Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 63
________________ पञ्चमं पर्व चतुर्थः सर्गः ११३ दास्यामि । यद्यपरस्याऽपि तादृशः कुक्कुटोऽस्ति, तर्हि स मत्पणमुत्क्षिपतु" । तच्छ्रुत्वा मनोरमोचे-‘अहं पणं स्वीकरोमि । मत्कुक्कुटेन तवाऽयं कुक्कुट इहैव युध्यताम्' । ततो राज्ञैवमस्त्विति प्रोक्ते मनोरमा चेटिकया वज्रतुण्डाख्यं निजं कुक्कुटमानाय्य युद्धाय मुमोच । तौ चौ कुक्कुट चित्रयुद्धनिपुणौ परस्परं निपत्योत्पत्योपसृत्याऽपसृत्य चप्रहारान् ददतुः प्रतीषतुश्च । प्रचण्डचञ्चचरणप्रहारोद्भूतशोणितैस्तयोरङ्गानि ताम्राण्यपि ताम्राण्यभूवन् । लोकश्च द्वयोः कस्य जय इति निर्णेतुं न शशाक । ततो द्वयोर्युध्यमानयोर्धनरथोऽवदत्-"अनयोः कोऽपि केनाऽपि न जेष्यते" । ततो मेघरथेन कारणं पृष्टः स ज्ञानत्रयधरो घनरथ उवाच - "अनयो: पूर्वभववृत्तं श्रूयताम् अस्मिन्नेव जम्बूद्वीपे ऐरावतक्षेत्रे रत्नपुरे पुरे धनवसुर्दत्तश्च द्वौ मित्रे वणिजावभूताम् । तौ च धनाशया भाण्डैः शकटादिकं भृत्वा व्यवहाराय ग्रामादिषु भ्रमतुः । लोभाभिभूतौ क्रूरौ च तौ निष्करुणं पीडितानपि वृषभान् ताडनादिभिर्बलाद् वाहयन्तौ कूटमानादिभिर्जनान् वञ्चयन्तौ एकद्रव्याभिलाषात् परस्परं युध्येते स्म । इत्थं युध्यमानौ प्रपन्नार्तध्यानौ गजायुर्बद्ध्वा श्रीनदीतीर्थे मृतौ पुरैरवते स्वर्णकूलाख्यनदीतटे गजौ जातौ ताम्रकलश-काञ्चनकलशाभिधौ प्राप्तयौवनौ प्रस्रवन्मदौ स्वैरं विजहतुः । एकदा च स्वस्वयूथेन पर्यटन्तौ तौ गजावन्योन्यं ददृशतुः । ततश्च प्राग्जन्मरोषादुद्भूतरोषौ परस्परवधायाऽधावताम् । चिरं च दन्तादन्ति शुण्डाशुण्डि युद्धं विधाय जन्मान्तरेऽपि युद्धार्थमिव युगपद् मृतौ । अस्य जम्बूद्वीपस्यैव च भरतक्षेत्रेऽयोध्यायां पुरि नन्दिमित्रो नाम भूरिमहिषीधनोऽभूत् । तस्य महिषीयूथे च तौ महिषौ जातौ पीनाङ्गौ यौवनं प्रपेदाते । देवानन्दाकुक्षिभवौ शत्रुञ्जयनृपात्मजौ ११४ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः धनसेन - नन्दिषेणौ च तौ महिषावपश्यताम् । ताभ्यां च कुतूहलात् तावुभौ महिषावयुध्येताम् । चिरं युद्ध्वा च तौ विपद्य तत्रैव पुर्यां काल-महाकालाख्यौ दृढाङ्गौ मेण्ढकौ जातौ । दैवादेकत्र मिलितौ प्राग्वैरादभियुध्य विपद्य समविक्रमावेतौ कुक्कुटौ जातौ । अतः प्राग्वदेतयोर्न कोऽप्यन्येन जेष्यते । किं चेमौ न केवलं पूर्ववैराविष्टौ, किन्तु विद्याधराधिष्ठितौ युध्येते । अस्यैव जम्बूद्वीपस्य भरते वैताढ्योत्तर श्रेण्यां स्वर्णनाभपुरे गरुडवेगो नाम नृपोऽभूत् । तस्य पत्नी धृतिषेणा च स्वोत्सङ्गस्थितचन्द्र-सूर्यस्वप्नसूचितौ चन्द्रतिलक-सूर्यतिलकाख्यौ सुतौ सुषुवे । तौ च प्रपन्नयौवनौ मेरुं गतौ शाश्वतार्हतां प्रतिमा ववन्दाते । कौतुकाच्च तत्र भ्रमन्तौ स्वर्णशिलास्थितं नन्दने सागरचन्द्राख्यं चारणमुनिमपश्यताम् । तौ च तं नमस्कृत्य देशनां श्रुत्वाऽन्ते ऊचतुः - "भगवन् ! आवयोः प्राक्तनान् भवानाख्याहि" । ततो मुनिरूचे"धातकीखण्डद्वीपे पूर्वैरवते वर्षे वज्रपुरेऽभयघोषो नृपस्तत्पत्नी सुवर्णतिलका चाऽभूताम् । तयोश्च सुतौ विजयो वैजयन्तश्च कलाकलाप कुशलौ यौवनं प्रपेदाते । तथा तत्रैरवते स्वर्णद्रुमे पुरे शङ्खनामा महीपतिरासीत् । तस्य पत्नी पृथिवीदेवी चोत्सङ्गस्थितपुष्पमाल्यस्वप्नसूचितां पृथ्वीसेनाख्यां सुतां सुषुवे । तां च प्राप्तयौवनां सशङ्खोऽभयघोषाय ददौ । एकदा च वसन्तर्तौ वसन्तपुष्पाण्यादाय काऽपि चेटिकाऽभयघोषसन्निधौ गतवती । तां दृष्ट्वा च सुवर्णतिलका नृपमुवाच'वसन्तेन षड्तुकाभिधमुद्यानममण्ड्यत। तदिदानीं मधुलक्ष्मीमनुभवितुं सपरिवारास्तत्र गच्छामः' । अत्राऽन्तरे च पृथिवीसेना नृपं कोटिमूल्यानि युक्तिपुष्पाणि करे दधानोपस्थिता । तानि वीक्ष्याऽऽदाय च प्रसन्नो नृप उद्यानं ययौ तत्र चिक्रीड च । तत्र नृपानुज्ञाता पृथिवी

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75