Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२०
पञ्चमं पर्व-चतुर्थः सर्गः
११९ ततः श्येनोऽपि मनुष्यभाषया महीपतिमुवाच-"मद्भयादेष कपोतो भवन्तं शरणं ययौ । अहं तु क्षुत्पीडितः कं शरणं यामि? दयालवो हि सर्वेष्वप्यनुकूलाः । तद्यथैनं त्रायसे, तथा मामपि त्रायस्व । क्षुधार्तस्य मे प्राणा गच्छन्तीव। धर्मप्रियोऽपि किं बुभुक्षित: पापं न करोति ? मम च भोज्यान्तरैस्तृप्तिरपि न । यत: स्वयंहतप्राणिमांसाशनोऽहम्"। ___ततो नृपोऽवोचत्-"स्वमांसमहं ते कपोतेन तुलयित्वा ददामि, तेन तृप्तो भव" । तत: श्येनेन तत्स्वीकृते तुलायामेकतो नृपः कपोतमन्यतश्च च्छित्वा छित्वा स्वमांसं निदधे । राजा यथा यथोत्कृत्योत्कृत्य स्वांसमक्षप्सीत् तथा तथा कपोतो गुरुतरो जातः । तं च कपोतं गुरुतरं जायमानं वीक्ष्य भूपतिः स्वयमेव तुलामारुरोह । ततोऽमात्या ऊचु:-"नृप ! किमेतदारब्धं त्वया, येन शरीरेण सकला मही त्रातव्या, तदेकस्य पक्षिमात्रस्य त्राणे कथं त्यजसि ? न चाऽयं कपोत एव, किन्तु कोऽपि देवादिः, कथमन्यथाऽस्येदृशो भार: ? यावत् ते इत्थमूचुस्तावत् किरीट-कुण्डलादिमण्डितो देव आविर्भयोचे"त्वं पुरुषोत्तमोऽसि, यत् पौरुषाद् न चाल्यसे । ईशानेन्द्रस्त्वां सभायां वर्णयामास । तदसहमानचाऽहं त्वत्परीक्षार्थमागमम् । इमौ च पक्षिणी प्राग्जन्मवैराद् युद्धायोपस्थितौ दृष्ट्वाऽध्यतिष्ठमेवमकाएं च, तत् सहस्व" । एवमुक्त्वा नृपं सज्जं कृत्वा देवो दिवं ययौ । सामन्ताद्याश्च विस्मयाद् राजानं पप्रच्छु:-" कीदृशाविमौ श्येन-कपोतो ? प्राग्जन्मनि चाऽनयोः किंतु वैरम् ? अयं देवश्च प्राग्भवे कः?"
ततो नृपोऽवोचत्-"जम्बूद्वीपे ऐरवतक्षेत्रे पद्मिनीखण्डे नगरेऽतिसम्पन्नः सागरदत्तोऽभूत्। तस्य पत्नी च विजयसेनाख्याऽऽसीत् । तयोश्च जातौ धनो नन्दनश्च नाम्ना पुत्रौ क्रमेण वर्धमानौ यौवनं प्रपेदाते । एकदा च सागरदत्तं प्रणम्य तावूचतुः-"आवां वाणिज्यार्थं देशान्तरं गमिष्यावः, तत् समादिश" । पित्रा च समनुज्ञातौ तौ
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विविधं भाण्डमादाय सार्थेन सह प्रचलितौ नागपुरं नाम पुरं प्राप्य व्यवहरन्तौ महामूल्यमेकं रलं प्राप्य शङ्खनदीतीरे तदर्थं युध्यमानौ महाह्नदे निपत्य विपद्य चेमौ खगौ जातौ प्राग्जन्मवैरादिहाऽपि वैरायते । ___ अथ जम्बूद्वीपे प्राग्विदेहेषु सीतानद्या दक्षिणतटे रमणीयके विजये शुभाख्यायां पुरि स्तिमितसागरनृपस्येत: पञ्चमे भवेऽहमपराजिताख्यो बलदेवः पुत्रोऽभवम् । ममाऽनुजश्च तत्राऽनन्तवीर्यनामा वासुदेवो दृढरथोऽस्ति। तदानीं च प्रतिविष्णुर्दमितारिः कनकश्रीकन्यार्थमस्माभिर्युधि निपातितः। स च भवकान्तारे भ्रान्त्वा जम्बूद्वीपे भारतेऽष्टापदगिरिमूले निकृत्याख्यसरित्तटे सोमप्रभाख्यस्य तापसस्य सुतो भूत्वा बालतपश्चरित्वा सुरूपो नाम सुरोऽभवत् । सोऽयं सुर ईशानेन्द्रेण कृतां मम प्रशंसामसहिष्णुरिहाऽऽगात् । मत्परीक्षणं च व्यधात्" ।
राजस्तद्वचनं श्रुत्वा जातजातिस्मृती तौ श्येन-पारापतौ सद्यो मूर्च्छया भुवि पेततुः। शीतोपचारैश्च लोककृतैर्लब्धसंज्ञौ नृपमूचतुः"राजन् ! त्वं प्राग्जन्मवर्णनेनाऽऽवयोरसमोपकारकोऽसि । तत्प्रसद्य सन्मार्गमादिश । येन शुभं लभावहे" । ततस्तयोरवधिज्ञानतो योग्यता ज्ञात्वा नृपः कालप्राप्तमनशनं समादिदेश । तौ चाऽनशनं प्रपद्य विपद्य च भुवनवासिनां मध्ये सुरवरौ जातौ । मेघरथो नृपोऽपि पौषधं पारयित्वा यथावदुर्वी पालयंस्तस्थौ ।
अन्यदा च कपोत-श्येनवृत्तान्तं स्मरन् वैराग्यमापन्नोऽष्टमतपः कृत्वोपसर्गान् सोढुं प्रतिमया मेघरथस्तस्थौ । तदानीं चेशानेन्द्रोऽन्तःपुरस्थो "नमो भगवते तुभ्य"मिति जल्पन्नमोऽकरोत् । जगन्नमस्येन त्वया कस्मै नमस्क्रियाऽकारीति महिषीभिः पृष्टश्च शक्र उवाच-"पुण्डरिकिण्यां पुरि घनरथात्मजो मेघरथोऽष्टमतपः कृत्वा महाप्रतिमया स्थितोऽस्ति । स चाऽयं भावी तीर्थकरः । तदेतस्मै
९विष.भा-३

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75