Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 64
________________ पञ्चमं पर्व चतुर्थः सर्गः ११५ सेना भ्रमन्ती दन्तमथनं मुनिं ददर्श । ततो मुदिता तं वन्दित्वा देशनां श्रुत्वा च प्रबुद्धा तत्कालं राजानमापृच्छ्य तन्मुनेः प्रव्रज्यामाददे । अभयघोषोऽपि च तस्याश्चारित्रं प्रशंसन् स्वं धाम जगाम । अन्यदा च स नृपः स्वप्रासादे रत्नसिंहासनासीनस्तीर्थकुल्लिङ्गं छद्मस्थतया विहरमाणं जिनपुङ्गवमनन्तं प्रविशन्तं दृष्ट्वा ससम्भ्रममुत्थायोचितं भोज्यमादाय प्रणामपूर्वकं भगवन्तमुपतस्थे । भगवानपि च तद्दत्तभिक्षया पारणां चकार । देवैश्च तत्र वसुधारादिपञ्चकं दिव्यं विदधे । भगवांश्च पारणं विधाय क्वाऽपि विजहार । स च तीर्थकृदेकदा विहरन्नुत्पन्नकेवलो वज्रपुरे समवासरत् । तत्र चाऽभयघोषः समेत्य यथाविधि वन्दित्वा देशनां श्रुत्वाऽन्ते च पुनर्नत्वा भगवन्तं जगाद - "भगवन् ! क्षणं प्रतीक्षस्व । यावत् स्वं तनयं राज्ये निवेश्य दीक्षायै त्वत्पादान्तिकमायामि" । ततो नैव प्रमादिना भाव्यमिति स्वामिनोक्तः स गृहं गत्वा पुत्रावुवाच- "वत्स! विजय ! त्वं क्रमागतं राज्यमादत्स्व । वैजयन्त ! त्वमस्य यौवराज्यं परिपालय । अहं तु प्रव्रजिष्यामि " । ततस्तावूचतुः - "यथा भवान् भवभीतस्तथाऽऽवामपि । अत आवामपि प्रव्रजिष्यावः " । ततः साध्विति तौ प्रशस्य स नृपो राज्यमन्यस्मै कस्मैचिद् दत्वा ताभ्यां पुत्राभ्यां सहाऽनन्तजिनान्तिकं गत्वा प्रवव्राज । ते त्रयोऽपि चोग्रं तपस्तेपुः । तत्र भूपतिर्विंशत्या स्थानकैस्तीर्थकृन्नामकर्मोपार्जयत् । ते त्रयोऽपि च काले विपद्याऽच्युते कल्पे द्वाविंशतिसागरोपमजीविता देवा बभूवुः । *** इतश्च जम्बूद्वीपे प्राग्विदेहेषु पुष्कलावत्यां विजये पुण्डरीकिण्यां नगर्यां हेमाङ्गदो नाम नृपोऽभूत् । तस्य च वज्रमालिन्याख्यायाः पन्या: कुक्षावभयघोषजीवो ऽच्युताच्च्युत्वा चतुर्दशमहास्वप्न त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सूचितोऽवातरत् । पूर्णे च समये जातो नाम्ना घनरथोऽद्याऽप्यवनीं पाति । विजय- वैजयन्तौ विद्याधरौ जातौ युवां स्थः " । एवं पूर्वभवान् श्रुत्वा प्रसन्नौ तौ मुनिं नत्वा प्राग्जन्मपितरं त्वां भक्त्या द्रष्टुमिहाऽऽगतौ कुतूहलात् त्वद्दर्शनोपायभूतमनयोः कुक्कुटयोः सङ्क्रमणं प्रचक्रतुः । एतौ चेतो गत्वा भोगवर्धनमुनेरन्तिके प्रव्रज्य क्षीणकर्माणौ शाश्वतं पदं प्राप्स्यतः । तच्छ्रुत्वा च प्रकटीभूय पूर्ववत् सुतमानिनौ तौ विद्याधरौ घनरथं नत्वा गृहं जग्मतुः । तौ कुक्कुटौ च तच्छ्रुत्वा प्रबुद्धौ पूर्वभवान् शोचन्तौ नृपं नत्वा स्वभाषया प्रोचतु:देव ! किमद्याऽऽवां कुर्वहे, तद्धितमादिश" । ११६ ततो घनरथोऽवदत्-"अर्हन् देवो गुरुः साधुर्धर्मो जीवदया च वामस्तु'' । तत्प्रतिपद्य च तावनशनं प्रपद्य मृतौ भूतरत्नाटव्यां ताम्रचूल स्वर्णचूलसंज्ञौ भूतनायकौ भूत्वा विमानं विकृत्य पूर्वभवोपकारिणं मेघरथमुपेत्य नत्वा स्तुत्वा चैतद्विमानमधिरुह्य विश्वं पश्येति प्रार्थयताम् । ताभ्यां प्रार्थितश्च स मेघरथो विमानं सपरिच्छदोऽधिरुह्य ताभ्यां सम्पूर्णां पृथिवीं भ्रमयित्वा तानि तानि स्थानानि दर्श्यमानः पुनः पुण्डरीकिणीं प्राप्तवान् । तौ च भूतनायकौ तं राजकुले मुक्त्वा प्रणिपत्य रत्नवृष्टिं विधाय च स्वं स्थानं जग्मतुः । अथ लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थितो घनरथो मेघरथं राज्ये दृढरथं च यौवराज्ये निवेश्य वार्षिकदानं दत्त्वा दीक्षां गृहीत्वोत्पन्नकेवलज्ञानो भविकान् प्रबोधयन् महीं विजहार । मेघरथश्च दृढरथान्वितो महीमशात् । एकदा च देवरमणनाम्न्युद्याने रिरंसया गतो मेघरथोऽशोकतरोस्तले प्रियमित्रया सार्धं सङ्गीतं कारयितुमारेभे । अत्रान्तरे च तस्य नृपस्य पुरः सङ्गीतकचिकीर्षया सहस्रशो भूताः प्रादुरासन् । विचित्राकारभूषणनेपथ्याश्च ते ताण्डवं प्रारभन्त । तेषु ताण्डवं

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75