________________
चतुर्थं पर्व-प्रथमः सर्गः लोकोत्तरबलो बलभद्रस्तवाऽऽत्मजो भावीति व्याजहार । ततः सा यथोचिते समयेऽशीतिधनुरुत्तुङ्गं श्वेतवर्ण महाभुजं सुतमसूत । नृपश्च तस्य समहोत्सवम-अचल इति नामाऽकरोत् । तदनन्तरं कियत्यपि काले गते भद्रादेवी केतकी प्रसूनमिव गर्भं दधौ । पूर्णे समये च सर्वलक्षणसम्पूर्णा कन्यामसूत । महीभुजा च तस्या मृगावतीति नामधेयं चकार ।
क्रमेण च सा सर्वाङ्गमनोहरा बाल्यमतीत्य यौवनं प्रपेदे । यथा यथा च मृगावत्या यौवनश्रीरवधिष्ट, तथा तथा भद्रायास्तद्वरार्थे चिन्ताऽवधिष्ट । ममेव राज्ञोऽप्यस्या वरार्थे चिन्ता भवत्विति भद्रा तां नृपान्तिके प्रेषितवती । तां दृष्ट्वा च कामातुरो नृप इयं मम पुत्रीत्यजानान इव हद्यचिन्तयत्-"आश्चर्यमस्याः सौन्दर्य, जगति सर्व सुलभम्, इयं तु बाला दुर्लभे"ति मन्ये । एवं विचिन्त्य च तां प्रियालापपुरस्सरममारोप्य स्पर्शादिभिरनुरागविषयं विधाय कञ्चकि भिरन्तःपुरमनाययत् । पौरलोकान् समाहूय च लोकापवादरक्षार्थमपृच्छत्-"मम राज्ये यद् रत्नं समुत्पद्यते, तत् कस्येति निवेद्यताम्"। तेषां च "भवानेव स्वामी"ति निर्णयं त्रिर्गृहीत्वा द्राग् निजकन्या मृगावती दर्शयामास । युष्मदनुज्ञयेदं कन्यारत्नमिदानीमेव परिणेष्यामीत्युवाच सः । तच्छ्रुत्वा लज्जिताः पौरा निजनिजगृहं ययुः । नृपश्च तां गान्धर्वेण विवाहेन पर्यणैषीत् । ततश्च स्वसुतायाः पतिरिति तस्य नृपस्य प्रजापतिरिति नाम पप्रथे ।
अथ भद्राऽखिले जने हसनीयं पत्युस्तं कुलकलङ्कं श्रुत्वा लज्जिताऽचलेन पुत्रेण सह दक्षिणापथेऽचालीत् । अचलश्च दक्षिणस्यां मातुः कृते माहेश्वरीति नगरी निर्माय तां सर्वत आहृत्याऽऽहत्य हिरण्यादिभिः पूरयामास । तत्र च कुलीनै: सचिवादिभिर्वृतां मातरममुञ्चत् । भद्राऽपि च शीलवती देवपूजादिषट्कर्मरता तत्राऽवास्थित । अचलश्च पितृभक्त: पोतनपुरं समेत्य पितरं शुश्रूषमाणस्तस्थौ । राजाऽपि च मृगावतीमग्रमहिषीपदेऽस्थापयत् ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ कियत्यपि काले गते विश्वभूतिमुनेर्जीवो महाशुक्राच्च्युत्वा मृगावत्याः कुक्षाववातरत् । तदानीं च तया विष्णुजन्मनः सूचकाः केसरि-लक्ष्मी-सूर्य-पूर्णघट-समुद्र-रत्नसञ्चयाग्नयः सप्त महास्वप्ना दृष्टाः । प्रबुद्धया तया निवेदितान् तान् स्वप्नान् श्रुत्वा च"अर्धचक्री तव सूनुर्भविते"ति नृपोऽवोचत् । नैमित्तिका अपि च पृष्टाः स्वप्नान् तथैव व्याचख्युः । पूर्णे समये च सा मृगावती सर्वलक्षणलक्षितमशीतिधनुरत्तुङ्ग कृष्णवर्णं सुतमसूत । राजा च समहोत्सवं तस्य पृष्ठे वंशत्रयं दृष्ट्वा तस्य सुतस्य त्रिपृष्ठ इति नामाऽकरोत् । __स च त्रिपृष्ठः क्रमशो वर्धमानोऽचलेन बलभद्रेण रम्यमाणो लीलयैव सकला: कला जग्राह । नील-पीताम्बरधरौ तालगरुडध्वजौ मूर्तिमन्तौ पक्षाविव सिता-ऽसितौ तौ वासुदेव-बलदेवी त्रिपृष्ठाऽचलौ जङ्गमौ स्वर्णशैला-ऽजनाद्री इवाऽशोभेताम् । तथा विनाऽचलं न त्रिपृष्ठो, न त्रिपृष्ठं विनाऽचल इत्येकात्मानौ द्विशरीराविव तौ सह चेरतुः ।
इतश्च रत्नपुरे मयूरग्रीवनन्दनो नीलाञ्जनाप्रसूरशीतिधनुरुत्तुङ्गो घनश्यामश्चतुरशीत्यब्दलक्षप्रमितायुर्महाभुजः पराक्रमी, प्रतिविष्णुरश्वग्रीव आसीत् । स च निजौजसा त्रिखण्डं भरतक्षेत्रं वैताढ्याद्रेढे विद्याधर श्रेण्यौ मागधेश-प्रभासेश-वरदामेशान् स्ववशान् कृत्वैकातपत्रं साम्राज्यं भुञ्जान: पृथिव्यामिन्द्र इव स्थितः कालमतिवाहितवान् । ___एकदा च तस्य चित्ते चिन्तोदभूत्-"पृथिव्यामेकमल्लस्य मम नृपेषु को वधकः?" एवं विमृश्याऽश्वबिन्दुं निमित्तशं द्वारपालेनाऽऽजूहवत् राजा । राज्ञा पृष्टश्च नैमित्तिकोऽवदत्-"शान्तं पापम्, अमङ्गलमिदं वचः प्रतिहतम् । तवाऽशेषजगज्जिष्णोरन्तकोऽपि नाऽन्तकरः । मनुष्याणां का कथा ?" ततो हयग्रीवेण यथार्थं ब्रहीति पृष्टः स लग्नादिकं स्फुटं विचार्याऽवदत्-"तव चण्डवेगाभिधं दूतं