Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व पञ्चमः सर्गः
१२५
गजरथाश्वानां चतुरशीतिलक्ष्या भूषितो, ग्रामाणां पत्तीनां च कोटिषण्णवत्या भूभुजां द्वात्रिंशत्सहस्त्रया च सेवितः सूपकाराणां त्रिषष्ट्यग्रशतत्रय्याष्टादशभिः श्रेणिप्रश्रेणिभिश्च शोभमानभूर्द्वासप्ततेर्महापुरसहस्राणां रक्षितैकसहस्रोनद्रोणमुखलक्षस्य शासिताष्टचत्वारिंशत्सहस्रपत्तनानामधीश्वरो, मडम्बवच्चतुर्विंशतिसहस्राणां कर्बटानां रत्नाद्याकरसहस्रविशतेश्चेशिता, खेटसहस्राणां षोडशानां शासकश्चतुर्दशानां संबाधसहस्राणां प्रभुः, षडधिकपञ्चाशदन्तरोदकांत्रायमाण, एकोनपञ्चाशत: कुराज्यानां नायकः, षट्खण्डमपि भरतमुपभुञ्जानो, गीतादिभिर्विविधक्रीडाभिश्च सुखमनुभवंश्चक्रवर्तित्वादारभ्याऽष्टवर्षशतोनानब्दानां पञ्चविंशतिं सहस्रान् गमयामास ।
***
अथ लोकान्तिकैर्देवैरागत्य तीर्थं प्रवर्त्तयेति प्रार्थितः प्रभुः श्रीशान्तिनाथो जृम्भकासुरैः पूरितार्थो वार्षिकदानं प्रददौ । चक्रायुधं राज्ये निवेश्य शक्रादिभिः कृतनिष्क्रमणोत्सवः सर्वार्थां नाम शिबिकामारुह्य सहस्राम्रवणमाप्य शिबिकाया उत्तीर्याऽलङ्कारादि तत्याज स: । कृतषष्ठतपा विहितसिद्धनमस्कारो ज्येष्ठकृष्णचतुर्दश्यां भरणीस्थे चन्द्रेऽपराह्ने नृपसहस्रेण समं यथाविधि दीक्षामुपाददे । तदानीमेव च तस्य प्रभोर्मन: पर्यायज्ञानमुत्पेदे । ततो मन्दिरपुरे द्वितीयेऽह्नि सुमित्रनृपगृहे परमान्नेन पारणं विदधे । देवैर्वसुधारादिपञ्चकं दिव्यं सुमित्रेण च प्रभुपादस्थाने रत्नपीठं निर्ममे ।
प्रभुश्च मूलोत्तरगुणधरो वसुन्धरां विहरन् द्वादशमासान्ते हस्तिनापुरे सहस्राम्रवणं प्राप । तत्र नन्दिवृक्षतले षष्ठेन तपसा शुक्लध्यानान्तरस्थो घातिकर्माणि घातयित्वा पौषशुक्लनवम्यां भरणीस्थे चन्द्रेऽमलं केवलज्ञानमाप्तवान् । तदानीं च शक्रादिभिरेत्य यथाविधि विहिते समवसरणे पूर्वद्वारा प्रविश्याऽशीत्यग्रचतुर्धन्वशतोच्चं चैत्यपादपं प्रदक्षिणीकृत्य तीर्थाय नम इत्युक्त्वा रत्नसिंहासने प्राङ्मुख उपाविशत् ।
त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः सुरादयश्चाऽपि यथाद्वारं प्रविश्य यथास्थानं यथाविधि निविविशिरे । चक्रायुधोऽपि च तज्ज्ञात्वा सद्यः समेत्य प्रभुं प्रदक्षिणापूर्वकं प्रणम्याऽनुशक्रमुपविवेश । ततः सचक्रायुधेन शक्रेण स्तुतः प्रभुः श्री शान्तिनाथो देशनामारेभे ।
१२६
तथाहि—“अनेकदुःखसन्तानहेतुरयं संसारश्चतुर्गत्यात्मकः । गृहस्य स्तम्भा इव चत्वारः क्रोध-मान- माया लोभाः कषायास्तस्याऽऽधारा: । तस्मात् क्षीणेषु कषायेषु संसारश्छिन्नमूलो महीरुह इव स्वयं क्षीयते । कषायजयश्च नेन्द्रियजयं विना । असाधितैरिन्द्रियैर्हि हयैरिवाऽपथे जन्तुर्नरके पात्यते । इन्द्रियैर्जित एव जन्तुः कषायैरभिभूयते । अजितानि चेन्द्रियाणि कुलघाताय पाताय बन्धाय वधाय च जन्तूनां जायन्ते । पण्डिता अपि हीन्द्रियवशा विडम्बनां प्राप्नुवन्ति । इन्द्रियाणामतोऽधिकं किं लज्जाकरं यद् बन्धावपि बाहुबलिनि भरतोऽस्त्रममुञ्चत् । तत्र बाहुबलिनो जयो भरतस्य पराजयश्च जिताजितानामिन्द्रियाणामेव प्रभावः । एष च दुरन्तानामिन्द्रियाणां महिमा, यच्चरमेऽपि भवे स्थिता जन्तवः शस्त्राशस्त्रि युध्यन्ते । शान्तमोहाः पूर्वविदोऽपीन्द्रियैर्दण्ड्यन्ते ।
देवादयश्चाऽपीन्द्रियवशास्तपस्विनश्च जुगुप्सितानि कर्माणि कुर्वन्ति । इन्द्रियवशा ह्यस्वाद्यमपि खादन्त्यपेयमपि पिबन्त्यगम्यां चाऽपि गच्छन्ति । तथेन्द्रियहताः कुल- शीलवर्जिता वेश्यानामपि दास्यानि कुर्वते । इन्द्रियाणामेव स प्रभावो यद् नराः परद्रव्ये परस्त्रीषु च प्रवर्तन्ते । इन्द्रियवशाच्च पाण्यादीनां छेदान् मरणं च जनाः प्राप्नुवन्ति । एकं वीतरागं त्यक्त्वाऽऽदेवेन्द्रादा कीटाच्च सर्वे प्राणिन इन्द्रियैर्जिताः । करिणीस्पर्शसुखलुब्धः करी तत्क्षणादालानबन्धनक्लेशमाप्नोति । अगाधजलस्थश्च मीन आमिषं गिलन् धीवरकरे पतति । गन्धलोलुपश्च भृङ्गो मत्तमातङ्गकर्णतालघाताद् मृत्युमेति । शिखारूपमोहितश्च दीपे पतन् शलभः शोचनीयतां याति । गीतश्रवण

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75