य पयसा चितां सिषेच । ततश्च तत्कालं सा प्रतारिणीविद्याऽट्टहासं कुर्वती पलायिष्ट । ततो विस्मितः श्रीविजयः किमिदमिति तौ विद्याधरावपृच्छत् । तौ च प्रणम्योचतु:“आवाममिततेजसः पत्ती पितापुत्रौ सम्भिन्नश्रोतो-दीपशिखाभिधौ जिनबिम्बानि वन्दितुं स्वेच्छया निर्गतावत्राऽऽगच्छन्तौ करुणस्वरं "हा श्रीविजय ! प्राणनाथ ! हा बान्धवामिततेजः ! हा वत्स ! हा विजयभद्र ! हा त्रिपृष्ठकुलदेवता: ! इमां सुतारामस्माद् विद्याधरादविलम्बितं त्रायध्वं त्रायव"मिति विलपितमश्रौष्व । तत: स्वामिनः स्वसारं दुरात्मना हियमाणां ज्ञात्वा तं शब्दमन्वगच्छाव । सद्य एव चाऽशनिघोषेण गृहीतां सुतारामपश्याव । ततोऽतिकुपितावावामसी कृष्ट्वा जिघांसन्तौ तमुपस्थितौ । ___ ततः सुतारादेव्योक्तं-"युवयोर्युद्धेनाऽलं, ज्योतिर्वनं यातं, तत्र प्रतारणया विद्यया वञ्चयित्वाऽसून् त्याज्यमानं श्रीविजयं निषेधतम् । यतस्तस्मिन् जीवति जीवामि" । तदादेशाच्चाऽऽवामिह द्रुतं समुपस्थिती मन्त्रितोदकैश्चितावह्नि विध्यापितवन्तौ स्वः । इयं च प्रतारणी विद्या सुतारारूपधारिणी साट्टहासा पलायत । तत: सुतारां हृतां ज्ञात्वा श्रीविजयो नितरां विषण्णोऽभूत् । ततस्तौ विद्याधरौ तमूचतुःस्वामिन् ! मा ताम्य, स न कुशली स्यात्, भवतोऽनतिदूर एव "सोऽस्ति, क्व यास्यति ?" अथ तौ श्रीविजयं गाढमभ्यर्थ्य वैताढ्यं निन्यतुः । अमिततेजाश्च तं महत्त्या प्रतिपत्योचितासने समुपवेश्याऽऽगमनकारणं पप्रच्छ । ततः श्रीविजयेनेरितौ तौ विद्याधरौ सुतारापहरणवृत्तान्तमशेषत आचख्यतुः । ततोऽत्यन्तं कुपितोऽमिततेजा उवाच-"तव भार्यां मे स्वसारं सुतारामपहत्य स विद्याधराधमोऽशनिघोष: कियज्जीविष्यति ?" ततः सोऽर्ककीर्तिसुतः श्रीविजयाय शस्त्रावरणीं बन्धनी मोचनीं च विद्यामदात् । तथा रश्मिवेगादीनां स्वपुत्राणां शतपञ्चशतीं त्रैपृष्ठिना ८४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समं चमरचञ्चायां पुर्यामशनिघोषतः सुतारामाहर्तुं सद्य: प्राहिणोत् । त्रिपृष्ठतनयश्च श्रीविजयश्चमरचञ्चां प्राप्तवान् । तमशनिघोषमधिकविद्यं ज्ञात्वाऽमितौजाः स्वपुत्रेण सहस्ररश्मिना सार्धं परविद्याच्छेदकरी महाज्वाला नाम विद्या साधयितुं हिमवन्तं गिरिं ययौ । तत्र च प्रतिमाजुषो जयन्तस्य मुनेर्धरणेन्द्रस्य च पादमूले मासिकभक्तेन स्थितः साप्तरात्रिकी प्रतिमां समुद्वहन् विद्यासाधनकर्मणि प्रववृते । सहस्ररश्मिश्च तथास्थितं पितरं ररक्ष । एवं तयोस्तिष्ठतोः किञ्चिदूनो मासोऽभूत् । इतश्च चमरचञ्चाया बहि: स्थितः श्रीविजयोऽशनिघोषाय दूतं प्राहिणोत् । स दूतश्च तत्र गत्वाऽशनिघोषमुवाच-"सुतारामपहरता किमिदं लज्जाकरं कर्म त्वया कृतम् ? तच्छ्रीविजयस्तव प्रतारणी विद्यां कथमपि मोघीकृत्येहाऽऽयातो बलात् सुतारां नेष्यति, तत्स्वयमर्पय । तथैव त्वज्जीवितस्य कुशलम्" । ततः क्रुद्धोऽशनिघोषो जगाद-"यथाऽऽगतेनैव पथा स श्रीविजयः प्रयातु । सुतारां याचमानस्तु यमलोकमेव यास्यति । तदेतद् द्वयं विचार्य यातु तिष्ठतु वा । त्वमपि गत्वा तदग्रतो मद्वाचं समाख्याहि"। तेनैवमुक्तश्च स दूतस्तत्पुराद् बहिनिर्गत्य त्रैपृष्ठये सर्वं तद्वृत्तान्तमकथयत्। तच्छ्रुत्वा चाऽत्यन्तं कुपित: श्रीविजय: स्वां सेनां सज्जितामप्यसज्जयत् । अशनिघोषेणाऽपि चाऽऽदिष्टास्तत्सुता अश्वघोषाद्याः सर्वाभिसारतश्चमरचञ्चापुर्या द्वारि युद्धाय विनिर्ययुः । ततश्च द्वयोरपि सैन्ययो रणतूर्याण्यवाद्यन्त । द्वयोरपि सैन्ययोश्च परस्परच्छिन्नशिरो बाहुरथसारथ्यादि तुमुलं युद्धं प्रववृते । अस्त्रैः शस्त्रैर्बाहुभ्यां मायया च युद्ध्यमानयोर्द्वयोः सैन्ययोः किञ्चिदूनो मासो व्यतीयाय । तत्र च श्रीविजयस्य सैन्यैः पवनैदपा इवाऽशनिघोषकुमारा अभज्यन्त । ततोऽशनिघोषोऽपि महागदामुद्यम्याऽमिततेजसः पुत्रान् शीघ्रमेवाऽभाङ्क्षीत् । ततः क्रुद्धोऽरि तिष्ठ तिष्ठेति वदन् Page #49 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-प्रथमः सर्गः श्रीविजयो युद्धाय स्वयमढौकिष्ट । द्वावपि च तौ श्रीविजयाऽशनिघोषौ गर्जन्तौ परस्परं तर्जन्तौ शस्त्रशक्ति विद्याशक्ति च दर्शयन्ती लाघवादन्योन्यस्य प्रहारान् वञ्चयमानौ सुरासुरैर्वीक्ष्यमाणौ युयुधाते । अवसरं प्राप्य च श्रीविजयो विक्रम्य खड्गेनाऽशनिघोषं द्विधा व्यधात । तस्य च द्वावपि खण्डौ द्रावशनिघोषौ जातौ । तौ द्वावपि च लाघवाच्छ्रीविजयेन खण्डितौ चत्वारोऽशनिघोषा जाताः । यथा यथा च श्रीविजयेना-ऽशनिघोषाः खण्डितास्तथातथा ते द्विगुणा ववृधुः। एवं खण्डितैः सहस्रोऽशनिघोषैः पोतनेश्वर: परिवेष्टितः श्रान्तोऽभवत् । तावच्च सिद्धमहाज्वालाविद्योऽमिततेजाः समाययौ । आगच्छतश्च तत: सिंहान् मृगा इवाऽशनिघोषसैन्याः प्रणेशः । अमितौजाश्च द्विषो मा नश्यन्त्विति महाज्वालां विद्यां विन्ययुङ्क्त । ते च द्विषस्तया विद्यया मोहिताः शरणायाऽमिततेजसमेव समाययुः । ततोऽशनिघोषो गन्धगजं गज इवाऽमिततेजसमवलोक्य पलायिष्ट । ततो दूरादपि समानेतव्योऽयं दुरात्मेत्येवममिततेजसा समादिष्टा महाज्वालाविद्या सर्वविद्यान्तकारिणी पृष्ठतोऽशनिघोषस्याऽन्वधावत् । तस्याश्च शरणमनाप्नुवन् पलायमानोऽशनिघोषः शरणेच्छया दक्षिणभरतार्धं प्रविष्टवान् । तत्र च सीमाद्रौ श्रीऋषभप्रभोश्चैत्ये समवसरणस्थानस्थापितगजध्वजेऽचलो नाम बलदेवमुनिः शुक्लध्यान्येकरात्रिकी प्रतिमां प्रपन्नवानासीत् । घातिकर्मणां छेदाच्च तस्य महामुनेः केवलज्ञाने समुत्पन्ने तन्महिमानं विधित्सवः सुरा-ऽसुरा अभिनन्दन-जगन्नन्दनज्वलनजटिनस्त्रिजट्यर्ककीर्ति-पुष्पकेतु-विमलमत्यादयश्च समेत्य बलदेवमुनि प्रदक्षिणीकृत्य नत्वा यथास्थानमुपाविशन् । महाज्वालापातभीतोऽशनिघोषोऽपि तत्क्षणमचलं शरणं ययौ । महाज्वालाऽपि चाऽशनिघोषं मुक्त्वा न्यवर्तत । यतः शक्रकुलिशस्याऽपि केवलिपर्षदि प्रभावोऽपहीयते । ततः सा विद्याऽमिततेजसमुपेत्य तदशेष वृत्तान्तं निवेदितवती । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___मयूरो मेघध्वनिमिव तं वृत्तान्तमाकर्ण्य सर्वेऽमिततेजःश्रीविजयादयो मुमुदिरे । ततश्चाऽस्याः पुर्याः सुतारां समादाय द्रुतमानयेरिति मारीचिं समादिश्याऽत्युत्कण्ठितः ससैन्योऽमिततेजः श्रीविजयप्रभृतयो व्योमयानेन द्रुतं सीमाद्रिमुपाययुः । तत्र च प्रथमऋषभनाथबिम्बं वन्दित्वा तदन्वचलमुनि वन्दित्वा च तदग्रे निषेदतुः। मारीचिरपि च चमरचञ्चापुरीं प्रविश्याऽशनिघोषमातुः पार्श्वमुपेत्य कृतोपवासां सुतारां दृष्ट्वाऽशनिघोषमातुः सर्वं निवेदितवान् । साऽशनिघोषमाता चाऽपि तां सुतारामादायऽचलस्वामिसभायामागत्य न्यासीकृतामिव श्रीविजया-ऽमिततेजसो: समर्पयामास । बलदेवं केवलिनमचलं नत्वा च मुदिता यथास्थानं निषसाद । तदा चाऽशनिघोषोऽपि सामवाक्येन श्रीविजया-ऽमिततेजसौ क्षमयामास । ततः शान्तवैरेषु तेष्वचलस्वामी शुद्धिदायिनी देशनां विदधे । अशनिघोषोऽचलमुनि वन्दित्वा कृताञ्जलिविज्ञपयामास-"मया सुतारा दुष्टेन मनसा नाऽपहृता, किन्तु पुरा चमरचञ्चानगर्यां भगवतो जयन्तस्य महामुनेरायतने गत्वा सप्तरात्रमुपोषितो भ्रामरी विद्यामसाधयम् । ततः प्रतिनिवृत्तो ज्योतिर्वने श्रीविजयान्तिके सुतारामद्राक्षम् । दृष्टमात्रायां च तस्यां मम कोऽप्यनिर्वचनीयः स्नेहः समुदपद्यत । ततस्तां विना गन्तुमसमर्थोऽहं श्रीविजयान्तिकस्थायास्तस्या अपहर्तुमशक्यत्वात् प्रतारिण्या विद्यया श्रीविजयं मोहयित्वा सुतारामपाहार्षम् । स्वजनन्याः समीपे च ताममुञ्चम् । सेयमनिन्दिता निष्कलङ्काऽस्ति । अस्यां मया किमप्यशोभनं वचोऽपि नोक्तम् । भगवन् ! तदेतस्यां मम स्नेहकारणं समाख्याहि" | भगवानचलः सत्यभामा-कपिलयो: श्रीषणस्य शिखिनन्दिताऽभिनन्दितयोर्युगलिकादिभवसहितां कथामाख्यायाऽवोचत्-"आर्तध्यानी Page #50 -------------------------------------------------------------------------- ________________ ८७ पञ्चमं पर्व-प्रथमः सर्गः कपिलो मृत्वाऽनेकयोनिषु भ्रान्त्वा भूतरत्लायामटव्यामैरावत्या नद्या रोधसि तपोधनस्य जटिलकौशिकस्य पन्यां पवनवेगायां धमिलो नाम दारक उत्पेदे । स च निजपितुर्दीक्षामादाय बालतप: समाचरन् विहायसा गच्छन्तं विमानस्थं विद्याधरं दृष्ट्वा 'भवान्तरेऽमुष्य तपसः फलेनेग् भूयास'मिति निदानं कृत्वा मृतश्चमरचञ्चायां पुर्यामिन्द्राशनेविद्याधरस्याऽऽसुर्यां पत्न्यां त्वं सुत उदभूः । ततः प्राग्भवसम्बन्धात् तव सुतारायां होऽभवत् । पूर्वभवसंस्कारो हि जन्मशतान्यप्यनुयाति" । ___ततश्च सुतारा-ऽमिततेजःश्रीविजया-ऽशनिघोषाः प्राग्भवाकर्णनाद् विस्मिता: संवेगमीयुः । तथाऽमिततेजसा भव्योऽस्मि न वेत्येवं पृष्टो भगवानचलः पुनराह-"इतो नवमे भवेऽत्र भरते त्वं पञ्चमश्चक्रवर्ती भविष्यसि । तत्रैव च भवे शान्तिनाथ इति ख्यातः षोडशोऽहंश्च भविष्यसि श्रीविजयश्चाऽयं तत्र भवे तव पुत्रः प्रथमस्तव गणधरो भावी" । ततः श्रीविजया-ऽमिततेजसौ भगवन्तं प्रणम्य द्वादशविधं श्रावकव्रतं भेजतुः । ततोऽशनिघोष: पुनर्भगवन्तं प्रणम्य रचिताञ्जलिविज्ञपयामास"भगवन् ! त्वन्मुखात् प्राग्भवं श्रुत्वेदानीमपि मन्मन: कम्पते । अप्राप्तजिनधर्मस्य मम भूयांसोऽतिदुःखदा भवा अतीताः । अधुनाऽपि मां रक्ष रक्ष । अतः परमेकोऽपि क्षणो यतिधर्मरहितस्य मे मा गादिति मामद्यैव दीक्षां देहि" । ततो युक्तमेतदिति प्रोच्याऽचलेनाऽनगहीतोऽमिततेजसं सप्रश्रयमुवाच-"भाविनश्चक्रिणोऽर्हतश्च साम्प्रतं महाकुलप्रसूतस्य ते प्रणिपातं कुर्वतो मे न मनागपि लज्जा । एतेऽश्वघोषादयो मम सुता राज्यादीनि च त्वदीयं विद्धि नाऽन्यथा" । एवमुक्त्वा ज्यायांसं निजसुतमश्वघोषममिततेजसोऽङ्के क्षिप्त्वाऽचलस्वामिसन्निधौ भूयोभिर्नरेन्द्रैः सह दीक्षामग्रहीत् । श्रीविजयस्य माता स्वयम्प्रभा चाऽपि तत्राऽऽगत्याऽचलस्वामिपादान्ते दीक्षामग्रहीत् । ततो बलभद्रं नत्वा त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ऽमिततेजःश्रीविजया-ऽश्वघोषादयः स्वं स्वं स्थानं ययुः । अर्हत्पूजनादिकविधि विदधानौ च स्वे स्वे पुरेऽवतिष्ठमानौ श्रीविजयाऽमिततेजसौ कालं व्यतीयतुः । ___ अथाऽन्यदा पौषधौकसि पौषधं गृहीत्वाऽमिततेजा विद्याधराणामार्हतं धर्ममाचख्यौ । तदानीमेव च चारणमुनी तत्र चैत्ये जिनबिम्ब विवन्दिषू तत्र समागतवन्तौ । अमिततेजसा च दृष्ट्वा हृष्टेन वन्दितौ तौ त्रिः प्रदक्षिणापूर्वं जिनेन्द्रं वन्दित्वा तमूचतुः । संसारे प्राप्तमतिदुर्लभं मानुष्यकमविवेकेन मुधा न नेयम् । जैने धर्मे मनागपि प्रमादो न विधातव्यः । तद्विना नाऽन्यदुत्तरोत्तराभीष्टदम् । एवमनुशिष्य तौ पुनरेव विहायसा जग्मतुः । श्रीविजया-अमिततेजसौ च वर्षे वर्षेऽर्हतां चैत्येषु महिमत्रयं चक्रतुः । तत्र नन्दीश्वरे देवाश्चैत्रे चाऽश्विने चाऽष्टाह्निकोत्सवी कुर्वन्ति । अन्ये तु स्वस्वचैत्येष्वेव कुर्वन्ति । श्रीविजया-ऽमिततेजसौ च चैत्रा-ऽश्विनयोः स्वस्वचैत्येषु तृतीयं तु सीमाव्यादिषु चक्रतुः । __अथैकदाऽमिततेजाः स्वहये स्थितः प्रधानपुरुषैः परिवारितो मासक्षपणकं भिक्षार्थमागतं कञ्चिन्मुनि ददर्श । ततोऽभ्युत्थाय वन्दित्वा तं शुद्धैरन्नाद्यैः प्रत्यलाभयत् । तदानीं च तत्र सत्पात्रदानप्रभावतो वसुधारादिपञ्चदिव्यानि जज्ञिरे । एवं धर्मनिरतयोः सुखमग्नयोः श्रीविजया-ऽमिततेजसोभूयांसि वर्षसहस्राणि जग्मुः । एकदा च नन्दनवने शाश्वतार्हतो वन्दितुं सम्भूय श्रीविजयाऽमिततेजसावीयतुः । तत्र च तान् वन्दित्वा कुतूहलाद् भ्रान्त्वा यावद् नन्दनमीक्षाञ्चक्रे, तावत् स्वर्णशिलास्थौ विपुलमति-महामतिनामानौ चारणमुनी ददृशतुः । ततः श्राद्धौ तौ प्रदक्षिणीकृत्य वन्दित्वा च धर्मदेशनां शुश्रुवतुः । 'देहिनां मृत्युः सदा समीपवर्येव, ततः क्षणिक जीवितं जानन्तोऽपि ते मोहाद् धर्मोद्यमं न कुर्वन्ति । मोहो हि महाशत्रुः, स जन्मतो मरणावधि स्वात्महितं धर्म मूलाद् निकृन्तति । तस्माद् मोहं सर्वथा हित्वा धर्मः कार्यः । मानुषं जन्म हि पुनः ७शिष.भा-३ Page #51 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-प्रथमः सर्गः कथञ्चिदेव लभ्यम्" । तदाकर्ण्य च तौ श्रीविजया-ऽमिततेजसौ स्वमायुरवशिष्टमपृच्छताम् । तौ मुनी च षड्विंशतिदिनानि शेषमायुराचख्यतुः । तद्वचः श्रुत्वा च निविण्णौ तौ नृपावूचतु:"अस्माभिररण्यपुष्पवत् सदा विफलं जीवितं क्षपितम्" । ततस्तौ चारणमुनी तौ प्रत्यबोधयतां-"विषादेनाऽलम्, अद्याऽपि युवयोः प्रव्रज्या युज्यते । अन्तेऽपि गृहीता सा शुभगतिनिबन्धनम्"। ताभ्यां चैवं प्रबोधितौ तौ नृपौ निजस्थानमुपेत्य चैत्येषु परममष्टाह्रिकोत्सवं चक्राते । दीना-ऽनाथादिभ्यश्च यथारुचि ददतुः । तथा स्वपुत्रयो राज्यं दत्त्वा तौ नृपावभिनन्दन-जगन्नन्दनयोर्मुन्योः पुरतो व्रतं जगृहतुः । पादपोपगमनं नामाऽनशनं चक्रतुः । तदानीं च श्रीविजयः स्वपितरं सस्मार । स्वपितुरद्धिमधिकां स्वां च ऋद्धि हीनां विचिन्तयंश्च "ताहगेवाऽहं भूयास"मिति निदानमकरोत् । विपद्य च तौ श्रीविजयाऽमिततेजसौ प्राणते कल्पे सुस्थितावर्ते नन्दितावर्ते च विमाने मणिचूल-दिव्यचूलनामानौ सुरौ भूत्वा सुखं तस्थतुः । तथा मनसा प्राप्तेष्टौ सुखमग्नौ विंशतिसागरोपममायुरतिवाहयतः स्म ॥