________________
९५
९६
पञ्चमं पर्व-द्वितीयः सर्गः तं ज्ञात्वा दमितारिश्चक्रं सस्मार । तच्च चक्रं ज्वालाशतसमाकुलं दमितारेः करे समापपात । भ्रमयित्वा च स तदनन्तवीर्याय मुमोच । तच्चक्रतुम्बाग्रघातेन मूच्छितः स विष्णुर्निपतितोऽपराजितवीजितश्च सुप्त इव द्रागुत्तस्थौ । पार्श्वस्थं तदेव चक्रमादाय च दमितारेः शिरश्चकर्त्त । तदानीं च मुदिताः सुरा विष्णोरुपरि पञ्चवर्णपुष्पवृष्टि चक्ररवोचंश्च -"भो भो ! विद्याधरेन्द्राः ! सर्वे तत्पराः श्रृण्वन्तु, अयमनन्तवीर्यों विष्णुः, अयमपराजितश्च बलदेवः । एतत्पादान् सेवध्वं । रणाच्च निवर्तध्वम्" । ततः सर्वे विद्याधरेन्द्रा बलदेव-वासुदेवौ शरणं ययुः । वासुदेवश्च साग्रजः शुभां पुरीं प्रति विमानस्थस्तैर्नृपैः सह प्रतस्थे।
मेरोः समीपे च नृपैर्विष्णुरूचे-"श्रीमतामर्हतामाशातनां मा स्म कार्षीः। अत्र गिरौ बहुशो जिनचैत्यानि सन्ति, तानि यथाविधि वन्दित्वा व्रज"। ततो विष्णुः सपरिच्छदो विमानादवतीर्य तानि चैत्यानि वन्दित्वा कौतुकात् तं गिरिं पश्यन्नेकत्र वर्षोपवासप्रतिमास्थितं कीर्तिधरं मुनि तदैवोत्पन्नकेवलं देवारब्धमहिमानं दृष्ट्वा मुदितस्तं त्रि:प्रदक्षिणीकृत्य नत्वाऽग्रे निषध देशनां श्रुतवान् । अन्ते च कनकधीनत्वा तं मुनि पप्रच्छ-"मम कुत: पितृवधो बन्धुविरहश्च"। ततो मुनिराख्यत्-"धातकीखण्डे प्राग्भरते शङ्खपुरग्रामे श्रीदत्ता नाम नारी दारिद्र्यपीडिताऽऽसीत् । एकदा भ्रमन्ती सा श्रीपर्वतगिरि प्राप्य तत्र शुक्लध्यानस्थं सत्ययशसं नाम महामुनि ददर्श । तं नत्वा च सा पप्रच्छ-पूर्वजन्मनि मया मनागपि धर्मो न कृतः, येन साम्प्रतमतिदुःस्थिताऽस्मि । तव वचश्च न विफलमिति श्रेयसे मां किञ्चिदादिश । येन भवान्तरे भूयो नेदृशी स्याम्" ।
तद्वचः श्रुत्वा किञ्चिद् विचार्य च स मनिर्धर्मचक्रवालं नाम तपोऽनुष्ठातुमादिशत् । अत्र च तपसि द्वे त्रिरात्रे सप्तत्रिंशच्चतुर्थानि च भवन्ति । अमुष्य तपसः प्रभावाच्च पुनरीदृशं भवान्तरं न भविष्यतीति
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः फलं चाऽवोचत् । ततस्तद्वाचं गृहीत्वा तं प्रणम्य सा निजं गृहं गत्वा तत् तप: कर्तुमारेभे । तत्प्रभावाच्च पारणकेऽपि स्वाद्वप्राप्तपूर्वं भोजनं प्राप । ततः प्रभृति च सा धनिकगृहेषु द्विगुणं त्रिगुणं च कर्मवेतनं प्राप । एवं किञ्चिद्रव्यवती सम्पन्ना सा देवगुरूणां यथाशक्ति पूजा कर्तुमारेभे । एकदा च तस्या गृहस्यैकदेशो वाताघातात् पतितः । तत्र च सा स्वर्णादिकं लेभे । ततस्तप:समाप्तौ सा चैत्यपूजादिपूर्वक महदुधापनं विदधे ।
तपसोऽन्तपारणदिने च यावद् दिग्वीक्षणं करोति, तावन् मासक्षपणकं सुव्रतर्षि ददर्श । ततः स्वं कृतकृत्यं मन्यमाना स्वयं प्रासुकान्नादिना तं प्रतिलाभ्य नत्वा चाऽऽर्हतं धर्मं पप्रच्छ । ततो मुनिरब्रवीत्-"न एष कल्पो न, यद्भिक्षार्थं गतेन क्वाऽपि धर्मदेशना क्रियते । यदि ते धर्मशुश्रूषा, तदा मयि वसतौ गते समये आगच्छेः" । एवमुक्त्वा स मुनिर्जगाम । ततः पारणं कृत्वा स्वाध्यायं कुर्वति मुनौ तत्र पौरलोकः श्रीदत्ता च वन्दनार्थं समाजगाम । वन्दित्वा तेषु यथास्थानमुपविष्टेषु सत्सु मुनिः प्रसन्नया वाचा धर्मदेशनां विदधे ।
"संसारे चतुरशीतियोनिलक्षान् भवान् भ्रान्त्वा दैवात् प्राणी मानुष्यं लभते । तत्राऽपि च सर्वधर्मेषु प्रधानः सर्वज्ञकथितो धर्मः सुदुर्लभः । तस्मात्तत्र धर्म एव सम्यक्त्वपूर्वकं यत्नः कर्त्तव्यः । येन संसारी संसारं लीलया तरति" । ततः श्रीदत्ता सुव्रतपादयोर्नत्वा सम्यक्त्वपूर्वकं सर्वज्ञोक्तं धर्म जग्राह । मुनि नत्वा पौरलोकोऽपि सर्वो श्रीदत्ता च स्वस्वगृहं ययौ । ततः सा कियन्तं कालं तं धर्म प्रत्यपालयत् । कर्मविपाकाच्च तस्या मनसि विकल्पः समुदभूत्यज्जिनधर्मस्य परमं फलं कीर्त्यते, तत्फलं मम भविष्यति न वा ? तदनन्तरमेकदा सा सत्ययशसं मुनि वन्दितुं प्रस्थिता सा गगने विमानस्थं विद्याधरयुगलं समीक्ष्य तद्रूपमोहिता निजगृहमागत्य तां विचिकित्सामनालोच्या प्रतिक्रम्यैव च व्यपद्यत ।