Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व पञ्चमः सर्गः
१२७
लोलुपश्च हरिणो व्याधस्य वेध्यतां याति । एवमेकोऽपि विषयः सेवितः पञ्चत्वाय जायते । पञ्चभिरिन्द्रियैर्युगपत् पञ्च विषया: सेविताः पञ्चत्वाय कथं न भवेयुः ? तस्माद् नरो मनः शुद्धेन्द्रियजयं कुर्यात् । अन्यथा यम-नियमा: कायक्लेशमात्रफलाः स्युः ।
अजितेन्द्रियो हि दुःखैर्बाध्यते इति सर्वदुःखविमुक्तये तानीन्द्रियाणि जयेत् । इन्द्रियजयश्च न विषयेषु सर्वथैवाऽप्रवृत्तिः । किन्तु रागद्वेषादिकं विना तत्प्रवृत्तिस्तज्जयः । इन्द्रियैर्हि स्वसमीपगो विषयोऽग्रहीतुमशक्यः । किन्तु मतिमान् विषयेषु रागादिकं विवर्जयेत् । संयमधारिणो हीन्द्रियाणि हितेषु प्रवर्तमानान्यहितेषु चाऽप्रवर्तमानानि भवन्ति । किं चेन्द्रियाणि जितानि मोक्षायाऽजितानि बन्धायेति विमृश्य यद् युक्तं तत् समाचरेत् । मृदौ कर्कशे च स्पर्शे रागाद्यभावः स्पर्शनेन्द्रियजयः । भक्ष्यादे रसे स्वादे च रागाद्यभावो जिह्वेन्द्रियजयः । सुरभावितरस्मिन् वा गन्धे रागाद्यभावो घ्राणेन्द्रियजयः । रूपवति कुरूपे वा हर्ष - जुगुप्साद्यभावश्चक्षुरिन्द्रियजयः । वीणादेः खरादेश्च स्वरे रागाद्यभावः श्रवणेन्द्रियजयः । कोऽपीह मनोज्ञोऽमनोज्ञो वा विषयो नाऽस्ति य इन्द्रियैर्नोपभुक्त इति विमृश्य स्वास्थ्यमेव सेवेत । विषया हि नैकान्तेन शुभा अशुभा वा, किन्त्वपेक्षयेति क्वेन्द्रियै रज्येत विरज्येत वा ? ततो मनः शुद्धया जितेन्द्रियः क्षीणकषायो नरोऽचिराद् मोक्षमाप्नोति" ।
प्रभोरीदृशीं देशनां श्रुत्वा जातसंवेगश्चक्रायुधो भगवन्तं व्यजिज्ञपत्-“स्वामिन् ! संसारभीतोऽस्मि तद्दीक्षां प्रदायाऽभयं कुरु” । तत: स्वामिना ‘युक्तमिदं ते' इत्युक्तस्तनयं राज्ये निवेश्य पञ्चत्रिंशता राजभिः सहितः स्वामिनोऽन्तिके प्रव्रज्यामुपादत्त । ततश्च प्रभुः षट्त्रिंशतश्चक्रायुधादिकान् गणधरान् त्रिपदीमुपादिशत् । ते च तदनुसारेण द्वादशाङ्गीमसूत्रयन् । स्वामी च तेषामनुयोग- गणानुज्ञे अदत्त । भूयांसश्च नरा नार्यश्च प्रबुद्धास्तदानीं स्वामिनोऽन्तिके प्रव्रज्यां
१२८
त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः जगृहु: । केचिच्च सम्यक्त्वपूर्वकं श्रावकत्वं जगृहु: । प्रथमपौरुष्यां पूर्णायां स्वामिनि देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायां गणधरे देशनाविरते सुरादयः स्वामिनं नत्वा स्वं स्वं धाम ययुः ।
तत्तीर्थे च समुत्पन्ने गजरथोऽसितवर्ण: क्रोडास्यो दक्षिणाभ्यां बाहुभ्यां बीजपूरा-ब्जधरो वामाभ्यां च नकुला - ऽक्षसूत्रधरो गरुडाख्यो यक्षः, कमलासना गौराङ्गी दक्षिणाभ्यां भुजाभ्यां पुस्तकोत्पलधारिणी वामाभ्यां च कमण्डलु - कमलधरा निर्वाणी देवी च शासनदेवते प्रभोः सन्निहिते जाते । ताभ्यां सहितश्च भगवान् शान्तिर्वसुन्धरां विजहार ।
अथाऽन्यदा हस्तिनापुरमुपेत्य भगवान् समवासार्षीत् । तत्र च सपौरपरिच्छदस्तत्पुरेश्वरः कुरुचन्द्रो भगवन्तमुपतस्थे । यथास्थानं स्थितेषु च देवादिषु भगवान् देशनां विदधे । देशनान्ते च नत्वा कुरुचन्द्रो व्यजिज्ञपत् - "स्वामिन्! केन पूर्वकर्मणाऽहमिह राज्यमासदम् ? तथा ममोपायने प्रतिदिनं पञ्च वस्तु-फलादीनि केन कर्मणा ढौकन्ते ? तदिष्टेभ्यो दास्यामीति स्वयं नोपभुञ्जे, न चाऽन्यस्मै तत् प्रयच्छामि, तत् केन कर्मणा ?" ततः प्रभुराख्यत् - "एतत् सर्वं साधवे दानतस्तव राज्य श्रीरन्वहं पञ्चवस्तुढौकनं च । एषामप्रदानमभोगश्च पुण्यसाधारणत्वात् । बहूनां ह्यधीनं वस्तु न खल्वेकेन भुज्यते । तत एव चाऽभीष्टेभ्यः प्रदास्यामीति चिन्ता ते जायते । जन्तूनां बुद्धिर्हि पूर्वकर्मानुसारेण जायते ।
अस्यैव जम्बूद्वीपस्याऽस्मिन्नेव भरतक्षेत्रे कोसलाख्ये जनपदे श्रीपुरे नगरे सुधनो धनपतिर्धनदो धनेश्वरश्च चत्वारो वणिक्पुत्राः सवयसोऽभूवन्। अन्यदा चाऽर्थोपार्जनार्थं ते चत्वारोऽपि गृहीतपाथेयाः सम्भूय रत्नद्वीपं प्रत्यचलन् । महाटवीं प्रविश्य तत्प्रान्ते क्षीणप्रायपाथेयास्ते प्रतिमास्थितं मुनिं दृष्ट्वाऽस्मै किञ्चित् प्रयच्छामीति

Page Navigation
1 ... 68 69 70 71 72 73 74 75