Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व-पञ्चमः सर्गः
१२३ पञ्चधात्रीरप्सरसः समादिश्य नन्दीश्वरं गत्वाऽष्टाह्निकोत्सवं विधाय यथायथं स्वं धाम जगाम ।
अथ देवी गतनिद्रा दिव्यवस्त्रादिसमन्वितं दीप्तिमन्तं सूनुमुदैक्षत। नृपश्च प्रमुदितः समहोत्सवम् 'अस्मिन् गर्भस्थेऽशिवान्यशाम्यन्निति तस्य शान्तिरिति नामाऽकरोत् । प्रभुश्च शक्रसङ्क्रमितसुधं निजाङ्गुष्ठं पिबन् धात्रीभिबल्यमानः क्रमेण वर्धमानो बालक्रीडामनुभवन् चत्वारिंशद्धनुरुत्तुङ्गो यौवनं प्रपेदे । नृपश्च शान्तिना राजकन्या: पर्यणाययत् । पञ्चविंशत्यब्दसहस्रान्ते च नृपः शान्ति राज्ये निवेश्य स्वयं स्वार्थमसाधयत् । शान्तिश्च वसुधां यथावत् पालयस्ताभी राजकन्याभिर्विषयसुखं बुभुजे ।
अथ तस्याऽग्रमहिषी यशोमती स्वप्ने चक्रं मुखे प्रविशत् ददर्श । तदानीं च निजमायुः पूरयित्वा सर्वार्थसिद्धविमानाद् दृढरथजीवश्च्युत्वा तस्याः कुक्षाववातरत् । तया तत्कालं प्रबद्ध्या निवेदितश्च शान्ति ज्ञानत्रयधर उवाच-"मम प्राग्जन्मानुजो दृढरथस्सर्वार्थाच्च्युत्वा तवोदरे इदानीमवातारीत् । तं च पुत्रं समये प्रसविष्यसे"। ततः पूर्णे समये सा यशोमती पूर्णलक्षणं पवित्रं पत्रं सुषुवे । शान्तिश्च तस्य 'गर्भस्थेऽस्मिन् जननी चक्रं ददर्शे'ति समहोत्सवं चक्रायुध इति नाम चक्रे । __ स च चक्रायुधो धात्रीभिाल्यमानः क्रमेण वर्धमानो यौवनं प्रपन्नवान् । पिता च तेनाऽनेकशो राजपुत्री: पर्यणाययत् । तदेवं राज्यं पालयत: श्रीशान्तिनाथस्य वर्षाणां पञ्चविंशतिसहस्त्री व्यतिक्रान्ता । तत एकदा तस्याऽस्त्रशालायां चक्ररत्नमुदभूत् । शान्तिश्च तस्य चक्रस्याऽष्टाह्निकोत्सवमकारयत् ।
अथाऽस्त्रशालाया निःसृत्य पूर्वाभिमुखं चलितं चक्रं यक्षसहस्राधिष्ठितं सहस्रारं ससैन्यमनुसरन् शान्तिर्मागधं प्राप्तवान् । मागधेशदेवेन धृताज्ञो दत्तोपायन: प्रतिष्ठमानो दक्षिणाब्धिमासाद्य
१२४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्र वरदामेशं साधयित्वा ततः प्रस्थाय प्रतीच्यजलधि प्राप । प्रभासपतिना पूजितो गृहीतशासनश्च सिन्धुदेवीमुद्दिश्य प्रचलितः सिन्धुतटं प्राप्तवान् । सिन्धुदेव्या स्तुत: स्वीकृताज्ञश्च तदने वैताढ्यं प्राप्य वैताढ्यकुमारेण पूजितस्ततस्तमित्रागुहासमीपं गत्वा तत्र कृतमालदेवेन पूजित: शिबिरं निवेशयामास । ___ तत्र श्रीशान्तिना समादिष्टः सेनानीरत्नं सिन्धुमुत्तीर्य तद्दक्षिणनिष्कुटं साधयित्वा दण्डरत्नेन कपाटौ ताडयंस्तमिस्रागुहाद्वारमुद्घाटयामास । शान्तिश्च गजारूढस्तस्यां गुहायां प्रविश्य तमोनाशार्थ गजस्य दक्षिणे कुम्भे मणिरत्नं स्थापयित्वा गुहाया उभयोभित्त्योः काकिणीरत्नेनैकोनपञ्चाशन्मण्डलान्यालिखन् ययौ । वर्धकिरत्नेन बद्धपद्ये गुहान्तरस्थे उन्मग्ना-निमग्ने नद्यावुत्तीर्य ससैन्यः स्वयमुद्धटितेनोत्तरद्वारेण गुहाया निर्गत्याऽश्वरत्नारूढेन खड्गहस्तेन सेनान्या ध्वस्तान् म्लेच्छान् पूर्वचक्रवर्तिवद् यथाविधि वशगान् विदधे । क्षुद्रहिमवगिरि गत्वा हिमवत्कुमारेण पूजितस्तत ऋषभकूटाद्रौ गत्वा काकिण्या शान्तिश्चक्रीत्यक्षराणि लिलेख प्रभुः । ततो वैताढ्यपर्वतोपत्यकाभुवं प्राप्य तत्र श्रेणिद्वयविद्याधरकुमारैः पूजितस्ततो वलित: स्वयं गङ्गां सेनान्या च तदुत्तरनिष्कुटं साधयामास । ततः खण्डप्रपाताख्यां गुहां प्राप्य नाट्यमालदेवं वशंवदं कृत्वा सेनान्या दण्डरलेन तां गुहामुद्घाट्य प्रविश्य पूर्ववदुन्मग्ना-निमग्ने नद्यावुत्ततार । ततः पूर्ववद् मणिरत्नेन काकिणीकृतमण्डलैश्च तमो भिन्दन् स्वयमुद्घटितेनाऽपाग्द्वारेण गुहाया निःसृत्य नैसर्पप्रमुखान् नवाऽपि निधीन् वशगान् विधाय म्लेच्छप्रचुरं गाङ्गं दक्षिणनिष्कुटं च सेनान्याऽसाधयत् ।
एवं क्रमेण षट्खण्डभरतमष्टभिर्वर्षशतैः साधयित्वा निवर्तमानः कतिभिः प्रयाणैर्हस्तिनापुरमाप । निजनिकेतनं प्राप्तश्चाऽमरैर्नृपैश्च कृतचक्रवर्तित्वाभिषेक: पृथक् पृथग् यक्षसहस्राधिष्ठितैश्चतुर्दशभी रलैवभिनिधिभिश्च श्रितोऽन्तःपुरयोषितां चतुःषष्ट्या सहस्रैरावृतो,

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75