१॥ इति पञ्चमे पर्वणि श्रीशान्तिजिनस्य श्रीषेणादिकभववर्णनात्मकः प्रथमः सर्गः ॥१॥ द्वितीयः सर्गः अथ जम्बूद्वीपे प्राग्विदेहेषु रमणीयाख्ये विजये सीतानद्या दक्षिणे तटे शुभायां नगर्यां स्तिमितसागरो नाम नरपतिरासीत् । तस्य च शीलवत्यौ वसुन्धरा-ऽनुद्धराख्ये द्वे पल्यावास्ताम् । तत्र नन्दितावद्दमिततेजोजीवश्च्युत्वा वसुन्धराकुक्षाववातरत् । तदानीं च सुखसुप्ता सा स्वमुखे बलभद्रजन्मसूचकान् चतुरो महास्वप्नान् प्रविशतो दृष्टवती । ततः प्रबुद्धा राज्ञी राज्ञा "बलभद्रस्तव पुत्रो भावी"ति कथितस्वप्नफला मुदिता गर्भ धारयन्ती पूर्णे समये श्रीवत्साङ्कं श्वेतवर्णं सुलक्षणं सूनुं सुषुवे । नृपश्च पुत्रजन्मनाऽत्यन्तं मुदितो द्वादशेऽह्नि तस्य सुतस्याऽपराजित इति नामाऽकरोत् । तथा श्रीविजयजीव: सुस्थितावर्ताच्च्युत्वाऽनुद्धरायाः कुक्षाववततार । तदानीं च सा निशाशेषे सुखं शयाना स्वप्ने मुखे प्रविशत: सप्त महास्वप्नान् दृष्टवती । सुप्तोत्थिता सा राज्ञे तान् निवेदितवती, राज्ञा च विष्णुस्ते पुत्रो भावीति कथितं स्वप्नफलं निशम्य सा नितान्तं मुमुदे । गर्भं दधाना सा पूर्णे समये श्यामवर्णं नयनोत्सवं पुत्रं सुषुवे । नृपश्च प्रमुदितस्तस्य समहोत्सवमनन्तवीर्य इति नाम विदधौ । तौ च श्वेत-श्यामशरीरौ क्रमाद् वर्धमानौ गुरुसन्निधौ लीलयैव सर्वशास्त्राणि जगृहतुः । शैशवं क्रमादतीत्य च कामिनीजनस्पृहणीयं यौवनं प्रपेदाते । अन्यदा च तत्रोपवने नानातिशयसम्पन्न: स्वयम्प्रभो नाम मुनिराययौ । तदानीं च नृपः स्तिमितसागरो वाहकेल्यां वाहान् वाहयितुं पुर्या निर्ययौ । वाहान् वाहयित्वा श्रान्तश्च तद्वनं गतो यावत् Page #52 -------------------------------------------------------------------------- ________________ ११ पञ्चमं पर्व-द्वितीयः सर्गः क्षणं विश्राम्यति, तावदशोकतरुमूले प्रतिमाधरं ध्यानस्थं तं मुनिमपश्यत् । ततस्तं प्रदक्षिणीकृत्य वन्दित्वा पारितध्यानाद् मुनेर्धर्मलाभाशिषमाप्तवान्। तन्मुनेर्धर्मदेशनां च श्रुत्वा क्षणात् प्रतिबुद्धो निजं धाम गत्वाऽनन्तवीर्य निजराज्ये निवेश्य पुत्राभ्यां कृतनिष्क्रमणोत्सवः स्वयम्प्रभमुनिपार्श्वे पर्यव्राजीत् राजा । दुःसहानपि परीषहान् सहमानश्च मूलोत्तरगुणाश्चिरं सम्यक् पालयित्वाऽन्तकाले मनसा विराद्धचारित्रो विपद्य चमरेन्द्रो जज्ञे। अथाऽनन्तवीर्योऽपि सापराजितो मेदिनीमन्वशात् । एकदा च तयोः केनचिद् विद्याधरेण मैत्री जाता । ताभ्यां च स विद्याधरो विद्या प्रदाय साधयेथामिति चोपदिश्य वैताढ्यमगात् । तयोश्च बर्बरीकिरातीनाम्यौ गीत-नृत्यादिकुशले द्वे चेटिके आस्ताम् । अन्यदा च तौ बल-विष्णू ताभ्यामुत्तमं नाटकं कारयितुं प्रावर्त्तताम् । तदानीमेव च तत्र सभायां नारदः समाययौ । तस्य च बल-विष्णू नाटकाक्षिप्तमनसौ न सत्कारमकुरुताम् । तेन च कुपितो नारदश्चिन्तयामास-"मदादिमौ मां न सदकार्टाम् । तदेतस्या अवज्ञायाः फलं द्रुतं दर्शयिष्यामि" । एवं चिन्तयित्वा स नारदः सहसा वैताढ्ये दमितारिनृपान्तिकं जगाम । स चाऽभ्युत्थाय सप्रश्रयं नारदाय सिंहासनमदापयत् । सिंहासनं त्यक्त्वा स्ववृष्यामेवोपविष्टो नारदो व्याजहार-"राजन् ! महौजसे तुभ्यं स्वस्ति, तव राज्यादिषु सर्वत्र कुशलम् ?" ततो 'भवदनुग्रहात् सर्वत्र कुशलं, किन्तु भवन्तं पृच्छमि-'भवता क्वचिददृष्टपूर्वमाश्चर्य दृष्ट'मिति नृपेणोक्तो हर्षोत्फुल्लवदनो नारदोऽब्रवीत्-"अद्यैव शुभाख्यायां महापुर्यामनन्तवीर्यमहासभायां बर्बरी-किरातीभ्यामभिनीयमानं नाटकमद्राक्षम् । तादृशमद्भुतं नाटकं न मया क्वचिद् दृष्टम् । त्वं च सर्वाश्चर्यभूतवस्तूनां भाजनमसि । यद्यत्र तन्नाटकं नाऽऽनयसि, तहि ते राज्यादिनाऽल"मित्युदित्वा नारदस्ततो रभसा नभोमार्गेण प्रययौ । ९२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ दमितारिश्च त्रिखण्डविजयैश्वर्यगवितोऽनन्तवीर्यसविधे दूतं प्राहिणोत् । स दूतश्च तत्र गत्वा नत्वा चाऽनन्तवीर्यं सहाग्रजमभाषिष्ट"अत्र विजयार्धे यदद्भुतं वस्तु तत् सर्वं दमितारेः, तत्तस्मै तव प्रसिद्ध बर्बरी-किरात्यौ नाटककारिण्यौ चेटिके प्रेष्येताम्" । तच्छृत्वाऽनन्तवीर्यो जगाद-"इतस्त्वं सम्प्रति गच्छ। किञ्चिद् विचार्य शीघ्रं चेटिके प्रेषयिष्यामि" । ततो मुदितो दूतोऽभ्येत्य सिद्धं प्रयोजन दमितारये शशंस । इतश्च गूढामर्षों तौ बल-विष्णू “स विद्यासिद्धयादिबलेनाऽस्मानेवमाज्ञापयतीति पुरा मित्रेण विद्याधरेण दत्ता विद्या: साधयावः । ततश्च स क आवयोरग्रे ?" इति विचिन्तयतो यावत्, तावत् प्रज्ञप्त्याद्या विद्यास्तत्र समेत्य प्राञ्जलि जजल्पु:-"याः युवां सिसाधयिषू, ता एता विद्या वयं स्मः । पूर्वजन्मनि सिद्धा इदानीमप्युपस्थिताः । युवां समादिशतं, वयं युष्मद्वपुषि सङ्क्रमिष्यामः" । एवमस्त्विति तयोर्वाचा ता विद्या नद्योऽब्ब्योरिव तदङ्गयोस्तदात्मत्वं प्रतिपेदिरे । ततस्तौ स्वभावतो बलिनौ विद्यासिद्ध्या चाऽसाधारणौ तासां विद्यानां गन्धमाल्यादिभि: पूजां चक्रतुः । अत्राऽन्तरे च दमितारिणा निर्दिष्टो दूत: पुनरुपेत्य साक्षेपमभाषिष्ट"चेटिके प्रेषयिष्याव इत्युक्त्वा किमित्यद्याऽपि न प्रेषिते ?" ततो गूढकोपो विष्णुः साम्नोवाच-"यदि दमितारिश्चेटीभ्यामेव तुष्यति, तदपरेऽह्नि ते गृहीत्वा गच्छ" । ततो दूतो विष्णुप्रदत्तावासे कृतकृत्यमिवाऽऽत्मानं मन्यमानो ययौ । ततस्तौ च बल-विष्णू सुमन्त्रिषु राज्यभारमारोप्य विद्यया स्वस्य चेटीद्वयरूपं विधायोपेत्या-"पराजिता-ऽनन्तवीर्याभ्यां दमितारये प्रहिते स्व" इति दूतमूचतुः । दूतश्च ताभ्यां चेटिकाभ्यां समं गत्वा दमितार व्यजिज्ञपत्-"अत्र विजयार्धे कोऽपि भवत: शासनं न लङ्घयति । अपराजिता-ऽनन्तवीर्याभ्यां सविनयमिमे चेटिके प्राभृते प्रेषिते स्तः"। Page #53 -------------------------------------------------------------------------- ________________ ९४ पञ्चमं पर्व-द्वितीयः सर्गः ततस्ते चेटिके दृष्ट्वा दमितारि टिकाभिनयायाऽऽदिक्षत् । अदृष्ट पूर्वमभिनीतं नाटकं दृष्ट्वा चेटीद्वयं संसाररत्नभूतममन्यत स राजा । स्वपुत्री कनकश्रियं च नाटकशिक्षायै तयोर्मायाचेट्योः समर्पितवान् । तां शिरीषसुकुमाराङ्गी प्राप्तयौवना कुमारी दृष्ट्वा ते कपटचेट्यौ मधुरालापपूर्वकं साभिनयं तन्नाटकं भूयो भूयो दर्शयित्वा शिक्षयामासतुः। तथा नाटकस्य मध्ये मध्ये रूपादिभिर्गुणैरनन्तवीर्यं कामं वर्णयामासतुः। ततः कनकश्रीरपृष्छत्-"चेटिके ! कोऽयं पुरुषोत्तमो यो युवाभ्यां क्षणे क्षणे गीयते ?" ततो मायाचेट्यपराजितः स्मित्वाऽब्रवीत्-"शुभानने! शुभायां महापुर्यां स्तिमितसागरनृपतनयो ज्येष्ठोऽपराजितः कनिष्ठोऽनन्तवीर्यः । स कियद् वर्ण्यते ? जगति तत्तुल्यो नाऽपरः कोऽपि"। तदाकर्ण्य कनकश्रीः पुरतः स्थितं दृष्ट्वेवोत्कण्ठिता जाता । ततस्तां चिन्तितां विलोक्याऽपराजितः पुनरूचे-"मुग्धे ! अनन्तवीर्य मन्मुखाच्छ्रुत्वा किं ताम्यसि ? किं तं त्वं दिदृक्षसे?" ततः कनकश्री: सगद्गदमुवाच-"स कथं मया दृश्यः ?" ततो ज्येष्ठा चेट्युवाच"यदि तं दिदृक्षसे, अलं विषादेन । तमद्य दर्शयामि तव । विद्याशक्त्याऽपराजितमनन्तवीर्यमत्राऽऽनयामि" । ततो हृष्टा कनकश्रीरुवाच"एवं यदभिभाषसे, मन्ये मे दैवमनुकूलम् । किन्त्वधुनैवाऽऽत्मनो वाचमनुतिष्ठ" । ततस्तौ तुष्टावमराविव स्वं स्वं रूपमाविश्चक्रतुः । तत्राऽपराजित उवाच-"भद्रे ! मया य: कीर्तितः, स मद्भाताऽनन्तवीर्यस्तथाऽस्ति न वा ? मया तु स्तोकमेवाऽऽख्यातः। अस्य रूपादिवैभवं साम्प्रतं दृग्गोचरीकुरु" । ततो युगपद् विस्मया-वेगादिभावमापन्नाऽपराजितस्य ज्येष्ठमानिनी सोत्तरेण नीरङ्गीं विदधे । अनन्तवीर्योऽपि च स्मरोदयाद् रोमाञ्चितो जातः । ततः सहजमानमुत्सृज्य स्वयं दूतीत्वमालम्ब्य कनकश्रीरनन्तवीर्यमवदत्-"त्वं मे नाट्याचार्यः, तथा पतिरपि त्वमेव । यदि मां कामान्न पासि, तर्हि ते मद्धत्या त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्यात् । पुरा त्वया श्रवणमात्रेण मम हृदयं गृहीतम् । अधुना पाणिग्रहणेन मामनुगृहाण" । तदाऽनन्तवीर्योऽब्रवीत्-"यद्येवमिच्छसि, तद्युत्तिष्ठ, शुभां नगरी गच्छामः" । तच्छ्रुत्वा कनकश्रीः पुनरवोचत्-"त्वं मम प्राणेश्वरः, किन्तु मम पिता विद्याशक्त्या दुर्मदो दुष्टश्च । स महानर्थं करिष्यति । यतो भवन्तौ बलिनावपि निरस्त्रावेकाकिनौ च" । ततोऽनन्तवीर्यः स्मित्वोचे-"मा भैषीः, अपराजितेन सह युद्धे तव पिता न समर्थः । अन्यांश्च पृष्ठतः समायातान् युयुत्सूनहं हनिष्यामि, निःशङ्कमेतत् । ततो विश्रब्धा कनकश्रीरनन्तवीर्येण सह प्रतस्थे । अनन्तवीर्यश्चोबाहुः पौरान् राजपुरुषादींश्च सर्वान् सम्बोधयन् मेघघोषगभीरया गिरोवाच-"असावहमनन्तवीर्यः सापराजितो दमितारेः कन्यां स्ववेश्म नयामि । चौरिकयाऽपहतेत्यपवादो न दातव्यः" । एवमुद्घोषणं कृत्वा सापराजितः स वैक्रियेण विमानेन विहायसा चचाल । तच्छ्रुत्वा च दमितारिरत्यन्तं क्रुद्धो निजान् भटानादिशत्-"सभ्रातरममुं हत्वाऽथवा द्रुतं धृत्वा तनयां समानयध्वम्" । तेनैवमुक्ताश्च भटा उद्यतशस्त्रा अधावन्त । तदा चाऽपराजिता-ऽनन्तवीर्ययोर्हल-शाङ्गादिकानि दिव्यरत्नानि जज्ञिरे । तैश्च ताभ्यां हता दमितारिभटास्त्रेसुः । तां पलायितान् श्रुत्वाऽमर्षणो दमितारिः शस्त्रैर्गगनमाच्छादयन्नचालीत् । कनकश्रीश्च भटानां क्रोधालापाच्छ्रुत्वा मोहविह्वला जाता । ततस्तामाश्वासयन्ननन्तवीर्य उवाच-"मुधा किं मुह्यसि? ससैन्यं दमितारिं मया हन्यमानं पश्य"। एवं कनकश्रियमाश्वास्य सापराजितो वलित्वा सद्यो विद्यया द्विगुणां चमू सृष्टवान् । ___ ततः द्वयोः सैन्ययोस्तुमुलं युद्धं प्रववृते । दमितारेः सैन्या अपि विद्याशक्त्या दुर्मदा युद्धे न मनागप्यभज्यन्त । ततोऽनन्तवीर्यध्मातपाञ्चजन्यशङ्खध्वनिना मूच्छिता दमितारिभटा न्यपतन् । ततः स्वयं रथमारुह्य दमितारिः शस्त्रैरस्त्रैश्चाऽनन्तवीर्येण सह युयुधे । दुर्जयं च Page #54 -------------------------------------------------------------------------- ________________ ९५ ९६ पञ्चमं पर्व-द्वितीयः सर्गः तं ज्ञात्वा दमितारिश्चक्रं सस्मार । तच्च चक्रं ज्वालाशतसमाकुलं दमितारेः करे समापपात । भ्रमयित्वा च स तदनन्तवीर्याय मुमोच । तच्चक्रतुम्बाग्रघातेन मूच्छितः स विष्णुर्निपतितोऽपराजितवीजितश्च सुप्त इव द्रागुत्तस्थौ । पार्श्वस्थं तदेव चक्रमादाय च दमितारेः शिरश्चकर्त्त । तदानीं च मुदिताः सुरा विष्णोरुपरि पञ्चवर्णपुष्पवृष्टि चक्ररवोचंश्च -"भो भो ! विद्याधरेन्द्राः ! सर्वे तत्पराः श्रृण्वन्तु, अयमनन्तवीर्यों विष्णुः, अयमपराजितश्च बलदेवः । एतत्पादान् सेवध्वं । रणाच्च निवर्तध्वम्" । ततः सर्वे विद्याधरेन्द्रा बलदेव-वासुदेवौ शरणं ययुः । वासुदेवश्च साग्रजः शुभां पुरीं प्रति विमानस्थस्तैर्नृपैः सह प्रतस्थे। मेरोः समीपे च नृपैर्विष्णुरूचे-"श्रीमतामर्हतामाशातनां मा स्म कार्षीः। अत्र गिरौ बहुशो जिनचैत्यानि सन्ति, तानि यथाविधि वन्दित्वा व्रज"। ततो विष्णुः सपरिच्छदो विमानादवतीर्य तानि चैत्यानि वन्दित्वा कौतुकात् तं गिरिं पश्यन्नेकत्र वर्षोपवासप्रतिमास्थितं कीर्तिधरं मुनि तदैवोत्पन्नकेवलं देवारब्धमहिमानं दृष्ट्वा मुदितस्तं त्रि:प्रदक्षिणीकृत्य नत्वाऽग्रे निषध देशनां श्रुतवान् । अन्ते च कनकधीनत्वा तं मुनि पप्रच्छ-"मम कुत: पितृवधो बन्धुविरहश्च"। ततो मुनिराख्यत्-"धातकीखण्डे प्राग्भरते शङ्खपुरग्रामे श्रीदत्ता नाम नारी दारिद्र्यपीडिताऽऽसीत् । एकदा भ्रमन्ती सा श्रीपर्वतगिरि प्राप्य तत्र शुक्लध्यानस्थं सत्ययशसं नाम महामुनि ददर्श । तं नत्वा च सा पप्रच्छ-पूर्वजन्मनि मया मनागपि धर्मो न कृतः, येन साम्प्रतमतिदुःस्थिताऽस्मि । तव वचश्च न विफलमिति श्रेयसे मां किञ्चिदादिश । येन भवान्तरे भूयो नेदृशी स्याम्" । तद्वचः श्रुत्वा किञ्चिद् विचार्य च स मनिर्धर्मचक्रवालं नाम तपोऽनुष्ठातुमादिशत् । अत्र च तपसि द्वे त्रिरात्रे सप्तत्रिंशच्चतुर्थानि च भवन्ति । अमुष्य तपसः प्रभावाच्च पुनरीदृशं भवान्तरं न भविष्यतीति त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः फलं चाऽवोचत् । ततस्तद्वाचं गृहीत्वा तं प्रणम्य सा निजं गृहं गत्वा तत् तप: कर्तुमारेभे । तत्प्रभावाच्च पारणकेऽपि स्वाद्वप्राप्तपूर्वं भोजनं प्राप । ततः प्रभृति च सा धनिकगृहेषु द्विगुणं त्रिगुणं च कर्मवेतनं प्राप । एवं किञ्चिद्रव्यवती सम्पन्ना सा देवगुरूणां यथाशक्ति पूजा कर्तुमारेभे । एकदा च तस्या गृहस्यैकदेशो वाताघातात् पतितः । तत्र च सा स्वर्णादिकं लेभे । ततस्तप:समाप्तौ सा चैत्यपूजादिपूर्वक महदुधापनं विदधे । तपसोऽन्तपारणदिने च यावद् दिग्वीक्षणं करोति, तावन् मासक्षपणकं सुव्रतर्षि ददर्श । ततः स्वं कृतकृत्यं मन्यमाना स्वयं प्रासुकान्नादिना तं प्रतिलाभ्य नत्वा चाऽऽर्हतं धर्मं पप्रच्छ । ततो मुनिरब्रवीत्-"न एष कल्पो न, यद्भिक्षार्थं गतेन क्वाऽपि धर्मदेशना क्रियते । यदि ते धर्मशुश्रूषा, तदा मयि वसतौ गते समये आगच्छेः" । एवमुक्त्वा स मुनिर्जगाम । ततः पारणं कृत्वा स्वाध्यायं कुर्वति मुनौ तत्र पौरलोकः श्रीदत्ता च वन्दनार्थं समाजगाम । वन्दित्वा तेषु यथास्थानमुपविष्टेषु सत्सु मुनिः प्रसन्नया वाचा धर्मदेशनां विदधे । "संसारे चतुरशीतियोनिलक्षान् भवान् भ्रान्त्वा दैवात् प्राणी मानुष्यं लभते । तत्राऽपि च सर्वधर्मेषु प्रधानः सर्वज्ञकथितो धर्मः सुदुर्लभः । तस्मात्तत्र धर्म एव सम्यक्त्वपूर्वकं यत्नः कर्त्तव्यः । येन संसारी संसारं लीलया तरति" । ततः श्रीदत्ता सुव्रतपादयोर्नत्वा सम्यक्त्वपूर्वकं सर्वज्ञोक्तं धर्म जग्राह । मुनि नत्वा पौरलोकोऽपि सर्वो श्रीदत्ता च स्वस्वगृहं ययौ । ततः सा कियन्तं कालं तं धर्म प्रत्यपालयत् । कर्मविपाकाच्च तस्या मनसि विकल्पः समुदभूत्यज्जिनधर्मस्य परमं फलं कीर्त्यते, तत्फलं मम भविष्यति न वा ? तदनन्तरमेकदा सा सत्ययशसं मुनि वन्दितुं प्रस्थिता सा गगने विमानस्थं विद्याधरयुगलं समीक्ष्य तद्रूपमोहिता निजगृहमागत्य तां विचिकित्सामनालोच्या प्रतिक्रम्यैव च व्यपद्यत । Page #55 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व- द्वितीयः सर्गः ९७ इतश्चाऽस्मिन् जम्बूद्वीपे प्राग्विदेहेषु रमणीयाख्ये विजये वैताढ्यगिरौ शिवमन्दिरनगरे कनकपूज्यनामनृपतेर्वायुवेगाख्यायां पन्यामहं कीर्तिधरनामा तनयोऽभूवम् । मम पत्नी चाऽनिलवेगाख्या रात्रावेकदा सुप्ता श्वेतहस्तिनं गर्जन्तं मेघं कुम्भं च स्वप्ने दृष्टवती । तदैव प्रबुद्धा च मुदिता तान् स्वप्नान् मदग्रे ख्यातवती । अहं च त्रिखण्डविजयस्वामी चक्रवर्त्त्यर्धवैभवस्ते तनयो भावीति तत्फलमाख्यातवान् । पूर्णे च समये सा सर्वलक्षणसम्पन्नं सुतमसूत । गर्भस्थेऽस्मिन्मयाऽरयो विशेषतो दमिता इति तस्य दमितारिरिति नामाऽकार्षम् । स च क्रमेण वर्धमानः सर्वकलाकुशलो यौवनं प्रत्यपद्यत । एकदा च तत्र विहरन् श्रीशान्तिनाथो जिनः समवासार्षीत् । तं वन्दित्वोपविष्टोऽहं धर्मदेशनां श्रुत्वा सद्यो विरक्तो राज्ये दमितारिं निवेश्य तज्जिनपादमूले प्रव्रज्यां समादाय ग्रहणासेवनरूपे शिक्षे गृहीत्वाऽत्र पर्वते वार्षिकीं प्रतिमां विधायाऽद्यैवोत्पन्नकेवलो जातोऽस्मि । स दमितारिश्च महाबलो विजितत्रिखण्डविजयः प्रतिविष्णुर्जातः । तस्यैव मदिराख्यायां पल्यां श्रीदत्ताजीवस्त्वं कनक श्रीर्जाताऽसि । यच्च संशयमनालोच्याऽप्रतिक्रम्य मृता, तद्दोषात् ते बन्धुविरहः पितृवधश्च समजायत । धर्मस्य स्तोकोऽपि कलङ्कोऽत्यन्तदुःखाय जायते । ततः सद्यो विरक्ता कनक श्रीर्बलभद्र - विष्णू विज्ञपयामास - " यद्यल्पेनाऽपि दुष्कृतेनैवं दुःखमाप्यते, तदुष्कृतोत्पत्तिखानिभिः कामभोगैरलम् । तत् प्रसद्य प्रव्रज्याग्रहणाय मामनुमन्येथाम् । भवदुःखादत्यन्तं भीताऽस्मि । ततस्तौ गुरुपादप्रसादतस्तवेदमविघ्नमस्तु । किन्त्विदानीं शुभां नगरीं यामः, यथा तत्र ते महद्धय निष्क्रमणोत्सवं कुर्मः । तत्र च स्वयम्प्रभजिनेन्द्रपार्श्वे व्रतं गृह्णीयाः । तथेति स्वीकुर्वतीं तामादाय महर्षिं नत्वा तौ शुभां नगरीं जग्मतुः । तत्र च दमितारिणा पूर्वप्रेषितैर्भटैरनन्तसेनं स्वपुत्रं युध्यमानमपश्यताम् । तमनन्तवीर्यपुत्रं शूकरं श्वभिरिव परिवृतं प्रेक्ष्य बलभद्रः कोपात् स्वशस्त्रं हलं त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः भ्रमयन्नधावत । ततस्ते दमितारिभटा भीताः पलायामासुः । ततः सपरिवारो विष्णुर्नगरीं प्रविश्य शुभे दिने नृपैरर्धचक्रित्वेऽभ्यषिच्यत । aalsats ९८ अथ स्वयम्प्रभजिनो महीं विहरंस्तत्राऽन्यस्मिन् दिने समागत्य समवासार्षीत् । द्वारपालेन तथानिवेदितश्च तस्मै सार्धद्वादशरूप्यकोटी: प्रदाय विष्णुः साग्रजः सकनक श्रीकश्च तं वन्दितुं ययौ । तत्र च कनकश्रीः स्वयम्प्रभमुनेर्देशनां श्रुत्वाऽन्ते नत्वा प्राञ्जलिर्जगाद - "प्रभो! गृहे विष्णुमापृच्छ्य दीक्षार्थमागमिष्यामि, कृपां कुरु" । ततः प्रमादो न विधातव्य इति जिनेनोक्ते सा गृहं गत्वा विष्णुना कृतनिष्क्र मणोत्सवा तत्र प्रभोः समीपमेत्य प्राव्राजीत् । एकावल्यादिकं तपश्च विदधानायाः शुक्लध्यानस्थितायाश्च तस्या एकदा घातिकर्मक्षयात् केवलमुत्पन्नम् । क्रमेण च भवोपग्राहिकर्माणि क्षपयित्वा सा कनकश्रीरव्ययं पदमाससाद । बल-विष्णू चाऽपि विविधान् भोगान् भुञ्जानौ सुखमग्नौ कालं गमयामासतुः । अथ बलदेवस्य विरताख्यायां दयितायां सुमतिर्नाम कन्योत्पन्ना। बाल्यादेव सा जिनधर्मपरायणैकदोपवासान्ते पारणार्थं यावदुपविष्टा, तावत् कमपि मुनि द्वारागतं वीक्ष्य स्थालस्थापितान्नेन प्रतिलाभयति स्म । तदानीं च तत्र वसुधारादिकानि पञ्च दिव्यानि जज्ञिरे । मुनिरपि च ततः स्थानाद् विहृत्याऽन्यत्र जगाम । रत्नवृष्टिमाकर्ण्य तत्राऽऽगतौ तां दष्ट्वा विस्मितौ विस्मयजनकमेतस्याश्चारित्रमिति वादिनौ बलविष्णू कोऽमुष्या अनुरूपो वर इति चिन्तामग्नावीहाऽऽनन्देन मन्त्रिणा मन्त्रयित्वा तस्याः स्वयम्वरमहोत्सवं निश्चिक्यतुः । वासुदेवाज्ञया च तत्र स्वयम्वरार्थं सर्वे नृपाः समाजग्मुः । ततः स्वयम्वरमण्डपे समुपविष्टेषु नृपेषु विलक्षणाऽलङ्कारनेपथ्या सुमतिः समागत्य स्वयम्वरमण्डपमद्राक्षीत् । Page #56 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-द्वितीयः सर्गः तदानीमेव च तत्र मण्डपे देवतया रत्नसिंहासनस्थयाऽधिष्ठितं विमानमाविरभूत् । तद् दृष्ट्वा सा सुमतिः सर्वे नृपाश्च विस्मिता जाताः । तेषां पश्यतां च देवी विमानादवतीर्य मण्डपान्तरुपविश्य दक्षिणपाणिमुत्क्षिप्य सुमतिमूचे-"मुग्धे ! धनश्रीः ! बुध्यस्व, बुध्यस्व, प्राग्भवं स्मर । पुष्करवरद्वीपे प्राग्भरतस्य मध्ये श्रीनन्दनपुरे महेन्द्रनृप आसीत् । तस्य चाऽनन्तमतिनाम्नी पत्न्यासीत् । तया चैकदा निशाशेषे सुषुप्तया निजोत्सङ्गस्थिते पवित्रे पुष्पमाले स्वप्नो दष्टः । राज्ञा च तवाऽनवद्यं पुत्रीद्वयं भविष्यतीत्युक्ता च प्रमुदिता पूर्णे समये पुत्र्यौ जनितवती । तत्र प्रथमाऽहं कनकश्रीः, त्वं तु द्वितीया धनश्रीः। क्रमाच्च परस्परप्रीत्या वर्धमाने ते कलाकुशले यौवनं प्रापतुः । एकदा च क्रीडन्त्यौ ते गिरिपर्वताख्यं पर्वतमेत्य तत्र स्वादूनि फलानि सुरभीणि पुष्पाणि च विचिन्वन्त्यौ भ्रमन्त्यावेकत्र प्रदेशे नन्दनगिरि मुनि विलोक्य प्रमुदिते तं त्रिः प्रदक्षिणीकृत्य भक्त्या ववन्दाते । स मुनिश्च धर्मलाभाशिषं दत्त्वा तयोर्धर्मदेशनां विदधे । तां देशनां श्रुत्वाऽन्ते ते प्राञ्जली योग्यतानुसारं धर्मादेशं प्रार्थयामासतुः । मुनिश्च योग्यतां विचार्य द्वयोरपि द्वादशविधं धर्म दिदेश । ते जगृहतुश्च । ततस्ते मुनि वन्दित्वा निजगृहं समेत्य सावधानं तं धर्म पर्यपालयताम् । कदाचिच्च कुतूहलात् ते अशोकवनिकां गत्वा तत्र नदीतटे विविधक्रीडया क्रीडन्त्यौ त्रिपुराधिपो वीराङ्गो युवा विद्याधरोऽहार्षीत् । तस्य भार्या च वज्रश्यामलिका ते तस्मात् त्याजयामास । ततस्ते द्वे अपि भीमाटव्यां नदीतीरे वंशजालोपरि गगनात् क्षणात् पेततुः । तामापदं मरणान्तं ज्ञात्वा शुभभावनावत्यौ ते नमस्कारपरायणे अनशनं विदधाते । तयोरहं कनकश्रीविपद्य सौधर्मेन्द्रस्याऽग्रमहिषी नाम्ना नवमिकाऽभूवम् । त्वं धनश्रीश्च विपद्य कुबेरस्य महिषी भूत्वा ततश्च्युत्वाऽत्र बलभद्रस्य नाम्ना सुमतिः सुता जाताऽसि । तदा चाऽऽवयोः सङ्केतो जातो यत् "प्रथमं या च्यवते, सा द्वितीयया १०० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समुपेत्याऽर्हद्धर्म बोधनीया" । तत्त्वां बोधयितुमहमेषेहाऽऽगताऽस्मि । "संसारोदधितारणं जैन धर्म त्वं बुध्यस्व । नन्दीश्वरद्वीपे शाश्वतार्हता ता अष्टाह्निका जङ्गमार्हतां यथास्थानं जन्माधुत्सवान् पुराभवे स्वानुभूतास्ता देशनावाचश्च स्मर । अनया जन्मान्तरनिद्रया किं विस्मरसि ? सिद्धेः प्रियसखीतुल्यां परिव्रज्यामादत्स्व" । एवमुक्त्वा सा शक्रमहिषी विमानमधिरुह्य दिवं ययौ । सञ्जातजातिस्मरणा सुमतिश्च सुरीगिरा मूच्छिता भूमौ पतिता । शीतोपचारैर्लब्धसंज्ञा च समुत्थाय कृताञ्जलिरूचे-"भो भो ! पृथिवीनाथाः! जातिस्मरणवत्यहं प्रार्थये - मदर्थं यूयमाहूताः, अतो मां परिव्रज्यार्थमनुजानीत" । भूभुजोऽप्यूचुः-"अनघे ! तवैवमस्तु । अस्माभिरनुज्ञाताऽसि । तवेप्सितं निर्विघ्नमस्तु" । ततो देवराजस्य यक्षराजस्य च महिष्यस्तत्र समेत्य तां पूजयामासुः । सा च कन्यानां सप्तशत्या सह सुव्रताचार्यपादान्ते प्रव्रज्यामाददे । ततः सा द्विविधां शिक्षामादाय विविधं तपस्तप्त्वा संवेगभाविता तस्थौ । कालक्रमेण क्षपकश्रेणिमारूढवत्यसौ केवलं प्राप्ता । भव्यांश्च प्रबोध्य सर्वकर्माणि क्षपयित्वा सा सुमतिरव्ययं पदं प्राप । तावपराजिता-ऽनन्तवीयौं च सम्यक्त्वशालिनौ राज्यं पर्यपालयताम्। तत्र विष्णुरनन्तवीर्यश्चतुरशीतिपूर्वलक्षायुः पूरयित्वा निकाचितैस्तैः कर्मभिरादिमं नरकं ययौ । तत्र च द्विचत्वारिंशद्वर्षसहस्रायुर्विविधा वेदना लेभे । तत्र च विष्णोः प्राग्जन्मपिता चमरोऽपत्यस्त्रेहात् समेत्य तद्वेदनोपशमं चक्रे। तत: सोऽनन्तवीर्यजीव: संविग्न: स्वं कर्माऽवधिना स्मरन् ता वेदना अधिसेहे । बलभद्रोऽपराजितोऽपि भ्रातृशोकाद् राज्यं तनये निवेश्य जयन्धरगणधरपादान्ते षोडशसहस्रनृपैः सह व्रतमादाय सुचिरं तपस्तप्त्वा परीषहान् सहमानोऽनशनेन विपद्याऽच्युतेन्द्रोऽभवत् । Page #57 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-द्वितीयः सर्गः १०१ तदोऽनन्तवीर्यजीवोऽपि दुष्कर्मणां फलं भुक्त्वा नरकाद् निर्गत्याऽस्यैव जम्बूद्वीपस्य भरतक्षेत्रे वैताढ्योत्तरश्रेण्यां गगनवल्लभे पुरे विद्याधरेन्द्रस्य मेघवाहनस्य मेघमालिन्यां पत्न्यां मेघनादाख्यः सुतोऽभवत् । मेघवाहनश्च क्रमेण प्राप्तयौवनं तं राज्ये निवेश्य परिव्रज्यामग्रहीत् । स मेघनादश्च क्रमाद् द्वयोरपि श्रेण्योरधिपतिर्बभूव । एकदा च स पुत्राणां दशोत्तरं देशशतं विभज्य दत्त्वा प्रज्ञप्तिविद्यया मन्दराद्रिमगात् । तत्र नन्दनवने सिद्धचैत्ये पूजनं च व्यधात् । तदानीं च तत्र कल्पवासिनो देवा अवतेरुः । तत्राऽच्युतेन्द्रः प्राग्भवभ्रातृस्नेहात् तं विलोक्य संसारस्त्यज्यतामिति प्राबोधयत् । तदा चाऽमरगुरुर्नाम मुनिस्तत्र समाययौ । ततो मेघनादस्तत्पादमूले व्रतं प्रपद्याऽप्रमत्तः संयमपूर्वकं पालयन् नन्दनपर्वतमारुौकरात्रिकी प्रतिमां समालम्ब्य ध्यानी तस्थौ । तथा स्थितं च तं दृष्ट्वा प्राग्जन्मवैर्यश्वग्रीवपुत्रो भवं भ्रान्त्वा दैत्यजन्म प्राप्त उपसर्गानकरोत् । किन्तु तं ध्यानाच्चालयितुं नाऽशक्नोत् । ततो विस्मितः स जगाम । मेघनादमुनिश्च ध्यानं पारयामास । एवं तीव्रतरं तपश्चिरं चरित्वाऽन्तेऽनशनं विधाय मृत्वाऽच्युतसामानिकदेवभावमाप ॥ २ ॥ इति पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयषष्ठ-सप्तमभववर्णनात्मको द्वितीयः सर्गः ॥२॥ तृतीयः सर्गः अथाऽस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सीताया दक्षिणे तटे मङ्गलावत्यां विजये रत्नसञ्चयवत्यां रत्नसञ्चयानगर्यां प्रजानां योगक्षेमकरः क्षेमकरो नाम नृपो बभूव । तत्पत्नी च रत्नमालेव निर्मला रत्नमाला नाम्नी । तस्याः कुक्षौ चाऽच्युतेन्द्रोऽपराजितजीवोऽच्युतकल्पाच्च्युत्वाऽवततार । तदानीं च निशाशेषे सुखसुप्ता सा महादेवी चतुर्दश महास्वप्नान् पञ्चदशं वज्रं च स्वप्ने ददर्श । प्रबुद्धा च प्रमुदिता पत्ये तत्सर्वमाख्यातवती । नृपेण च चक्रवर्ती तव पुत्रो भविष्यतीति तत्फलमुक्तम् । ततः पूर्णे समये सा देवी मधुराकृति पवित्रं पुत्रं सुषुवे। गर्भस्थितेऽस्मिन् जननी वजं दृष्टवतीति पिता तस्य समहोत्सवं वज्रायुध इति नामाऽकरोत् । क्रमेण वर्धमानश्च स सर्वकलाकुशलो यौवनं प्रपेदे । तथा लक्ष्मीमिव सुलक्षणां लक्ष्मीवती नाम राजपुत्रीमुपायंस्त । तस्याः कुक्षौ चाऽनन्तवीर्यजीवोऽच्युताच्च्युत्वाऽवततार । सुस्वप्नसूचितं सुलक्षणं सुतं च सा पूर्णे समयेऽसूत । पितरौ च तस्य समहोत्सवं सहस्त्रायुध इति नाम चक्रतुः । स च चन्द्र इव क्रमशो वर्धमानः कलाकलापसम्पन्नो यौवनं प्रपद्य कनकश्रियं नाम राजकन्यां रूपलावण्यवतीं परिणिनाय । तस्यां च तस्य सहस्त्रायुधस्य शतबलिर्नाम महाबलः सम्पूर्णलक्षणः पुत्रोऽजनि । एकदा च पुत्र-पौत्रादिपरिवारयुतः क्षेमङ्करो नृपः सभामध्यास्त । तदा चैशानकल्पे देवानां चर्चा जाता “सम्यक्त्वशालिषु वज्रायुधः Page #58 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-तृतीयः सर्गः १०३ श्रेष्ठः" इति । तामश्रद्दधानश्चित्रचूलाभिधो देवो विविदिषया नास्तिको भूत्वा क्षेमङ्करपर्षदं समाययौ । तत्र च विविधेष्वालापेषु जायमानेषु स देव आस्तिक्यमाक्षिप्याऽवदत्-"पुण्यं पापो जीव: परलोकश्च नास्ति । एतेषामास्तिक्यबुद्ध्या देहिनो मुधा क्लिश्यन्ति" । ततो वज्रायुधोऽवोचत्-"प्रत्यक्षविरुद्धमेतत् त्वद्वचः । त्वमवधि प्रयुज्य सम्यक् पश्य । तवैतद्वैभवं प्राग्जन्मधर्मानुष्ठानफलमेव । त्वं पूर्वजन्मनि मोऽभवोऽधुना चाऽमर्त्यः । यदि जीवो न भवति, कथमेतद् घटते? तद् ब्रूहि । इह मर्त्यत्वमाप्तस्य तव परत्र देवत्वमिति परलोकोऽपि प्रत्यक्षसिद्ध एव" | एवं च तेन प्रबोधितः स चित्रचूल: साधु साध्वित्युवाच । त्वया कृपालुना संसारे निपतन्नेषोऽहमुद्धृतोऽस्मि । अथवा तव किमुच्यते ? यस्य पिता तीर्थकरः । चिराद् मिथ्यात्ववानस्मि, तन्मे सम्यक्त्वरत्नं देहि । ततो वज्रायुधोऽपि सर्वज्ञपुत्रस्तद्भावं ज्ञात्वा तस्मै सम्यक्त्वं दिदेश । ततश्चित्रचूल: पुनरूचे-"कुमार ! अद्य प्रभृति तवाऽहमादेशकारी, तदद्यैव किञ्चन याचस्व" । तत: कुमार उवाच"यद्येवं तर्यतः परं त्वया दृढसम्यक्त्ववता भाव्यमिति याचे" । एतत्तु मम स्वार्थमेव, अत: किञ्चिदन्यत् कार्यं ब्रूहीति देवेनोक्तो ममैवैतत् कार्यमिति कुमार उवाच । ततः स देवस्तस्मै दिव्यालङ्करणानि दत्त्वैशानेन्द्रसभां गत्वाऽवोचत्-"दृढसम्यक्त्ववानयं वज्रायुधः । अयं महात्मा भगवानहन् भावी" । तत ईशानपतिर्वज्रायुधमस्तावीत् । ___ एकदा च वसन्तसमये वसन्तपुष्पालङ्कारा सुदर्शनानाम्नी वेश्या वज्रायुधमजिज्ञपत्-"अद्य यूनां क्रीडासख: कामस्य जयसखोऽयं वसन्तो विजृम्भते । तत्स्वामिनी लक्ष्मीवती मया त्वां विज्ञापयतियत्सूरनिपाताख्यमुद्यानं गत्वा तत्र मधुश्रियं द्रष्टुं न: कौतुकम्" । यदा तदनुमन्य तदैव स कुमारः सपरिच्छदस्तदुद्यानं जगाम । लक्ष्मीवती १०४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रभृतीनि च सप्तदेवीशतानि ताराश्चन्द्रमिव तं कुमारमनुयान्ति स्म । तत्र गत्वा च विविधक्रीडाभिस्तदुद्यानं कुमारो विजहार । तेन विहारेण श्रान्तः सवधूजन: स जलक्रीडार्थं प्रियदर्शनां नाम वापी गत्वा तत्र प्रविश्य गिरिणद्यां द्विप इव प्रेयसीभिः समं क्रीडितुं प्रावतिष्ट । जलक्रीडया व्यग्रमानसे तस्मिन् कुमारे स्थिते च प्राग्जन्मशत्रुर्दमितारिजीवश्चिरं भवं भ्रान्त्वा देवत्वं प्राप्तो विद्युइंष्ट्राभिधस्तत्राऽऽजगाम । तं कुमारं दृष्ट्वा क्रुद्धः कुमारं सपरिच्छदं पेष्टुं तस्या वाप्या उपरिष्टात् पर्वतमुत्क्षिप्य चिक्षेप । नागपाशैश्च तं वज्रायुधं पदोरधो बबन्ध । ततो वज्री गिरिमिव स वज्रायुधस्तं पर्वतं मुष्ट्या पिपेष । तान् पाशांश्च बिसतन्तुवत् त्रोटयामास । ततस्तस्या वाप्या: सान्तःपुरपरीवारो निर्गतो नन्दीश्वरं गन्तुं विदेहजान् जिनान् नत्वा व्रजता शक्रेण दृष्टो वज्रायुधः । ततोऽत्र भवे चत्र्यसौ भाविन्यर्हन्निति सोपचारं शक्रेण पूजितो "धन्योऽसि त्वं षोडशस्तीर्थकर: शान्तिर्भावी''त्युक्तश्च स: यदृच्छया क्रीडन् निजं पुरं प्रविवेश । अथ क्षेमङ्करो लोकान्तिकामरैः प्रबोधितो दीक्षोत्सुको राज्ये वज्रायुधं निवेश्य वार्षिकं दानं प्रदाय प्रव्रज्यामाददे । स विविधाभिग्रहपरो दुस्तपं तपस्त्यक्त्वा घातिकर्मनाशादुत्पन्नकेवलो देवैः कृतकेवलज्ञानोत्सवः समवसरणस्थितो देशनां व्यघात् । तां च देशनां श्रुत्वा बहवो लोकाः प्राव्रजन् । वज्रायुधादयश्च स्वं स्वं स्थानं ययुः। अथाऽस्त्रागारिको वज्रायुधस्य 'अस्त्रागारे चक्ररत्नमुत्पन्न'मिति मुदाऽकथयत् । ततो वज्रायुधो महीयसी चक्रपूजां चक्रे । अन्यान्यपि च त्रयोदश महारत्नानि तस्याऽभूवन् । तथा चक्ररत्नानुगः स षट्खण्डं मङ्गलावतीविजयं सवैताढ्यमहीधरं व्यजेष्ट, सहस्रायुधकुमारं च यौवराज्ये न्यधत्त । ८शिष.भा-३ Page #59 -------------------------------------------------------------------------- ________________ १०५ पञ्चमं पर्व-तृतीयः सर्गः ___ एकदा च स वज्रायुधः सामन्तादिपरिवृतः सभामण्डपमध्यास्त । तदानीं चाऽम्बरतलादेको विद्याधरयुवा शरणाय तमागात् । तत्पृष्ठे च विद्याधरी खड्ग-फलकधरा सुरेखाऽप्यागात् । सा च चक्रिणमूचे"देव ! अयं दुरात्मा विसृज्यताम् । यथाऽस्य दुर्नयफलमचिरादृर्शयामि"। तत्पृष्ठतश्च गदापाणिर्यमदूत इव भीषणः क्रुद्धः कोऽपि विद्याधरः समागात् । स उवाच-"अस्य दुर्नयः श्रूयताम् । येनाऽहमियं चाऽस्य वधेच्छया समागतौ । अस्य जम्बूद्वीपस्य विदेहक्षेत्रे सुकच्छनाम्नि विजये वैताढ्ये पुरोत्तमे शुल्कपुरपुरे शुक्लदन्तनृपस्य यशोधरायां पल्यामहं पवनवेगो नाम तनयः । क्रमात् कलाकलापं यौवनं च प्रपन्नस्तत्रैव पुरे किन्नरपुरे दीप्तचूलनृपस्य चन्द्रकीर्तिनाम्न्यां पत्न्यां जातां सुकान्तां परिणीतवान् । तस्यां जाता तव पुरःस्थितेयं मम पुत्री शान्तिमती नाम । सेयं मणिसागरे पर्वते प्रज्ञप्तिकां विद्यां साधयन्त्यनेन विद्याधरेण व्योमन्युच्चिक्षिपे । तदानीमेव चाऽस्या विद्याऽसिध्यत् । तत: पलायितोऽयं विद्याधराधमः क्वाऽपि शरणमलभमानस्त्वत्पादमूलं प्राप्तोऽस्ति । अहं प्रज्ञप्तिविद्यापूजार्थं बलिं गृहीत्वा समागतस्तत्र गिरौ निजां दुहितरमपश्यम् । तत आभोगिन्या विद्यया सर्ववृत्तं ज्ञात्वेहाऽऽगतोऽस्मि । सोऽयं दुरात्मा त्यज्यताम् । यथाऽनया गदया दलयित्वैनं यमपुरं प्रेषयामि" । ततोऽवधिज्ञानाज्ज्ञात्वा वज्रायुधश्चक्रयवोचत्-भो ! अस्य प्राग्भवसम्बन्धः श्रूयताम् । अस्यैव जम्बूद्वीपस्यैरावते क्षेत्रे विन्ध्यपुरे नगरे विन्ध्यदत्तो नाम नृपोऽभवत् । तस्य च सुलक्षणाख्यायां पत्न्यां नलिनकेतुनामा सुतोऽभवत् । तत्रैव च नगरे धर्ममित्रो नाम सार्थवाहोऽभवत् । तस्य च श्रीदत्तायां पल्यां दत्तो नाम सुतोऽभवत् । दत्तस्य च प्रभङ्करा नाम दिव्यरूपा पत्न्यासीत् । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एकदा स वसन्ततॊ तया दयितया समं रन्तुमुद्यानं ययौ। नलिनकेतुश्च तदैव तत्राऽऽगतः प्रभङ्करां दृष्ट्वा तद्रूपमोहितः कामार्त्तस्तामहार्षीत् । तथा तया सह क्रीडोद्यानादिषु यथेच्छं रेमे । दत्तश्च तद्विरहानलपीडित उन्मत्त इव प्रभङ्करां ध्यायंस्तत्रोद्याने बभ्राम । भ्रमता च तेन सुमना नाम मुनिर्ददृशे । तदानीमेव च तस्य मुनेः केवलमुत्पन्नम् । देवैश्च तस्य केवलज्ञानमहिमा चक्रे । दत्तोऽपि च मुनि वन्दित्वा देशनां श्रुत्वा क्षणात् तापं विहायोपशान्तो दानकर्मनिरतः शुभध्यानी प्रकृष्टं पुरुषायुषमतिवाह्य जम्बूद्वीपे प्राग्विदेहे सुकच्छे विजये वैताढ्ये स्वर्णतिलके पुरे विद्याधरनरेन्द्रस्य महेन्द्रविक्रमार्कस्य पत्न्यामनिलवेगायां पुत्ररूपेणोदपद्यत । नृपश्च तस्याऽजितसेन इति नाम दधौ । विधिवद् विविधा विद्याश्च ददौ । यौवनं प्रपन्नश्च सोऽजितसेनो विद्याधरकन्या: परिणीय ताभिगिरि-वनादिषु रेमे । विन्ध्यदत्ते विपन्ने च विन्ध्यपुरे नलिनकेतू राजाऽभवत् । स च प्रभङ्करया सार्धं सुर इव वैषयिकं सुखं बुभुजे । एकदा च प्रभङ्करया सार्धं प्रासादमधिरूढः स उन्नतान् मेघान् दृष्ट्वा मुमुदे । तेषां च प्रचण्डवातेनेतस्ततो नीयमानानां मेघानामुत्पत्ति विपत्ति च क्षणेन जातां दृष्ट्वा जातवैराग्योऽचिन्तयत्-"व्योम्नि वारिदा इव संसारे सुखमपि क्षणादस्तमेति । एकस्मिन्नेव जन्मनि जनो युवा वृद्धो, धनी रङ्को, विरुक् सरुक् च जायते । भवे सर्वं क्षणिकं धिक्" । एवं विमृश्य स्वं पुत्रं राज्ये निवेश्य क्षेमकरतीर्थकरपार्श्वे प्रव्रज्यां गृहीतवान्। तपो-ध्यानादिभिश्च घातिकर्मक्षये तस्य कालक्रमेण केवलं ज्ञानमुत्पेदे। तथा सर्वकर्माणि हत्वा स क्षणादव्ययं पदं प्राप । प्रभङ्करा चाऽपि सुव्रतागणिनीपार्श्वे चान्द्रायणं तपोऽचरत् । तस्य प्रभावाच्च सम्यक्त्वादिकं विनाऽपि विपद्य तवेयं शान्तिमती पुत्री जज्ञे । दत्तजीवोऽजितसेनश्चैष विद्याधरः पूर्वस्नेहादेनामहार्षीदिति मा कुपः । Page #60 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-तृतीयः सर्गः १०७ अनुबन्धं त्यक्त्वैनं क्षमयतम् । यतः कषाया नरकायैव भवन्ति । एवं वज्रायुधगिरा मुक्तवैरास्त्रयोऽपि संविग्ना: परस्परं क्षमयामासुः । तत: पुनश्चयवोचत्-“यूयं त्रयोऽपि क्षेमङ्करजिनान्तिकेऽचिरेणैव प्रव्रज्यां ग्रहीष्यथ । तत्र शान्तिमती रत्नावलीतपो विधायाऽनशनेन मृत्वेशानेन्द्रो भविष्यति । युवयोश्च तदैव घातिकर्मपरिक्षयात् केवलं ज्ञानमुत्पत्स्यते । स चेशानेन्द्रः समेत्य यवयोः केवलज्ञानमहिमानं भवन्मृतदेहपूजां च महोत्सवात् करिष्यति । ततः कालक्रमेण च्युत्वा चेशानेन्द्रो मर्त्यतां प्राप्योत्पन्नकेवलज्ञान: सिद्धिमासादयिष्यति" । चक्रिणश्च त्रिकालज्ञानविषयं तद्वचः श्रुत्वा तत्र सर्वे सभासदो विसिष्मियिरे । तत: पवनवेगः शान्तिमती सोऽजितसेनश्च त्रयोऽपि राजानं नत्वोचुः-"त्वमेवाऽस्माकं पिता स्वामी गुरुर्देवश्च । अन्यथाऽपायप्रवृत्तानां नः कोऽन्यस्त्राता भवेत् ? तदनुमन्यस्व, अद्यैव वयं क्षेमकरजिनेश्वरं गमिष्यामः" । ततश्च नृपेणाऽनुज्ञातास्ते त्रयोऽपि क्षेमङ्करजिनान्तिकं गत्वा प्रव्रज्योग्रं तपस्तेपिरे। चयुक्तप्रकारेण च परमं पदं ययुः । वज्रायुधश्चक्री च सहस्रायुधेन सहेन्द्रो दिवमिव भुवं पालयामास । एकदा च सहस्रायुधपत्नी जयना निशि स्वप्ने भास्वरां कनकशक्ति ददर्श । तया ख्यातस्य च तस्य स्वप्नस्य "महाशक्तिस्तव पुत्रो भविष्यती"ति पतिः फलमुक्तवान् । तत्प्रभृति गर्भं दधाना सा पूर्णे समये तनयरत्नमजनिष्ट । पितरौ च तस्य दृष्टस्वप्नानुसारेण समहोत्सवं कनकशक्तिरिति नाम चक्रतुः । स च क्रमाद् बाल्यमतीत्य प्राप्तयौवनः सुमन्दिरपुरे मेरुमालिनो मल्लागर्भजां रूपलावण्यशालिनी कनकमालां नाम तनयामुपयेमे । तस्याश्च कनकमालाया: सखीं मशकासारपुरनृपस्याऽजितसेनस्य प्रियसेना १०८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुक्षिभवां वसन्तसेनां स्वयम्वरां पित्रा प्रेषितां कनकशक्तिर्यथाविधि परिणिन्ये । तदुद्वाहतश्च तस्या वसन्तसेनाया: पैतृष्वस्रेयश्चुकोप । ___ एकदा च कनकशक्तिरुद्याने कमप्येकं नरमुत्पतन्तं निपतन्तं च वीक्ष्य कस्त्वमिति पप्रच्छ । ततः स नर उवाच-"अहं विद्याधरोऽस्मि । वैताढ्यशैलात् केनचिदर्थेनाऽग्रतो गच्छन्निहोद्याने समापतम् । अत्र चोद्यानरम्यतां पश्यन् क्षणं स्थित उत्पित्सुर्यावदाकाशगामिनी विद्यामस्मार्षम् तावत् तस्या विद्याया एकं पदं विस्मृतम् । तेनेषद्बद्धपक्ष: पक्षीवोत्पतामि निपतामि च" । ततः कनकशक्तिरुवाच-"यद्यपरस्याऽग्रतस्तत् पठितुं युज्यते तहि यावत् स्मृतं पठ" । ततस्तेन विद्याधरेण पादहीनायां तस्यां पठितायां पदानुसारिबुद्धिर्नृपस्तत्पादमाख्यत् । ततः पुनर्जातविद्याशक्तिः स विद्याधरः प्रमुदितो नृपाय विद्या: प्रदाय यथागतं ययौ । कनकशक्तिरपि ता विद्या यथाविधि साधयित्वा महाविद्याधरोऽभवत् । वसन्तसेनायाः पैतृष्वस्रेयश्चाऽतिरुष्टोऽपि कनकशक्तेरपकर्तुमसमर्थो लज्जया भक्तपानादि परिहृत्य विपद्य च हिमचूलनामा देवोऽभवत् । कनकशक्तिश्च वसन्तसेना-कनकमालाभ्यां सह विद्याशक्त्या समीरवद् महीं भ्रमन् हिमवगिरि प्राप्तो विपुलमत्याख्यं चारणं मुनि दृष्ट्वा वन्दित्वा भार्याभ्यां सह तदीयदेशनां श्रुत्वा प्रबुद्धस्ते भार्ये गृहे मुक्त्वा प्रवव्राज । ते देव्यावपि च संविग्ने विमलमतेरार्याया: पार्श्वे व्रतं जगृहतुः ।। कनकशक्तिश्च विहरन् सिद्धगिरि प्राप्तस्तत्र शिलायामेकरात्रिकया प्रतिमया स्थिरस्तस्थौ। तत्र च तथास्थितं तं दृष्ट्वा दुराशयो हिमचूलसुर उपसर्गान् कर्तुं प्रचक्रमे । तं च तथा कुर्वन्तं विद्याधरा न्यत्रासयन् । ततः प्रतिमां पारयित्वा विहरन् स रत्नसञ्चयां नगरी प्राप्तः सूरनिपाताख्ये वने एकरात्रिकी प्रतिमां चक्रे । ततश्च क्षपकश्रेणिमारूढस्य तस्याऽमलं केवलमुत्पन्नम् । तदा सुराः समुपेत्य Page #61 -------------------------------------------------------------------------- ________________ १०९ ११० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सहस्रायुधोऽपि राज्यलक्ष्मी यथाकामं बुभुजे । एकदा च तत्र पुर्यां पिहितास्रवं गणधरं समवसृतं विज्ञाय सहस्रायुधः समुपेत्य भक्त्या वन्दित्वा धर्मदेशनां श्रुत्वा तत्क्षणं प्रबुद्ध: स्वे राज्ये पुत्रं शतबलि निधाय तद्गणधरपादान्ते प्रव्रज्यामादाय द्विविधशिक्षासम्पन्नो महीं विहरन् वज्रायुधस्य राजर्षेरमिलत् । ततः संयुक्तौ तौ पितापुत्रौ तपो-ध्यानपरौ पुर-ग्रामादिषु विहरन्तौ सुखेन प्राज्यं कालं गमयित्वेषत्प्रारभाराख्यं गिरिमारुह्य पादपोपगमाभिधमनशनं प्रपद्याऽऽयुःक्षये तृतीये ग्रैवेयकेऽहमिन्द्रत्वमाप्य पञ्चविंशतिसागरोपमस्थिति तस्थतुः । इति पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयाष्टम-नवमभववर्णनात्मकः तृतीयः सर्गः॥३॥ पञ्चमं पर्व-तृतीयः सर्गः तस्य केवलज्ञानमहिमानं चक्रुः । हिमचूलश्च तद् दृष्ट्वा भीतस्तं शरणं ययौ । वज्रायुधोऽपि च तस्य मुनेर्यथावद् महिमानं विधाय देशनां श्रुत्वा स्वपुरीं ययौ । अथाऽन्यदा क्षेमङ्करप्रभुस्तत्र समवसृतः । तच्छ्रुत्वा च सपरिच्छदो वज्रायुधस्तत्र गत्वा यथाविधि वन्दित्वा यथास्थानमुपविश्य धर्मदेशनामश्रौषीत् । देशनान्ते च नत्वा स चक्र्यवदत्-"स्वामिन् ! संसाराद् भीतोऽस्मि, ततः स्वे राज्ये सहस्रायुधं निवेश्य यावदागच्छामि, तावद् मम दीक्षां दातुं प्रतीक्षस्व" । ततो 'न प्रमादो विधातव्य' इति स्वामिनोक्तः स निजां पुरीं गत्वा सहस्रायुधं राज्ये निवेश्य सहस्रायुधेन कृतनिष्क्रमणोत्सवः क्षेमङ्करजिनपार्श्वमेत्य राज्ञीनां नृपाणां च चतुःसहस्त्रया पुत्राणां सप्तशत्या च सह व्रतमाददे । विविधाभिग्रहपरः परीषहान् सहमानश्च वज्रायुधमुनिर्विहरन् सिद्धगिरिमुपेत्योपसर्गान् सहिष्येऽहमिति बुद्ध्या तत्र विरोचने स्तम्भे वार्षिकी प्रतिमां दधौ । इतश्चाऽश्वग्रीवसुतौ मणिकुम्भो मणिकेतुश्च द्वावपि भवान् भ्रान्त्वा कृतबालतपसावसुरभावमापन्नौ स्वैरचर्यया तत्र समायातौ तं मुनिमपश्यताम् । ततश्चाऽमिततेजोभववैरेण तं मुनिमुपद्रोतुं प्रारेभाते। तौ सिंहीभूयोभयोः पार्श्वयोस्तं मुनि नखरैश्चख्नतुः, कुञ्जरीभूय कराद्याघातैर्जघ्नतुः, भुजगीभूय तस्य द्वयोः पार्श्वयोर्दृढबन्धं ललम्बात, राक्षसीभूय च तीक्ष्णदंष्ट्राभिः पीडयामासतुः। इत्थं यावत् तौ तं मुनिमुपाद्रवतां, तावदिन्द्रपन्योऽर्हन्तं वन्दितुं चेलुः । तस्य मुनेश्चोपसर्ग कुर्वाणौ तौ दृष्ट्वा "आः पापौ ! यवाभ्यां किमिदमारब्ध"मिति ब्रुवाणाश्च ता गगनादवतेरुः । ताः प्रेक्ष्य च भयातौं तौ सतुः । ततश्च रम्भाद्याः सुरस्त्रियो भक्तितस्तस्य मुनेरग्रे नाट्यं विस्तारयामासुः । तं मुनि वन्दित्वा च स्वं स्वं स्थानं ययुः । स मुनिरपि वार्षिकी प्रतिमां पारयित्वा महीं विजहार । Page #62 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः अथाऽस्य जम्बूद्वीपस्य प्राग्विदेहेषु पुष्कलावत्यां विजये सीतानद्याः समीपे पुण्डरीकिण्यां नगर्यां घनरथो नाम नृपतिरासीत्। तस्य च प्रियमति-मनोरमानाम्न्यौ द्वे पत्न्यावास्ताम् । तत्र प्रियमत्या उदरे वज्रायुधजीवो ग्रैवेयकाच्च्युत्वा समवातरत् । तदा च तया निशाशेषे स्वप्ने मुखे प्रविशन् गर्जन् वर्षन् विद्युद्भास्वरश्च मेघो दृष्टः । तयाऽऽख्यातस्वप्नश्च महीपतिर्मेघ इव पृथिवीसन्तापहृत् तव पुत्रो भवितेति फलं व्याजहार । मनोरमादेव्या उदरे च सहस्रायुधजीवो ग्रैवेयकाच्च्युत्वाऽवतीर्णवान् । तयाऽपि च तदा स्वप्ने किङ्किणीपताकादिशोभितो रथो ददृशे । राज्ञा च ज्ञातस्वप्नेन महारथश्रेष्ठस्तव पुत्रो भावीति फलमूचे । पूर्णे च समये ताभ्यामुभौ तनयौ सुषुवाते। राजा च शुभेऽहनि क्रमेण प्रियमत्याः सूनोर्मेघरथ इति मनोरमाया: सूनोश्च दृढरथ इति स्वप्नानुसारेण नाम चक्रे । तौ च क्रमेण वर्धमानौ सर्वकलाकुशलौ यौवनं प्रापतुः । ___ अथैकदा निहतशत्रोः सुमन्दिरपुरनृपस्याऽमात्यः समेत्य घनरथं प्रणम्य व्यजिज्ञपत्-"नृप ! तव कुन्दधवला कीर्तिदिक्षु निर्बाधं प्रसरति । सुमन्दिरपुरेशितुनिहतशत्रोस्तिस्रः कन्याः सन्ति । तत्र मेघरथस्य द्वे दृढरथस्य चैकां स दित्सते, "तदनुमन्यस्वे"ति । तदा घनरथ ऊचे-"अमुना सम्बन्धेन नौ स्नेहो दृढीभवतु" । ततो नृपो दैवज्ञेन लग्नं निर्णीय कुमारयोरागमनं च प्रतिपद्य तं सचिवं विससर्ज । ११२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ____ सचिवश्च प्रमुदितः सुमन्दिरपुरमेत्य नृपं निहतशत्रु तवृत्तमाख्यायाऽहर्षयत् । घनरथश्च दृढरथेन सहितं मेघरथं सुमन्दिरपुरं प्रति प्रेषीत् । तौ च सैन्यपरिवारपरिवृत्तौ कतिपयैः प्रयाणैः सुरेन्द्रदत्तनृपदेशसीमन्यूषतुः । तत्र च सुरेन्द्रदत्तेन शिक्षित्वा प्रेषितो दूतोऽभ्युपेत्य मेघरथमुवाच-"न: स्वामी 'अस्मद्देशमध्येन मा गास्त्व'मिति वक्ति । अन्येन मार्गेण गच्छ, अन्यथा न ते कुशलम्"। ततो मेघरथो विहस्योवाच-"अस्माकमयमेव मार्गः सरलः, स कथं त्यज्यताम् ? अतो वयमनेनैव मार्गेण यास्यामः। तव स्वामी स्वशक्ति दर्शयतु"। तच्छ्रुत्वा कुपितः सुरेन्द्रदत्तो रणभेरीमवादयत् । तथा सर्वथा सन्नद्धेन सैन्येन मेघरथं प्रति रणेच्छु: प्रतस्थे । मेघरथोऽपि दृढरथेन सह रथमारुह्य सैन्यानि रणायाऽऽदिदेश । प्रवृत्ते च शस्त्रसम्पाते परैः कुमारयोः सैन्यमभञ्जि। ततः क्रुद्धौ कुमारौ परसैन्यमध्यं विगाह्य तद् ममन्थ । ततः सुरेन्द्रदत्तो युवराजेन सहितस्ताभ्यां योद्धं प्रावृतत् । ततश्च मेघरथ-दृढरथाभ्यां तौ रणे खेदयित्वा शीघ्रं बबन्धाते । तस्मिन् देशे च निजाज्ञां प्रवर्त्तयित्वा तौ सुमन्दिरपुरं प्रतीयतुः । निहतशत्रुश्च तयोः सहर्ष स्वागतादिकं विधाय सुलग्ने मेघरथेन प्रियमित्रा-मनोरमे दृढरथेन च सुमतिं परिणाययामास । ततो विवाहे जाते राज्ञा विसृष्टौ तौ कुमारौ स्वां पुरीं प्रति गच्छन्तौ सुरेन्द्रदत्तं सयुवराजं स्वे राज्ये पूर्ववत् संस्थाप्य निजां नगरी प्राप्तवन्तौ । तत्र च प्रियाभिस्तौ विविधान् भोगान् भुञ्जानौ सुखेन कालं गमयामासतुः । तत्र मेघरथस्य पत्नी प्रियमित्रा नन्दिषेणं, मनोरमा च मेघसेनं, दृढरथस्य पत्नी सुमतिश्च रथसेनं नाम पुत्र सुषुवे । अन्येधुश्च घनरथोऽन्तःपुरे कलत्र-पुत्र-पौत्रादिभिः परिवृतः कुक्कुटहस्तया सुसेनाख्यया वेश्यया व्यज्ञपि-"देव ! अयं मे कुक्कुट: स्वजातिषु रत्नम् । यत: केनाऽपि कुक्कुटेन कदाऽप्ययं न जीयते । यदि कस्याऽपि कुक्कुट एनं जयेत् तदाऽहं तस्य दीनाराणां लक्षं पणे Page #63 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व चतुर्थः सर्गः ११३ दास्यामि । यद्यपरस्याऽपि तादृशः कुक्कुटोऽस्ति, तर्हि स मत्पणमुत्क्षिपतु" । तच्छ्रुत्वा मनोरमोचे-‘अहं पणं स्वीकरोमि । मत्कुक्कुटेन तवाऽयं कुक्कुट इहैव युध्यताम्' । ततो राज्ञैवमस्त्विति प्रोक्ते मनोरमा चेटिकया वज्रतुण्डाख्यं निजं कुक्कुटमानाय्य युद्धाय मुमोच । तौ चौ कुक्कुट चित्रयुद्धनिपुणौ परस्परं निपत्योत्पत्योपसृत्याऽपसृत्य चप्रहारान् ददतुः प्रतीषतुश्च । प्रचण्डचञ्चचरणप्रहारोद्भूतशोणितैस्तयोरङ्गानि ताम्राण्यपि ताम्राण्यभूवन् । लोकश्च द्वयोः कस्य जय इति निर्णेतुं न शशाक । ततो द्वयोर्युध्यमानयोर्धनरथोऽवदत्-"अनयोः कोऽपि केनाऽपि न जेष्यते" । ततो मेघरथेन कारणं पृष्टः स ज्ञानत्रयधरो घनरथ उवाच - "अनयो: पूर्वभववृत्तं श्रूयताम् अस्मिन्नेव जम्बूद्वीपे ऐरावतक्षेत्रे रत्नपुरे पुरे धनवसुर्दत्तश्च द्वौ मित्रे वणिजावभूताम् । तौ च धनाशया भाण्डैः शकटादिकं भृत्वा व्यवहाराय ग्रामादिषु भ्रमतुः । लोभाभिभूतौ क्रूरौ च तौ निष्करुणं पीडितानपि वृषभान् ताडनादिभिर्बलाद् वाहयन्तौ कूटमानादिभिर्जनान् वञ्चयन्तौ एकद्रव्याभिलाषात् परस्परं युध्येते स्म । इत्थं युध्यमानौ प्रपन्नार्तध्यानौ गजायुर्बद्ध्वा श्रीनदीतीर्थे मृतौ पुरैरवते स्वर्णकूलाख्यनदीतटे गजौ जातौ ताम्रकलश-काञ्चनकलशाभिधौ प्राप्तयौवनौ प्रस्रवन्मदौ स्वैरं विजहतुः । एकदा च स्वस्वयूथेन पर्यटन्तौ तौ गजावन्योन्यं ददृशतुः । ततश्च प्राग्जन्मरोषादुद्भूतरोषौ परस्परवधायाऽधावताम् । चिरं च दन्तादन्ति शुण्डाशुण्डि युद्धं विधाय जन्मान्तरेऽपि युद्धार्थमिव युगपद् मृतौ । अस्य जम्बूद्वीपस्यैव च भरतक्षेत्रेऽयोध्यायां पुरि नन्दिमित्रो नाम भूरिमहिषीधनोऽभूत् । तस्य महिषीयूथे च तौ महिषौ जातौ पीनाङ्गौ यौवनं प्रपेदाते । देवानन्दाकुक्षिभवौ शत्रुञ्जयनृपात्मजौ ११४ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः धनसेन - नन्दिषेणौ च तौ महिषावपश्यताम् । ताभ्यां च कुतूहलात् तावुभौ महिषावयुध्येताम् । चिरं युद्ध्वा च तौ विपद्य तत्रैव पुर्यां काल-महाकालाख्यौ दृढाङ्गौ मेण्ढकौ जातौ । दैवादेकत्र मिलितौ प्राग्वैरादभियुध्य विपद्य समविक्रमावेतौ कुक्कुटौ जातौ । अतः प्राग्वदेतयोर्न कोऽप्यन्येन जेष्यते । किं चेमौ न केवलं पूर्ववैराविष्टौ, किन्तु विद्याधराधिष्ठितौ युध्येते । अस्यैव जम्बूद्वीपस्य भरते वैताढ्योत्तर श्रेण्यां स्वर्णनाभपुरे गरुडवेगो नाम नृपोऽभूत् । तस्य पत्नी धृतिषेणा च स्वोत्सङ्गस्थितचन्द्र-सूर्यस्वप्नसूचितौ चन्द्रतिलक-सूर्यतिलकाख्यौ सुतौ सुषुवे । तौ च प्रपन्नयौवनौ मेरुं गतौ शाश्वतार्हतां प्रतिमा ववन्दाते । कौतुकाच्च तत्र भ्रमन्तौ स्वर्णशिलास्थितं नन्दने सागरचन्द्राख्यं चारणमुनिमपश्यताम् । तौ च तं नमस्कृत्य देशनां श्रुत्वाऽन्ते ऊचतुः - "भगवन् ! आवयोः प्राक्तनान् भवानाख्याहि" । ततो मुनिरूचे"धातकीखण्डद्वीपे पूर्वैरवते वर्षे वज्रपुरेऽभयघोषो नृपस्तत्पत्नी सुवर्णतिलका चाऽभूताम् । तयोश्च सुतौ विजयो वैजयन्तश्च कलाकलाप कुशलौ यौवनं प्रपेदाते । तथा तत्रैरवते स्वर्णद्रुमे पुरे शङ्खनामा महीपतिरासीत् । तस्य पत्नी पृथिवीदेवी चोत्सङ्गस्थितपुष्पमाल्यस्वप्नसूचितां पृथ्वीसेनाख्यां सुतां सुषुवे । तां च प्राप्तयौवनां सशङ्खोऽभयघोषाय ददौ । एकदा च वसन्तर्तौ वसन्तपुष्पाण्यादाय काऽपि चेटिकाऽभयघोषसन्निधौ गतवती । तां दृष्ट्वा च सुवर्णतिलका नृपमुवाच'वसन्तेन षड्तुकाभिधमुद्यानममण्ड्यत। तदिदानीं मधुलक्ष्मीमनुभवितुं सपरिवारास्तत्र गच्छामः' । अत्राऽन्तरे च पृथिवीसेना नृपं कोटिमूल्यानि युक्तिपुष्पाणि करे दधानोपस्थिता । तानि वीक्ष्याऽऽदाय च प्रसन्नो नृप उद्यानं ययौ तत्र चिक्रीड च । तत्र नृपानुज्ञाता पृथिवी Page #64 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व चतुर्थः सर्गः ११५ सेना भ्रमन्ती दन्तमथनं मुनिं ददर्श । ततो मुदिता तं वन्दित्वा देशनां श्रुत्वा च प्रबुद्धा तत्कालं राजानमापृच्छ्य तन्मुनेः प्रव्रज्यामाददे । अभयघोषोऽपि च तस्याश्चारित्रं प्रशंसन् स्वं धाम जगाम । अन्यदा च स नृपः स्वप्रासादे रत्नसिंहासनासीनस्तीर्थकुल्लिङ्गं छद्मस्थतया विहरमाणं जिनपुङ्गवमनन्तं प्रविशन्तं दृष्ट्वा ससम्भ्रममुत्थायोचितं भोज्यमादाय प्रणामपूर्वकं भगवन्तमुपतस्थे । भगवानपि च तद्दत्तभिक्षया पारणां चकार । देवैश्च तत्र वसुधारादिपञ्चकं दिव्यं विदधे । भगवांश्च पारणं विधाय क्वाऽपि विजहार । स च तीर्थकृदेकदा विहरन्नुत्पन्नकेवलो वज्रपुरे समवासरत् । तत्र चाऽभयघोषः समेत्य यथाविधि वन्दित्वा देशनां श्रुत्वाऽन्ते च पुनर्नत्वा भगवन्तं जगाद - "भगवन् ! क्षणं प्रतीक्षस्व । यावत् स्वं तनयं राज्ये निवेश्य दीक्षायै त्वत्पादान्तिकमायामि" । ततो नैव प्रमादिना भाव्यमिति स्वामिनोक्तः स गृहं गत्वा पुत्रावुवाच- "वत्स! विजय ! त्वं क्रमागतं राज्यमादत्स्व । वैजयन्त ! त्वमस्य यौवराज्यं परिपालय । अहं तु प्रव्रजिष्यामि " । ततस्तावूचतुः - "यथा भवान् भवभीतस्तथाऽऽवामपि । अत आवामपि प्रव्रजिष्यावः " । ततः साध्विति तौ प्रशस्य स नृपो राज्यमन्यस्मै कस्मैचिद् दत्वा ताभ्यां पुत्राभ्यां सहाऽनन्तजिनान्तिकं गत्वा प्रवव्राज । ते त्रयोऽपि चोग्रं तपस्तेपुः । तत्र भूपतिर्विंशत्या स्थानकैस्तीर्थकृन्नामकर्मोपार्जयत् । ते त्रयोऽपि च काले विपद्याऽच्युते कल्पे द्वाविंशतिसागरोपमजीविता देवा बभूवुः । *** इतश्च जम्बूद्वीपे प्राग्विदेहेषु पुष्कलावत्यां विजये पुण्डरीकिण्यां नगर्यां हेमाङ्गदो नाम नृपोऽभूत् । तस्य च वज्रमालिन्याख्यायाः पन्या: कुक्षावभयघोषजीवो ऽच्युताच्च्युत्वा चतुर्दशमहास्वप्न त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सूचितोऽवातरत् । पूर्णे च समये जातो नाम्ना घनरथोऽद्याऽप्यवनीं पाति । विजय- वैजयन्तौ विद्याधरौ जातौ युवां स्थः " । एवं पूर्वभवान् श्रुत्वा प्रसन्नौ तौ मुनिं नत्वा प्राग्जन्मपितरं त्वां भक्त्या द्रष्टुमिहाऽऽगतौ कुतूहलात् त्वद्दर्शनोपायभूतमनयोः कुक्कुटयोः सङ्क्रमणं प्रचक्रतुः । एतौ चेतो गत्वा भोगवर्धनमुनेरन्तिके प्रव्रज्य क्षीणकर्माणौ शाश्वतं पदं प्राप्स्यतः । तच्छ्रुत्वा च प्रकटीभूय पूर्ववत् सुतमानिनौ तौ विद्याधरौ घनरथं नत्वा गृहं जग्मतुः । तौ कुक्कुटौ च तच्छ्रुत्वा प्रबुद्धौ पूर्वभवान् शोचन्तौ नृपं नत्वा स्वभाषया प्रोचतु:देव ! किमद्याऽऽवां कुर्वहे, तद्धितमादिश" । ११६ ततो घनरथोऽवदत्-"अर्हन् देवो गुरुः साधुर्धर्मो जीवदया च वामस्तु'' । तत्प्रतिपद्य च तावनशनं प्रपद्य मृतौ भूतरत्नाटव्यां ताम्रचूल स्वर्णचूलसंज्ञौ भूतनायकौ भूत्वा विमानं विकृत्य पूर्वभवोपकारिणं मेघरथमुपेत्य नत्वा स्तुत्वा चैतद्विमानमधिरुह्य विश्वं पश्येति प्रार्थयताम् । ताभ्यां प्रार्थितश्च स मेघरथो विमानं सपरिच्छदोऽधिरुह्य ताभ्यां सम्पूर्णां पृथिवीं भ्रमयित्वा तानि तानि स्थानानि दर्श्यमानः पुनः पुण्डरीकिणीं प्राप्तवान् । तौ च भूतनायकौ तं राजकुले मुक्त्वा प्रणिपत्य रत्नवृष्टिं विधाय च स्वं स्थानं जग्मतुः । अथ लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थितो घनरथो मेघरथं राज्ये दृढरथं च यौवराज्ये निवेश्य वार्षिकदानं दत्त्वा दीक्षां गृहीत्वोत्पन्नकेवलज्ञानो भविकान् प्रबोधयन् महीं विजहार । मेघरथश्च दृढरथान्वितो महीमशात् । एकदा च देवरमणनाम्न्युद्याने रिरंसया गतो मेघरथोऽशोकतरोस्तले प्रियमित्रया सार्धं सङ्गीतं कारयितुमारेभे । अत्रान्तरे च तस्य नृपस्य पुरः सङ्गीतकचिकीर्षया सहस्रशो भूताः प्रादुरासन् । विचित्राकारभूषणनेपथ्याश्च ते ताण्डवं प्रारभन्त । तेषु ताण्डवं Page #65 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-चतुर्थः सर्गः ११७ विदधत्सु च गगने विमानमेकं प्रादुरासीत् । तत्र च रत्या काम इवैकया युवत्या युतः पुमानेको ददृशे । कोऽयं, केयं, कुतो हेतोश्चेत आगच्छत इति प्रियमित्रया पृष्टश्च मेघरथ उवाच___ "जम्बूद्वीपे भरते वैताढ्यस्योत्तरश्रेण्यामलकायां पुरि विद्युद्रथो नाम विद्याधरेश्वर आसीत् । तस्य च मानसवेगायां पन्यां सिंहरथस्वप्नसूचनाज्जातः सिंहरथः पुत्रश्चन्द्रो रोहिणीमिव कुलीनां वेगवती नाम कन्यां परिणीतवान् । विद्यद्रथश्च तं निजे राज्ये निधाय संसारं विद्युच्चपलस्वभावं ज्ञात्वा वैराग्यमापन्नो दीक्षां गृहीत्वा संयमादिभिः कर्मक्षयं कृत्वा शिवमगात् । सिंहरथश्च विद्याधरचक्री चार्हद्दर्शनेच्छयैकदा धातकीखण्डे पश्चिमविदेहेषु सीतानद्या उत्तरतटे सूत्राख्ये विजये खड्गपुरे पन्या समं गत्वाऽमितवाहनं ददर्श । तं नत्वा देशनां श्रुत्वा च पुनर्जिनं नत्वा स्वनगरी प्रति गच्छन् गति स्खलितां विज्ञाय कारणजिज्ञासयाऽध: पश्यन् मामिह स्थितं दृष्ट्वा सकोपमुत्क्षेप्तुमुपासरत् । मया च वामेन पाणिनाऽऽक्रान्तो विरसं रसन् सपरिवारो मां शरणं प्रपन्नो मया मुक्तो नानारूपाणि विकृत्येदं सङ्गीतकमकार्षीत्" । ततः पुनः प्रियमित्रयोचे-"देव ! पूर्वभवे किं कर्माऽमुना कृतं येनाऽस्यैषा महीयसी ऋद्धिः?" ततो मेघरथः पुनरुवाच-"भरते पुष्करार्धे सङ्घपुरे राज्यगुप्तो नाम कुलपुत्रोऽतिदुःस्थ आसीत् । तस्याऽनुरक्ता भक्ता च शखिकानाम्नी पत्न्यासीत् । तौ द्वावपि परगृहेषु कर्माणि चक्राते । एकदा च तौ सम्भूय फलार्थं सङ्घगिरि गतौ भ्रमन्तौ देशनां कुर्वाणं सर्वगुप्तं मुनि दृष्ट्वोपेत्य नत्वा देशनां श्रुत्वा च पुनः प्रणम्योचतुः-अस्मदर्थं किञ्चित् तपः समादिश । ततो महामुनिः सर्वगुप्तो योग्यतानुसारेण द्वात्रिंशत्कल्याणकाख्यं तपस्तयोदिदेश । तौ च तथेति प्रतिपद्य गृहं गतौ त्रिरात्रद्वयद्वात्रिंश ११८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च्चतुर्थात्मकं तत् तपो विधाय पारणसमये च धृतिधरं मुनि भक्तोदकादिना भक्त्या प्रत्यलाभयताम् । अन्यदा च विहारक्रमात् तत्राऽऽगतस्य सर्वगुप्तमुनेर्यथाविधि देशनां श्रुत्वा परिव्रज्यामाददाते । तत्र राज्यगुप्त आचामाम्लवर्धमानतपो विधायाऽन्ते चाऽनशनं प्रपद्य दशसागरोपमजीवितो ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽयं विद्युद्रथनृपात्मजः सिंहरथो जज्ञे । शङ्खिका चाऽपि विविधं तपो विधाय ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽस्य पत्न्यभूत् । अयं च सिंहस्थ इतः स्वनगरं गत्वा पुत्रं राज्ये निवेश्य मत्पितुर्दीक्षामादाय तपो-ध्यानादिभिः क्षीणकर्मोत्पन्नकेवलज्ञान: सिद्धि व्रजिष्यति । ततस्तद्वचनं श्रुत्वा मेघरथं प्रणम्य स्वपुरं गत्वा पुत्र राज्ये निवेश्य सिंहरथो घनरथजिनान्तिके दीक्षामादाय तपोऽनुष्ठाय सिद्धिमियाय । नृपो मेघरथोऽपि च देवरमणोद्यानात् स्वपुरी पुण्डरीकिणी प्राविशत् । अथैकदा पौषधशालायां पौषधमादाय धर्ममाख्यातुमुपक्रान्तस्य मेघरथस्योत्सङ्गे भीत एक: पारापत: पपात । मनुष्यभाषयाऽभयं याचमानं च तं मा भैषीरिति नृपोऽभाषिष्ट । तं पारापतमनुधावमानः श्येनश्च ममेदं भक्ष्यमाशु मुञ्चेतिवदन्नागात् । ततो मेघरथ ऊचे"नाऽमुमर्पयिष्यामि, क्षत्रियो हि शरणागतं नाऽर्पयति । किं च परप्राणापहारेण स्वप्राणपरिपोषणं न कस्याऽपि युज्यते । तवाऽनेन भक्षितेन क्षणमात्रं तृप्तिः । अस्य तु सर्वप्राणापहार एव भवेत् । परहिंसायां च परत्र भूरिदुःखम् । पञ्चेन्द्रियवधात् तन्मांसभक्षणाच्च जन्तवो नरके दुःसहां व्यथां प्राप्नुवन्ति । ततः प्राणिवधं मुञ्च । धर्म समाचर । येन भवे भवे सुखमेष्यसि" । Page #66 -------------------------------------------------------------------------- ________________ १२० पञ्चमं पर्व-चतुर्थः सर्गः ११९ ततः श्येनोऽपि मनुष्यभाषया महीपतिमुवाच-"मद्भयादेष कपोतो भवन्तं शरणं ययौ । अहं तु क्षुत्पीडितः कं शरणं यामि? दयालवो हि सर्वेष्वप्यनुकूलाः । तद्यथैनं त्रायसे, तथा मामपि त्रायस्व । क्षुधार्तस्य मे प्राणा गच्छन्तीव। धर्मप्रियोऽपि किं बुभुक्षित: पापं न करोति ? मम च भोज्यान्तरैस्तृप्तिरपि न । यत: स्वयंहतप्राणिमांसाशनोऽहम्"। ___ततो नृपोऽवोचत्-"स्वमांसमहं ते कपोतेन तुलयित्वा ददामि, तेन तृप्तो भव" । तत: श्येनेन तत्स्वीकृते तुलायामेकतो नृपः कपोतमन्यतश्च च्छित्वा छित्वा स्वमांसं निदधे । राजा यथा यथोत्कृत्योत्कृत्य स्वांसमक्षप्सीत् तथा तथा कपोतो गुरुतरो जातः । तं च कपोतं गुरुतरं जायमानं वीक्ष्य भूपतिः स्वयमेव तुलामारुरोह । ततोऽमात्या ऊचु:-"नृप ! किमेतदारब्धं त्वया, येन शरीरेण सकला मही त्रातव्या, तदेकस्य पक्षिमात्रस्य त्राणे कथं त्यजसि ? न चाऽयं कपोत एव, किन्तु कोऽपि देवादिः, कथमन्यथाऽस्येदृशो भार: ? यावत् ते इत्थमूचुस्तावत् किरीट-कुण्डलादिमण्डितो देव आविर्भयोचे"त्वं पुरुषोत्तमोऽसि, यत् पौरुषाद् न चाल्यसे । ईशानेन्द्रस्त्वां सभायां वर्णयामास । तदसहमानचाऽहं त्वत्परीक्षार्थमागमम् । इमौ च पक्षिणी प्राग्जन्मवैराद् युद्धायोपस्थितौ दृष्ट्वाऽध्यतिष्ठमेवमकाएं च, तत् सहस्व" । एवमुक्त्वा नृपं सज्जं कृत्वा देवो दिवं ययौ । सामन्ताद्याश्च विस्मयाद् राजानं पप्रच्छु:-" कीदृशाविमौ श्येन-कपोतो ? प्राग्जन्मनि चाऽनयोः किंतु वैरम् ? अयं देवश्च प्राग्भवे कः?" ततो नृपोऽवोचत्-"जम्बूद्वीपे ऐरवतक्षेत्रे पद्मिनीखण्डे नगरेऽतिसम्पन्नः सागरदत्तोऽभूत्। तस्य पत्नी च विजयसेनाख्याऽऽसीत् । तयोश्च जातौ धनो नन्दनश्च नाम्ना पुत्रौ क्रमेण वर्धमानौ यौवनं प्रपेदाते । एकदा च सागरदत्तं प्रणम्य तावूचतुः-"आवां वाणिज्यार्थं देशान्तरं गमिष्यावः, तत् समादिश" । पित्रा च समनुज्ञातौ तौ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विविधं भाण्डमादाय सार्थेन सह प्रचलितौ नागपुरं नाम पुरं प्राप्य व्यवहरन्तौ महामूल्यमेकं रलं प्राप्य शङ्खनदीतीरे तदर्थं युध्यमानौ महाह्नदे निपत्य विपद्य चेमौ खगौ जातौ प्राग्जन्मवैरादिहाऽपि वैरायते । ___ अथ जम्बूद्वीपे प्राग्विदेहेषु सीतानद्या दक्षिणतटे रमणीयके विजये शुभाख्यायां पुरि स्तिमितसागरनृपस्येत: पञ्चमे भवेऽहमपराजिताख्यो बलदेवः पुत्रोऽभवम् । ममाऽनुजश्च तत्राऽनन्तवीर्यनामा वासुदेवो दृढरथोऽस्ति। तदानीं च प्रतिविष्णुर्दमितारिः कनकश्रीकन्यार्थमस्माभिर्युधि निपातितः। स च भवकान्तारे भ्रान्त्वा जम्बूद्वीपे भारतेऽष्टापदगिरिमूले निकृत्याख्यसरित्तटे सोमप्रभाख्यस्य तापसस्य सुतो भूत्वा बालतपश्चरित्वा सुरूपो नाम सुरोऽभवत् । सोऽयं सुर ईशानेन्द्रेण कृतां मम प्रशंसामसहिष्णुरिहाऽऽगात् । मत्परीक्षणं च व्यधात्" । राजस्तद्वचनं श्रुत्वा जातजातिस्मृती तौ श्येन-पारापतौ सद्यो मूर्च्छया भुवि पेततुः। शीतोपचारैश्च लोककृतैर्लब्धसंज्ञौ नृपमूचतुः"राजन् ! त्वं प्राग्जन्मवर्णनेनाऽऽवयोरसमोपकारकोऽसि । तत्प्रसद्य सन्मार्गमादिश । येन शुभं लभावहे" । ततस्तयोरवधिज्ञानतो योग्यता ज्ञात्वा नृपः कालप्राप्तमनशनं समादिदेश । तौ चाऽनशनं प्रपद्य विपद्य च भुवनवासिनां मध्ये सुरवरौ जातौ । मेघरथो नृपोऽपि पौषधं पारयित्वा यथावदुर्वी पालयंस्तस्थौ । अन्यदा च कपोत-श्येनवृत्तान्तं स्मरन् वैराग्यमापन्नोऽष्टमतपः कृत्वोपसर्गान् सोढुं प्रतिमया मेघरथस्तस्थौ । तदानीं चेशानेन्द्रोऽन्तःपुरस्थो "नमो भगवते तुभ्य"मिति जल्पन्नमोऽकरोत् । जगन्नमस्येन त्वया कस्मै नमस्क्रियाऽकारीति महिषीभिः पृष्टश्च शक्र उवाच-"पुण्डरिकिण्यां पुरि घनरथात्मजो मेघरथोऽष्टमतपः कृत्वा महाप्रतिमया स्थितोऽस्ति । स चाऽयं भावी तीर्थकरः । तदेतस्मै ९विष.भा-३ Page #67 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-चतुर्थः सर्गः १२१ नमोऽकार्षम् । अमुं चाऽस्माद् ध्यानात् केपि चालयितुं न क्षमाः"। तच्छ्रुत्वा तां प्रशंसामसहिष्णू सुरूपाऽतिरूपिके शक्रमहिष्यौ राज्ञः क्षोभार्थमागत्य विविधान् हावभावान् कुर्वाणे मेघरथे मोघीभूतान् तान् वीक्ष्य मेघरथं क्षमयित्वा पश्चात्तापान्विते निजधाम जग्मतुः । राजाऽपि प्रतिमां पारयित्वा निशावृत्तं स्मारं स्मारं परं संवेगमाप्तवान्। प्रियमित्राऽपि च प्रियं तादृशमवलोक्य संवेगं प्राप्तवती । अथाऽन्यदा घनरथो जिन: स्वयं तत्रैत्य पूर्वोत्तरदिशि समवासार्षीत् । तज्ज्ञात्वा च मेघरथः सानुजो गत्वा नत्वा धर्मदेशनां श्रुत्वा जिनमब्रवीत्-"भगवन् ! त्वं सर्वज्ञः सर्वहितचाऽसि । तथाऽपि प्रार्थये-यावत् कुमारं राज्ये निवेश्याऽहमिह दीक्षार्थमागच्छामि, तावत् प्रतीक्षस्व" । न प्रमादो विधातव्य इत्यर्हताऽनुशिष्टश्च मेघरथो गृहं गत्वा निजात्मजं मेघसेनं राज्ये दृढरथात्मजं रथसेनं च यौवराज्ये न्यधात् । मेघसेनेन कृतनिष्क्रमणोत्सव: सानुजो मेघरथः पुत्राणां सप्तशत्या राज्ञां चतु:सहस्या च जिनान्तिके प्रव्रज्यामग्रहीत् । परीषहानुपसर्गाश्च सहमानस्त्रिगुप्तः पञ्चसमितो देहेऽपि निराकाक्षो विविधाभिग्रहपर एकादशाङ्गीधारकः सदृढरथो मेघरथो धरणी विजहार । अर्हद्भक्तिप्रमुखैः शुभैविंशत्या स्थानकैरर्हन्नामगोत्रकर्मोपाl सिंहनिष्क्रीडितं नाम दुस्तपं तपो विधाय पूर्वलक्षमखण्डितं श्रामण्यं पालयित्वाऽम्बरतिलकं गिरिमारुरोह । तत्र गिरिरिव स्थिरोऽनशनं कृत्वा पूर्णायुः सानुजो मेघरथो विपद्य सर्वार्थसिद्धौ त्रयस्त्रिशत्सागरोपमायुः सुरो बभूव ॥ ४ ॥ इति पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयदशमैकादशभववर्णनात्मकः चतुर्थः सर्गः ॥४॥ पञ्चमः सर्गः अथाऽस्य जम्बूद्वीपस्य भारतवर्षे कुरुदेशे चैत्य-हर्योद्यानादिसमृद्धे हस्तिनापुरे पुरे यशस्वी शरण्य:श्रियो वाचश्चैकास्पदमिक्ष्वाकुवंशीयो विश्वसेनो नाम नृपो बभूव । तस्य च सतीशिरोमणि: सर्वलक्षणलक्षिता शीलादिगुणसमन्विताऽचिरा नाम भार्याऽऽसीत् । तस्याश्च कुक्षौ भाद्रकृष्णसप्तम्यां भरणीस्थे चन्द्रे सर्वार्थसिद्धविमानतो भुक्तनिजायुर्मेघरथजीवश्च्युत्वा समवातरत् । तदानीं च निशाशेषे सुखसुप्तयाऽचिरादेव्या मुखे प्रविशन्तश्चतुर्दश महास्वप्ना ददृशिरे। सुप्तोत्थिततया च तया प्रमुदितया विज्ञप्तो नृपो "लोकोत्तरगुणत्रैलोक्यत्राणकर्मठस्ते पुत्रो भावी"ति स्वप्नफलमाख्यत् । नैमित्तिका अपि च पृष्टास्तवाऽऽत्मजश्चक्री धर्मचक्री वैभिः स्वप्नैर्भविष्यतीत्यूचुः । तांश्च सत्कृत्य राजा विससर्ज । ___अचिरादेवी चाऽपि रत्नगर्भव गर्भरत्नं बभार । तदानीं च प्रागुत्पन्नान्युद्वेग-रोग-मार्यादीनि विहितैरपि नानोपायैरनुपशान्तानि विना प्रयास गर्भप्रभावादुपशान्तानि । ततः पूर्णे समये ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे चन्द्रे ग्रहेषूच्चस्थेषु साऽचिरादेवी मृगलाञ्छनं कनकवर्ण सुतमसूत । तदा च क्षणं जगत्त्रये समुद्योतो नारकाणामपि च क्षणं सुखं समुदभूत् । ततः षट्पञ्चाशद् दिक्कुमार्यः समेत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्च समेत्य प्रभुं मेरौ नीत्वा तत्र सर्वैरिन्द्रादिभिः समं प्रभोः स्नात्रं यथाविधि विधाय नत्वा स्तुत्वा पुन: प्रभुमादायाऽऽशु गत्वाऽचिरादेव्याः पार्श्वे यथास्थित्यमुञ्चत् । तत्र च प्रभो रक्षादिकं विधाय यथाविधि रत्नादिवृष्टिं च विधापयित्वा Page #68 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व-पञ्चमः सर्गः १२३ पञ्चधात्रीरप्सरसः समादिश्य नन्दीश्वरं गत्वाऽष्टाह्निकोत्सवं विधाय यथायथं स्वं धाम जगाम । अथ देवी गतनिद्रा दिव्यवस्त्रादिसमन्वितं दीप्तिमन्तं सूनुमुदैक्षत। नृपश्च प्रमुदितः समहोत्सवम् 'अस्मिन् गर्भस्थेऽशिवान्यशाम्यन्निति तस्य शान्तिरिति नामाऽकरोत् । प्रभुश्च शक्रसङ्क्रमितसुधं निजाङ्गुष्ठं पिबन् धात्रीभिबल्यमानः क्रमेण वर्धमानो बालक्रीडामनुभवन् चत्वारिंशद्धनुरुत्तुङ्गो यौवनं प्रपेदे । नृपश्च शान्तिना राजकन्या: पर्यणाययत् । पञ्चविंशत्यब्दसहस्रान्ते च नृपः शान्ति राज्ये निवेश्य स्वयं स्वार्थमसाधयत् । शान्तिश्च वसुधां यथावत् पालयस्ताभी राजकन्याभिर्विषयसुखं बुभुजे । अथ तस्याऽग्रमहिषी यशोमती स्वप्ने चक्रं मुखे प्रविशत् ददर्श । तदानीं च निजमायुः पूरयित्वा सर्वार्थसिद्धविमानाद् दृढरथजीवश्च्युत्वा तस्याः कुक्षाववातरत् । तया तत्कालं प्रबद्ध्या निवेदितश्च शान्ति ज्ञानत्रयधर उवाच-"मम प्राग्जन्मानुजो दृढरथस्सर्वार्थाच्च्युत्वा तवोदरे इदानीमवातारीत् । तं च पुत्रं समये प्रसविष्यसे"। ततः पूर्णे समये सा यशोमती पूर्णलक्षणं पवित्रं पत्रं सुषुवे । शान्तिश्च तस्य 'गर्भस्थेऽस्मिन् जननी चक्रं ददर्शे'ति समहोत्सवं चक्रायुध इति नाम चक्रे । __ स च चक्रायुधो धात्रीभिाल्यमानः क्रमेण वर्धमानो यौवनं प्रपन्नवान् । पिता च तेनाऽनेकशो राजपुत्री: पर्यणाययत् । तदेवं राज्यं पालयत: श्रीशान्तिनाथस्य वर्षाणां पञ्चविंशतिसहस्त्री व्यतिक्रान्ता । तत एकदा तस्याऽस्त्रशालायां चक्ररत्नमुदभूत् । शान्तिश्च तस्य चक्रस्याऽष्टाह्निकोत्सवमकारयत् । अथाऽस्त्रशालाया निःसृत्य पूर्वाभिमुखं चलितं चक्रं यक्षसहस्राधिष्ठितं सहस्रारं ससैन्यमनुसरन् शान्तिर्मागधं प्राप्तवान् । मागधेशदेवेन धृताज्ञो दत्तोपायन: प्रतिष्ठमानो दक्षिणाब्धिमासाद्य १२४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्र वरदामेशं साधयित्वा ततः प्रस्थाय प्रतीच्यजलधि प्राप । प्रभासपतिना पूजितो गृहीतशासनश्च सिन्धुदेवीमुद्दिश्य प्रचलितः सिन्धुतटं प्राप्तवान् । सिन्धुदेव्या स्तुत: स्वीकृताज्ञश्च तदने वैताढ्यं प्राप्य वैताढ्यकुमारेण पूजितस्ततस्तमित्रागुहासमीपं गत्वा तत्र कृतमालदेवेन पूजित: शिबिरं निवेशयामास । ___ तत्र श्रीशान्तिना समादिष्टः सेनानीरत्नं सिन्धुमुत्तीर्य तद्दक्षिणनिष्कुटं साधयित्वा दण्डरत्नेन कपाटौ ताडयंस्तमिस्रागुहाद्वारमुद्घाटयामास । शान्तिश्च गजारूढस्तस्यां गुहायां प्रविश्य तमोनाशार्थ गजस्य दक्षिणे कुम्भे मणिरत्नं स्थापयित्वा गुहाया उभयोभित्त्योः काकिणीरत्नेनैकोनपञ्चाशन्मण्डलान्यालिखन् ययौ । वर्धकिरत्नेन बद्धपद्ये गुहान्तरस्थे उन्मग्ना-निमग्ने नद्यावुत्तीर्य ससैन्यः स्वयमुद्धटितेनोत्तरद्वारेण गुहाया निर्गत्याऽश्वरत्नारूढेन खड्गहस्तेन सेनान्या ध्वस्तान् म्लेच्छान् पूर्वचक्रवर्तिवद् यथाविधि वशगान् विदधे । क्षुद्रहिमवगिरि गत्वा हिमवत्कुमारेण पूजितस्तत ऋषभकूटाद्रौ गत्वा काकिण्या शान्तिश्चक्रीत्यक्षराणि लिलेख प्रभुः । ततो वैताढ्यपर्वतोपत्यकाभुवं प्राप्य तत्र श्रेणिद्वयविद्याधरकुमारैः पूजितस्ततो वलित: स्वयं गङ्गां सेनान्या च तदुत्तरनिष्कुटं साधयामास । ततः खण्डप्रपाताख्यां गुहां प्राप्य नाट्यमालदेवं वशंवदं कृत्वा सेनान्या दण्डरलेन तां गुहामुद्घाट्य प्रविश्य पूर्ववदुन्मग्ना-निमग्ने नद्यावुत्ततार । ततः पूर्ववद् मणिरत्नेन काकिणीकृतमण्डलैश्च तमो भिन्दन् स्वयमुद्घटितेनाऽपाग्द्वारेण गुहाया निःसृत्य नैसर्पप्रमुखान् नवाऽपि निधीन् वशगान् विधाय म्लेच्छप्रचुरं गाङ्गं दक्षिणनिष्कुटं च सेनान्याऽसाधयत् । एवं क्रमेण षट्खण्डभरतमष्टभिर्वर्षशतैः साधयित्वा निवर्तमानः कतिभिः प्रयाणैर्हस्तिनापुरमाप । निजनिकेतनं प्राप्तश्चाऽमरैर्नृपैश्च कृतचक्रवर्तित्वाभिषेक: पृथक् पृथग् यक्षसहस्राधिष्ठितैश्चतुर्दशभी रलैवभिनिधिभिश्च श्रितोऽन्तःपुरयोषितां चतुःषष्ट्या सहस्रैरावृतो, Page #69 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व पञ्चमः सर्गः १२५ गजरथाश्वानां चतुरशीतिलक्ष्या भूषितो, ग्रामाणां पत्तीनां च कोटिषण्णवत्या भूभुजां द्वात्रिंशत्सहस्त्रया च सेवितः सूपकाराणां त्रिषष्ट्यग्रशतत्रय्याष्टादशभिः श्रेणिप्रश्रेणिभिश्च शोभमानभूर्द्वासप्ततेर्महापुरसहस्राणां रक्षितैकसहस्रोनद्रोणमुखलक्षस्य शासिताष्टचत्वारिंशत्सहस्रपत्तनानामधीश्वरो, मडम्बवच्चतुर्विंशतिसहस्राणां कर्बटानां रत्नाद्याकरसहस्रविशतेश्चेशिता, खेटसहस्राणां षोडशानां शासकश्चतुर्दशानां संबाधसहस्राणां प्रभुः, षडधिकपञ्चाशदन्तरोदकांत्रायमाण, एकोनपञ्चाशत: कुराज्यानां नायकः, षट्खण्डमपि भरतमुपभुञ्जानो, गीतादिभिर्विविधक्रीडाभिश्च सुखमनुभवंश्चक्रवर्तित्वादारभ्याऽष्टवर्षशतोनानब्दानां पञ्चविंशतिं सहस्रान् गमयामास । *** अथ लोकान्तिकैर्देवैरागत्य तीर्थं प्रवर्त्तयेति प्रार्थितः प्रभुः श्रीशान्तिनाथो जृम्भकासुरैः पूरितार्थो वार्षिकदानं प्रददौ । चक्रायुधं राज्ये निवेश्य शक्रादिभिः कृतनिष्क्रमणोत्सवः सर्वार्थां नाम शिबिकामारुह्य सहस्राम्रवणमाप्य शिबिकाया उत्तीर्याऽलङ्कारादि तत्याज स: । कृतषष्ठतपा विहितसिद्धनमस्कारो ज्येष्ठकृष्णचतुर्दश्यां भरणीस्थे चन्द्रेऽपराह्ने नृपसहस्रेण समं यथाविधि दीक्षामुपाददे । तदानीमेव च तस्य प्रभोर्मन: पर्यायज्ञानमुत्पेदे । ततो मन्दिरपुरे द्वितीयेऽह्नि सुमित्रनृपगृहे परमान्नेन पारणं विदधे । देवैर्वसुधारादिपञ्चकं दिव्यं सुमित्रेण च प्रभुपादस्थाने रत्नपीठं निर्ममे । प्रभुश्च मूलोत्तरगुणधरो वसुन्धरां विहरन् द्वादशमासान्ते हस्तिनापुरे सहस्राम्रवणं प्राप । तत्र नन्दिवृक्षतले षष्ठेन तपसा शुक्लध्यानान्तरस्थो घातिकर्माणि घातयित्वा पौषशुक्लनवम्यां भरणीस्थे चन्द्रेऽमलं केवलज्ञानमाप्तवान् । तदानीं च शक्रादिभिरेत्य यथाविधि विहिते समवसरणे पूर्वद्वारा प्रविश्याऽशीत्यग्रचतुर्धन्वशतोच्चं चैत्यपादपं प्रदक्षिणीकृत्य तीर्थाय नम इत्युक्त्वा रत्नसिंहासने प्राङ्मुख उपाविशत् । त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः सुरादयश्चाऽपि यथाद्वारं प्रविश्य यथास्थानं यथाविधि निविविशिरे । चक्रायुधोऽपि च तज्ज्ञात्वा सद्यः समेत्य प्रभुं प्रदक्षिणापूर्वकं प्रणम्याऽनुशक्रमुपविवेश । ततः सचक्रायुधेन शक्रेण स्तुतः प्रभुः श्री शान्तिनाथो देशनामारेभे । १२६ तथाहि—“अनेकदुःखसन्तानहेतुरयं संसारश्चतुर्गत्यात्मकः । गृहस्य स्तम्भा इव चत्वारः क्रोध-मान- माया लोभाः कषायास्तस्याऽऽधारा: । तस्मात् क्षीणेषु कषायेषु संसारश्छिन्नमूलो महीरुह इव स्वयं क्षीयते । कषायजयश्च नेन्द्रियजयं विना । असाधितैरिन्द्रियैर्हि हयैरिवाऽपथे जन्तुर्नरके पात्यते । इन्द्रियैर्जित एव जन्तुः कषायैरभिभूयते । अजितानि चेन्द्रियाणि कुलघाताय पाताय बन्धाय वधाय च जन्तूनां जायन्ते । पण्डिता अपि हीन्द्रियवशा विडम्बनां प्राप्नुवन्ति । इन्द्रियाणामतोऽधिकं किं लज्जाकरं यद् बन्धावपि बाहुबलिनि भरतोऽस्त्रममुञ्चत् । तत्र बाहुबलिनो जयो भरतस्य पराजयश्च जिताजितानामिन्द्रियाणामेव प्रभावः । एष च दुरन्तानामिन्द्रियाणां महिमा, यच्चरमेऽपि भवे स्थिता जन्तवः शस्त्राशस्त्रि युध्यन्ते । शान्तमोहाः पूर्वविदोऽपीन्द्रियैर्दण्ड्यन्ते । देवादयश्चाऽपीन्द्रियवशास्तपस्विनश्च जुगुप्सितानि कर्माणि कुर्वन्ति । इन्द्रियवशा ह्यस्वाद्यमपि खादन्त्यपेयमपि पिबन्त्यगम्यां चाऽपि गच्छन्ति । तथेन्द्रियहताः कुल- शीलवर्जिता वेश्यानामपि दास्यानि कुर्वते । इन्द्रियाणामेव स प्रभावो यद् नराः परद्रव्ये परस्त्रीषु च प्रवर्तन्ते । इन्द्रियवशाच्च पाण्यादीनां छेदान् मरणं च जनाः प्राप्नुवन्ति । एकं वीतरागं त्यक्त्वाऽऽदेवेन्द्रादा कीटाच्च सर्वे प्राणिन इन्द्रियैर्जिताः । करिणीस्पर्शसुखलुब्धः करी तत्क्षणादालानबन्धनक्लेशमाप्नोति । अगाधजलस्थश्च मीन आमिषं गिलन् धीवरकरे पतति । गन्धलोलुपश्च भृङ्गो मत्तमातङ्गकर्णतालघाताद् मृत्युमेति । शिखारूपमोहितश्च दीपे पतन् शलभः शोचनीयतां याति । गीतश्रवण Page #70 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व पञ्चमः सर्गः १२७ लोलुपश्च हरिणो व्याधस्य वेध्यतां याति । एवमेकोऽपि विषयः सेवितः पञ्चत्वाय जायते । पञ्चभिरिन्द्रियैर्युगपत् पञ्च विषया: सेविताः पञ्चत्वाय कथं न भवेयुः ? तस्माद् नरो मनः शुद्धेन्द्रियजयं कुर्यात् । अन्यथा यम-नियमा: कायक्लेशमात्रफलाः स्युः । अजितेन्द्रियो हि दुःखैर्बाध्यते इति सर्वदुःखविमुक्तये तानीन्द्रियाणि जयेत् । इन्द्रियजयश्च न विषयेषु सर्वथैवाऽप्रवृत्तिः । किन्तु रागद्वेषादिकं विना तत्प्रवृत्तिस्तज्जयः । इन्द्रियैर्हि स्वसमीपगो विषयोऽग्रहीतुमशक्यः । किन्तु मतिमान् विषयेषु रागादिकं विवर्जयेत् । संयमधारिणो हीन्द्रियाणि हितेषु प्रवर्तमानान्यहितेषु चाऽप्रवर्तमानानि भवन्ति । किं चेन्द्रियाणि जितानि मोक्षायाऽजितानि बन्धायेति विमृश्य यद् युक्तं तत् समाचरेत् । मृदौ कर्कशे च स्पर्शे रागाद्यभावः स्पर्शनेन्द्रियजयः । भक्ष्यादे रसे स्वादे च रागाद्यभावो जिह्वेन्द्रियजयः । सुरभावितरस्मिन् वा गन्धे रागाद्यभावो घ्राणेन्द्रियजयः । रूपवति कुरूपे वा हर्ष - जुगुप्साद्यभावश्चक्षुरिन्द्रियजयः । वीणादेः खरादेश्च स्वरे रागाद्यभावः श्रवणेन्द्रियजयः । कोऽपीह मनोज्ञोऽमनोज्ञो वा विषयो नाऽस्ति य इन्द्रियैर्नोपभुक्त इति विमृश्य स्वास्थ्यमेव सेवेत । विषया हि नैकान्तेन शुभा अशुभा वा, किन्त्वपेक्षयेति क्वेन्द्रियै रज्येत विरज्येत वा ? ततो मनः शुद्धया जितेन्द्रियः क्षीणकषायो नरोऽचिराद् मोक्षमाप्नोति" । प्रभोरीदृशीं देशनां श्रुत्वा जातसंवेगश्चक्रायुधो भगवन्तं व्यजिज्ञपत्-“स्वामिन् ! संसारभीतोऽस्मि तद्दीक्षां प्रदायाऽभयं कुरु” । तत: स्वामिना ‘युक्तमिदं ते' इत्युक्तस्तनयं राज्ये निवेश्य पञ्चत्रिंशता राजभिः सहितः स्वामिनोऽन्तिके प्रव्रज्यामुपादत्त । ततश्च प्रभुः षट्त्रिंशतश्चक्रायुधादिकान् गणधरान् त्रिपदीमुपादिशत् । ते च तदनुसारेण द्वादशाङ्गीमसूत्रयन् । स्वामी च तेषामनुयोग- गणानुज्ञे अदत्त । भूयांसश्च नरा नार्यश्च प्रबुद्धास्तदानीं स्वामिनोऽन्तिके प्रव्रज्यां १२८ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः जगृहु: । केचिच्च सम्यक्त्वपूर्वकं श्रावकत्वं जगृहु: । प्रथमपौरुष्यां पूर्णायां स्वामिनि देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायां गणधरे देशनाविरते सुरादयः स्वामिनं नत्वा स्वं स्वं धाम ययुः । तत्तीर्थे च समुत्पन्ने गजरथोऽसितवर्ण: क्रोडास्यो दक्षिणाभ्यां बाहुभ्यां बीजपूरा-ब्जधरो वामाभ्यां च नकुला - ऽक्षसूत्रधरो गरुडाख्यो यक्षः, कमलासना गौराङ्गी दक्षिणाभ्यां भुजाभ्यां पुस्तकोत्पलधारिणी वामाभ्यां च कमण्डलु - कमलधरा निर्वाणी देवी च शासनदेवते प्रभोः सन्निहिते जाते । ताभ्यां सहितश्च भगवान् शान्तिर्वसुन्धरां विजहार । अथाऽन्यदा हस्तिनापुरमुपेत्य भगवान् समवासार्षीत् । तत्र च सपौरपरिच्छदस्तत्पुरेश्वरः कुरुचन्द्रो भगवन्तमुपतस्थे । यथास्थानं स्थितेषु च देवादिषु भगवान् देशनां विदधे । देशनान्ते च नत्वा कुरुचन्द्रो व्यजिज्ञपत् - "स्वामिन्! केन पूर्वकर्मणाऽहमिह राज्यमासदम् ? तथा ममोपायने प्रतिदिनं पञ्च वस्तु-फलादीनि केन कर्मणा ढौकन्ते ? तदिष्टेभ्यो दास्यामीति स्वयं नोपभुञ्जे, न चाऽन्यस्मै तत् प्रयच्छामि, तत् केन कर्मणा ?" ततः प्रभुराख्यत् - "एतत् सर्वं साधवे दानतस्तव राज्य श्रीरन्वहं पञ्चवस्तुढौकनं च । एषामप्रदानमभोगश्च पुण्यसाधारणत्वात् । बहूनां ह्यधीनं वस्तु न खल्वेकेन भुज्यते । तत एव चाऽभीष्टेभ्यः प्रदास्यामीति चिन्ता ते जायते । जन्तूनां बुद्धिर्हि पूर्वकर्मानुसारेण जायते । अस्यैव जम्बूद्वीपस्याऽस्मिन्नेव भरतक्षेत्रे कोसलाख्ये जनपदे श्रीपुरे नगरे सुधनो धनपतिर्धनदो धनेश्वरश्च चत्वारो वणिक्पुत्राः सवयसोऽभूवन्। अन्यदा चाऽर्थोपार्जनार्थं ते चत्वारोऽपि गृहीतपाथेयाः सम्भूय रत्नद्वीपं प्रत्यचलन् । महाटवीं प्रविश्य तत्प्रान्ते क्षीणप्रायपाथेयास्ते प्रतिमास्थितं मुनिं दृष्ट्वाऽस्मै किञ्चित् प्रयच्छामीति Page #71 -------------------------------------------------------------------------- ________________ १३० पञ्चमं पर्व-पञ्चमः सर्गः १२९ चिन्तयित्वा द्रोणकनामानं पाथेयवाहकमूचुः-"भो भद्र ! द्रोण ! अस्मै महर्षये किञ्चिदपि देहि" । ततस्तेभ्योऽप्यधिकश्रद्धया स तं मुनि प्रत्यलाभयत् । तेन च तेन महाभोगफलं कर्मोपार्जितम् । तथा ते रत्नद्वीपं प्राप्य व्यवहत्याऽर्थमुपाय॑ पुनर्निजं नगरं समाजग्मुः । तेन पुण्यबीजेन च ते सर्वदाऽपि ननन्दुः । तेषु धनेश्वर-धनपती मनाग् मायापरौ । द्रोणकश्च सर्वतः शुद्धवृत्तिः । स च द्रोणक आयुःक्षये विपद्य दानप्रभावाद् हस्तिनापुरेशितुः पुत्रस्त्वमभूः । त्वयि गर्भस्थे जननी मुखे प्रविशन्तं चन्द्रं दृष्टवतीति तव पितृभ्यां कुरुचन्द्रेति नाम कृतम् । सुधनो धनदश्च द्वावपि मृत्वा काम्पील्यनगरे कृत्तिकापुरे च क्रमाद् वणिक्सुतौ वसन्तदेव-कामपालनामानौ जातौ । धनपतिर्धनेश्वरश्च विपद्य शङ्खपुरे जयन्त्यां पुर्यां च क्रमाद् मदिराकेसरानाम्न्यौ वणिक्पुत्र्यौ बभूवतुः । ते चत्वारोऽपि च क्रमेण वर्धमाना यौवनं प्रापुः । एकदा वसन्तदेवो व्यवहारार्थं जयन्त्यां पुर्यां प्रयायाऽर्थं समुपार्जयत्। अष्टमीचन्द्रोत्सवे च यदृच्छया रतिनन्दनमुद्यानं गतः केसरां ददर्श । तयाऽपि च स स्निग्धया दृशा ददृशे । एवं तयोः प्राग्जन्मभव: स्नेह: परस्परं प्रादुरासीत् । ततो वसन्तदेवः प्रियङ्करं नाम वणिक्पुत्रं केयं कस्य च सुतेति पप्रच्छ । सोऽवोचत्-"इयं श्रेष्ठिनः पञ्चनन्दिनः पुत्री जयन्तिदेवस्य स्वसा केसरा । ततो वसन्तदेवो जयन्तिदेवेन सह सौहृदं विधाय मिथो गृहे गतागतं समारेभे । एकदा च जयन्तिदेवेन निमन्त्रितस्तद्गृहं गतो वसन्तदेवः कामदेवं पूजयन्ती केसरां सा च जयन्तिदेवहस्तात् पुष्पमाल्यं गृह्णन्तं वसन्तदेवं सानुरागं ददृशतुः । एतदनुकूलं शकुनमिति द्वयोरेव हर्षो जातः । धात्रीपुत्री प्रियङ्करा च द्वयोर्भावं लक्षितवती । जयन्तिदेवश्च त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वसन्तदेवस्य सातिशयं सत्कारमकरोत् । तदा च केसराप्रेरिता प्रियङ्कराऽपि कक्कोलादीन्यादाय मम स्वामिन्येतानीष्टदेवानि फलानि ते दत्तानीत्युक्त्वा दत्तवती । वसन्तदेवोऽपि चाऽस्या अहमभीष्ट इति हृष्टः सर्वं स्वपाणिना जग्राह । एवं क्रमेण तयोः परस्परं स्नेहोऽवर्धत । अन्यदा च पञ्चनन्दिगृहे मङ्गल्यतूर्यं श्रुत्वा प्रेषितैः स्वपुरुषैः कान्यकुब्जनिवासिने सुदत्तश्रेष्ठिपुत्राय वरदत्ताय केसरा प्रदत्तेति वर्धापनकृते तूर्यं वाद्यत इति ज्ञात्वा मूर्च्छया पतितः प्रियङ्करया समाश्वासित:-"केसरा त्वां सन्दिशति यत् त्वया खेदो न कार्यः, गुरवो मदभिप्रायानभिज्ञाः । त्वमेव मम भर्ता भावी, अन्यथा मम मरणं ध्रुवम्" । ततो वसन्तः प्रीत ऊचे-"अस्माकमप्येषा प्रतिज्ञायत् केनाऽप्युपायेन केसरामुद्वहामि यममन्दिरं वा यामि" । तत: प्रातः केसरोद्वाहार्थं जन्ययात्रामागतां श्रुत्वा वसन्तदेवो नगराद्बहिरुद्यानं गत्वा केसराया अप्राप्ति निश्चित्य मुमूर्षुरशोकतरुशाखायां स्वं पाशग्रन्थि गले दत्वोद्बबन्ध । तदानीमेव च निकुञ्जाद् निर्गत्य 'भो मा मा साहसं कार्षी'रिति जल्पन्नेकः पुरुषः समागत्य पाशग्रन्थिमच्छिदत् । वसन्तदेवदुःखं ज्ञात्वोवाच च-"विवेकिन: प्राणत्यागो न युज्यते, उपाया एवाऽभीष्टप्राप्तये युज्यन्ते । अहमप्युपायाभावतोऽप्राप्याऽप्यभीष्टं वस्तु तन्निमित्तं जीवामि, यतो नरो जीवन् भद्राणि पश्यति । कृत्तिकापुरवास्तव्यः कामपालनामाऽहम् । देशान्तरदिदृक्षया निर्गतश्च शङ्खपुरं प्राप्य शङ्खपालयक्षोत्सवमीक्षितुमुद्यानं गतस्तत्र चूतनिकुञ्जे शुभदर्शनां कन्यकामेकामपश्यम् । तयाऽपि चाऽहं सानुरागं दृष्टः । यावत् सा सखीहस्तेन ताम्बूलं ददाति, तावदालानमुन्मूल्य त्रोटितशृङ्खल एको गजः प्रससार । हस्तिपकानवगणयंश्च स गज: क्षणाच्चूतनिकुञ्जमाससाद । भीतश्च तस्याः कन्यकायाः सर्वः परिच्छदः पलायिष्ट । सा च वेपमाना पलायितुमक्षमा तत्रैव तस्थौ । यावच्च Page #72 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व पञ्चमः सर्गः १३१ स गजस्तां करेण गृह्णाति तावद् मया लकुटेन स पुच्छाग्रे निहतस्तां मुक्त्वाऽवलिष्ट । अहं च तं गजं वञ्चयित्वा तां चाऽऽदायाऽन्यतो गत्वैकस्मिन् निरुपद्रवे प्रदेशेऽतिष्ठिपम् । सा च मां हृदयाद् नैव मुमोच । ततस्तत्राऽऽगतस्तस्या: परिजनो मदिरां त्रातां ज्ञात्वां मामवर्णयत् । पुनश्च सा मदिरा सखीभिश्चतवने नीता । तत्र चाऽकस्मात् पवनेन समाकृष्टाः करिशीकराः समापतन् । ततश्च सर्वेऽपि भीताः पुनर्दिशो दिशं पलायिताः । सा च मदिरा क्व गतेत्यजानानोऽहं तद्दिदृक्षया पर्यटम् । तां चिरेणाऽप्यदृष्ट्वा शून्यमना इहाऽऽगमम् । न म्रिये, निरुपायोऽपि जीवामि, मां पश्य । केसरायास्तु सम्प्राप्त्युपायोऽप्यस्ति, तद् वच्मि, अज्ञानेन मा मृथाः । प्रातर्विवाह इत्यतः सैकाकिन्येव रतिसमन्वितं कामदेवं पूजयिष्यति । एष कल्पोऽस्ति । ततो गुप्तमेवाऽऽवां स्मरदेवकुलान्तः प्रविश्य निभृतं तिष्ठावः । तत्र तस्यां प्रविष्टायां चाऽहं तद्वेषं गृहीत्वा सेव तद्गृहं तत्परिच्छदं मोहयन् यास्यामि । ततो मयि दूरं गते सति तामादाय त्वमन्यतो गच्छेः । एवमखण्डिता तवेच्छा सेत्स्यति । तेन वचसा मुदितो वसन्तोऽब्रवीत् - "ममाऽत्र योगः क्षेमं च, किन्तु तव विपदं पश्यामि " । तदानीमेव वृद्धब्राह्मण्या क्षुतं कृतम् । ततः कामपाल ऊचे - "ममेह न व्यसनं, किन्तु त्वत्कार्ये प्रसक्तस्य लाभ एव" । अस्मिन्नेवाऽवसरे वृद्धेन ब्राह्मणेनैवमेतद् नाऽत्र संशय इति हृष्टचेतसोचे । ततो वसन्तदेवः शकुनग्रन्थि निबध्य तद्वचश्च प्रपद्य तेन मित्रेण सह पुरीमविशत् । तत्राऽशनादि कृत्वा तौ सायं स्मरमन्दिरं गत्वा स्मरपृष्ठतस्तस्थतुः । साऽपि च केसरा स्मरणमात्रेण प्रेय: समागमं नाम साध्यमन्त्रं स्मरन्ती तत्राऽऽययौ । याप्ययानादुत्तीर्य च प्रियङ्कराकरात् पूजासामग्रीमुपादायैकाकिनी स्मरमन्दिरं प्रविश्य निजपाणिना तद्द्वारं पिधाय १३२ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः भूतले पत्रपुष्पादि निवेद्य काममुद्दिश्याऽब्रवीत् - "देव ! त्वं सर्वेषां चित्ते भवसि तेन सर्वेषां भावं जानासि । तत् किमनभीष्टेन पत्या मां बलाद् नियोजयसि विना वसन्तदेवं मे मनोऽन्यत्र न रमते । अन्यः पतिर्मम मरणायैव । तज्जन्मान्तरेऽपि वसन्तदेवो मम भर्ता भूयात् । सुचिरं नमस्कृतोऽसि, अयं चाऽन्तिमो नमस्कारो मम" । एवमुक्त्वा सा तोरणे यावदात्मानमुद्बबन्ध, तावद् वसन्तो धावित्वा पाशग्रन्थिममोचयत् । कुतोऽयमिति साश्चर्या सव्रीडा सभया च सा वसन्तदेवेनोचे"असावहं तव प्रियो वसन्तदेवोऽस्मि, यं कामात् परलोकेऽपि पतिं याचसे । निष्कारणमित्रस्याऽमुष्य बुद्ध्याऽत्र त्वां जिहीर्षुर्गुप्तं प्रविष्टो - ऽस्मि । तत्स्वं नेपथ्यमर्पयस्व, येन त्वद्वेषधरोऽसौ परिजनं मोहयंस्त्वद्वेश्म गच्छति, अस्मिश्च कियद्दूरं गते आवामभिप्रेतं देशान्तरं यास्यावः” । तेनेत्थमुक्ता सा निजनेपथ्यं कामपालायाऽऽर्पयत् । कामपालश्च केसरावेषं विधाय मन्दिराद् निर्गत्य प्रियङ्करामवलम्ब्य याप्ययानमारुह्य परिजनैरलक्षितः पञ्चनन्दिगृहं ययौ । तथा प्रियङ्करया यानादवतार्य वधूगृहमानाय्य स्वर्णवेत्रासने उपावेश्यत । तथा "केसरे ! प्रियसमागमं मन्त्रं स्मरन्ती तिष्ठे "त्युदित्वा सा प्रियङ्करा गेहाद् निर्जगाम । सोऽपि च कामपालस्तथाऽतिष्ठत् । केसरामातुलसुता शङ्खपुरवास्तव्या मदिरा चाऽपि जन्ययात्रानिमन्त्रिता तत्राऽऽगता तस्य पुरत उपविश्य किञ्चिद् निःश्वस्याऽब्रवीत् "केसरे ! किं सखेदाऽसि ? दैवाधीना मनोरथसिद्धिः । शङ्खपुरे स्थिताऽपि वसन्तदेवेन सह ते सङ्गमोऽभीष्ट इत्य श्रौषम् । अहमपि प्रियविरहवेदनां जानामि तेन त्वां समाश्वासयितुं वच्मि । दैवं यथा प्रतिकूलं करोति तथाऽनुकूलमपि करिष्यति । त्वं तु धन्याऽसि, यस्या: प्रेयसा समं दर्शनालापादीनि मुहुर्मुहुरभूवन् । मम तु दारुणो वृत्तान्त: श्रूयताम् । Page #73 -------------------------------------------------------------------------- ________________ पञ्चमं पर्व पञ्चमः सर्गः १३३ शङ्खपालोत्सवे गताऽहमशोकतरोस्तले कामाकृतियुवानं दृष्ट्वा सखीहस्तेन तस्मै ताम्बूलं प्रैषयम् । तेन च मत्तगजाद् रक्षिताऽस्मि । पुनश्च गजभयात् त्रस्ताऽऽहं ससखीजना भूयोऽपि तमन्वेषयन्ती नाऽपश्यं तदा प्रभृति निर्विण्णा कथञ्चिज्जीवामि । किन्त्वद्य तं स्वप्नेऽद्राक्षम् । दैवप्रसादेन स प्रत्यक्षोऽपि भविष्यति । तदुःखं लघूकर्तुं तद्रहस्यं कथयामि । तत्खेदेनाऽलम् । दैवेऽनुकूले सति प्रियसमागमो भविष्यति, धैर्यं धेहि" । ततः कामपालो नीरङ्गीमपसार्याऽवोचत्-"त्वया यक्षोत्सवे दृष्टपूर्व एष ते प्रियोऽस्मि, दैवानुकूल्यादधुनैवाऽऽवयोरिव वसन्तदेव - केसरयोरपि सङ्गमोऽभूत् । सम्प्रत्यालापेनाऽलम् । भयं त्यज, किञ्चिद् निर्गमनद्वारं दर्शय" । एवमुक्त्वा स गृहोद्याने पश्चिमद्वारमार्गेण मदिरादर्शितेन मदिरया समं निरगात् । पूर्वमस्मिन् पुरे आयातयोर्वसन्तदेव - केसरयोः सप्रियः कामपालः संयुयुजे । राजन् ! तौ पूर्वस्नेहेनाऽद्भुतपञ्चवस्तुढौकनं ते विदधाते, तज्जानीहि । तदमीभिरिष्टैस्तद्भोक्तुमीशिषे । इयत्कालं चाऽमूनभीष्टानजानन्नाऽभुक्त्थाः " । एवं प्रभोर्वचः श्रुत्वा नृपस्य तेषां च तत्क्षणं जातिस्मरणमुत्पेदे । ततः कुरुचन्द्रो नृपो भगवन्तं नत्वा स्नेहात् सोदरानिव तान् निजगृहमनैषीत् । देवा अपि प्रभुं नत्वा निजनिजं स्थानं ययुः । भगवांश्चाऽपि ततः स्थानादन्यत्र विजहार । तदानीं च भगवतः परीवारे श्रमणानां द्वाषष्टिः सहस्राणि, साध्वीनामेकषष्टिः सहस्राः षट् शतानि च चतुर्दशपूर्वभृतामष्टौ शतानि अवधिज्ञानिनां सहस्रत्रितयं, मनः पर्ययिणां चत्वारि सहस्राणि, केवलिनां त्रिचत्वारिंशच्छतानि, जातवैक्रियलब्धीनां षट् सहस्राणि, वादलब्धिमतां सचतुःशते द्वे सहस्रे, श्रावकाणामुभे लक्षे नवतिः सहस्राणि च श्राविकाणां त्रिलक्षी त्रिनवतिसहस्री च केवलादारभ्यैकाब्दोनपञ्चविंशतिवर्षसहस्राणि विहरमाणस्याऽभूवन् । त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः अथ निर्वाणकालं ज्ञात्वा सम्मेताद्रिमुपेत्य मुनीनां नवभिः शतैः सार्धमनशनं प्रपद्य मासान्ते ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे चन्द्रे तैमुनिभिः समं श्रीशान्तिप्रभुर्मोक्षं जगाम । तदेवं प्रभोः कौमारे मण्डलिकत्वे चक्रित्वे व्रते च प्रत्येकं लक्षचतुर्थांशमिति वर्षाणां लक्षमायुः । श्रीधर्मनाथनिर्वाणाच्च पादोनपल्यन्यूनेषु त्रिषु सागरोपमेष्वतीतेषु श्रीशान्तिस्वामिनिर्वृतिरभूत् । सुरैश्चाऽऽगत्य श्रीशान्तिजिनस्य मोक्षमहिमा चक्रे । चक्रायुधो गणधरश्चाऽपि कालेन केवलमाप्य सुचिरं महीं विहृत्य कोटिशिलाख्ये तीर्थेऽनशनं प्रपद्य प्रभूतैर्मुनिभिः समं शिवमगात् ॥ ५ ॥ १३४ इति पञ्चमे पर्वणि श्रीशान्तिनाथचरमभववर्णनात्मकः पञ्चमः सर्गः ॥ ५ ॥ इति कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति शासनसम्राट् - बालब्रह्मचारि - श्रीकदम्बगिरितालध्वज - राणकपुर- कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कार समयज्ञ - शान्तमूर्त्याचार्यवर्य श्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्य श्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न श्रीविजययशोभद्रसूरीश्वर शिष्यरत्नश्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे पञ्चमपर्वणि समाप्तं श्रीशान्तिनाथचरितप्रतिबद्धं पञ्चमं पर्व ॥ ५ ॥ क Page #74 -------------------------------------------------------------------------- ________________ कठिनशब्दार्थः ધનુષ ઘોડો ઈન્દ્ર जलौकः १३६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जिगमिषुः જવાની ઈચ્છાવાળો પણ: સf: થનોrઃ રથના મધ્યભાગમાં | નિષા જીતવાની ઈચ્છા कबन्धः ધર્ડ સપ્તમ: : कोदण्डम् पूतिगन्धिः ખરાબ ગન્ધવાળું फलकम् ઢાલ चर्मप्रसेविका ચામડાની ધમણ परिपन्थी શત્રુ गृद्धगोमायुः લોભી શિયાળ વૈતુર્થઃ સf: मनोभूः કામદેવ द्विषन्तपः શત્રુને તપાવનાર सपङ्केष्टिका કાદવ સહિતની ઈંટ श्येन: બાજપક્ષી ગીધ છવ: કાન્તિ ખરાબ બોલનાર वल्गा ઘોડાની લગામ તાતા: તાડનું ઝાડ पर्याणम् ઘોડા ઉપર मकरः મગરમચ્છ નાંખવાનું પલાણ, જળો कपर्दकः કોડી ઘોડે સવાર मत्कुणः मत्कोट: મંકોડો फेनलाला સફેદ ફીણની લાળ પN: : वात्या વાયુનું તોફાન પઃ ધૂળ અભિમાન રહિત अनुत्सेकी सार्वभौमः સમસ્ત પૃથ્વી निकुञ्जः લતા મંડપ સંબંધી कारण्डवः બતક, હંસ પક્ષી कवचहरः બન્નર ધારણ કરી वैतालिकः ભાટ, ચારણ શકે તેવો પુત્ર સુષમુઃ સૂવાની ઈચ્છાવાળો पाथेयम् ભાથું कणशः ચૂરેચૂરો પિતૃને ઉદ્દેશીને अन्तिकम् પાસે અપાતું દાન अभंलिहः ગગનચુંબી दोष्मान् બાહુબળવાળો कौरव्यः કુરુ દેશનો રાજા सकर्णः સાવધાન વવવ: બર શિકારી तुमुल: યુદ્ધ राजयक्ष्मा ક્ષયરોગ તાપૂઈ: કૂકડો માંકડ सादी कठिनशब्दार्थः चतुर्थं पर्व પ્રથમ: સff: पन्नगः સર્પ वदान्यः ઉદાર પાપ: ધનુષ वेत्री દ્વારપાલ कुलिश: ઈન્દ્રનું વજ खड्गी ગેંડો मातुलिङ्गः બીજોરું कपित्थम् કોઠાનું ફળ वासवः स्वैरम् સ્વેચ્છાએ गायनः ગીત ગાનાર कञ्चुकी જનાનખાનાનો और्ध्वदेहिकम् મરેલાની અધિકારી મરણતિથિએ જીતનાર અપાતું પિંડદાન अन्तकः યમદેવ દ્વિતીય સf: सिंहाध्युषितम् સિંહ જ્યાં રહેલ | उदाहः વિવાહ તે સ્થાન उपरोध्यः આગ્રહ કરવો व्यात्ताननः પહોળા મુખવાળો कोपतरलः ગુસ્સાથી ધ્રુજતો વિશ્રધ્ધ: શાંત પામેલ વેગપૂર્વક गत्वरी ગમન કરનારી भ्रूणहत्या ગર્મહત્યા मशक: મચ્છર इष्टापूर्तम् અગ્નિહોત્ર યજ્ઞ सर्वाभिसारः ચતુરંગ સેનાને વિગેરે તૈયાર કરી યુદ્ધ તૃતીય: સT: માટે પ્રયાણ शिबिरम् પડાવ उपत्यका તલેટી प्राभृतम् રાજયોગ્ય ભેટયું ज्याघोषः ધનુષની દોરીનો कन्दरः ગુફા ટંકાર राहुसौरी રાહુ-શનિ દીપ્તિ, કાનિ | યારા: હાથી १०शिष.भा-३ નિuT: निवापः Page #75 -------------------------------------------------------------------------- ________________ નક્સ: कठिनशब्दार्थः अधिज्यम् દોરી ચઢાવેલ ધનુષ્ય सप्रश्रयम् વિનયપૂર્વક अभ्यङ्गः તેલ વિગેરેનું મર્દન બિન્દુ, ટીપું कृतनेपथ्यः આભૂષણયુક્ત નિવૃક્ષઃ ગ્રહણ કરવાની ઈચ્છાવાળો विगुड् शोषम् पामा सीरी કત્રિઃ એક પ્રકારનો ભાત ખસનો રોગ ક્ષયનો રોગ ખસનો રોગ બળદેવ વિષ્ણુ 138 त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः વૈતુર્થ: સf: मुमूर्षुः મરવાની किडिणी ઈચ્છાવાળો પન: જુગાર पाशग्रन्थिः ફાંસો ताम्रम् લાલ રંગવાળું दिदृक्षा જોવાની ઈચ્છા रिरंसा રમવાની ઈચ્છા ताम्बूलम् નાગરવેલનું પાન, पारापतः કબૂતર સોપારી श्येन: બાજપક્ષી आलानम् હાથીને બાંધવાનો પશ્વમ: સ: ખીલો हर्म्यम् હવેલી हस्तिपकः મહાવત करिशीकराः उपायनम् હાથીની સૂંઢમાંથી નીકળતા જળના રસોઈઓ सूपकारः महीरुहः કણા વૃક્ષ आमिषम् માંસ शकुनग्रन्थिः શુકનની ગાંઠ शिखा અગ્નિની જવાલા सव्रीडा લજજાયુક્ત શનિમ: પતંગીયું जिहीर्षुः હરણ કરવાની ઈચ્છાવાળો ગધેડો : बीजपूरः બીજોરું स्वर्णवेत्रासनम् સોને મઢેલ નેતરનું સન जन्ययात्रा જાન नीरङ्गी ઘુંઘટ ભેટ वृषी पञ्चमं पर्व પ્રથમ: સT: ओकः ઘર, નિવાસ વાસ: વસ્ત્ર विहायसा આકાશ શક્ષક બગલ દ્વિતીય સf: स्तिमितम् ભીનાશ, આદ્રતા | વાની અશ્વની એકાન્ત ક્રીડાભૂમિ पाणिगृहीती પરણેલી સ્ત્રી वाहः ઘોડો गव्यूतम् ગાઉં चेटिका દાસી उच्छ्रितः ઊંચાઈ વ્રત પાળનારનું वर्ती માર્ગ, રસ્તો દર્ભનું આસન 14: માંચડો साम સમજાવવું જમતાં વધેલ प्राभृतम् ભેટછું ભોજન युयुत्सुः યુદ્ધની ઈચ્છાવાળો अशनिः વીજળી शूकरः निरागाः નિરપરાધી તૃતીયઃ સ: क्रीडनकम् રમવાનું સાધન विविदिषा- જાણવાની ઈચ્છા ત્યાગની बिसम् કમળનો દાંડલો, ઈચ્છાવાળો મૃણાલ. હણવાની फलकम् હાલ ઈચ્છાવાળો पैतृष्वस्त्रेयः विधित्सुः કરવાની ઊડવાની ઈચ્છાવાળો ઈચ્છાવાળો न्यासीकृतः થાપણ કરેલ समीरः પવન उच्छिष्टम् ભિંડ जिघांसुः ફોઈનો પુત્ર उत्पित्सुः