Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०९
११०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सहस्रायुधोऽपि राज्यलक्ष्मी यथाकामं बुभुजे । एकदा च तत्र पुर्यां पिहितास्रवं गणधरं समवसृतं विज्ञाय सहस्रायुधः समुपेत्य भक्त्या वन्दित्वा धर्मदेशनां श्रुत्वा तत्क्षणं प्रबुद्ध: स्वे राज्ये पुत्रं शतबलि निधाय तद्गणधरपादान्ते प्रव्रज्यामादाय द्विविधशिक्षासम्पन्नो महीं विहरन् वज्रायुधस्य राजर्षेरमिलत् । ततः संयुक्तौ तौ पितापुत्रौ तपो-ध्यानपरौ पुर-ग्रामादिषु विहरन्तौ सुखेन प्राज्यं कालं गमयित्वेषत्प्रारभाराख्यं गिरिमारुह्य पादपोपगमाभिधमनशनं प्रपद्याऽऽयुःक्षये तृतीये ग्रैवेयकेऽहमिन्द्रत्वमाप्य पञ्चविंशतिसागरोपमस्थिति तस्थतुः । इति पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयाष्टम-नवमभववर्णनात्मकः
तृतीयः सर्गः॥३॥
पञ्चमं पर्व-तृतीयः सर्गः तस्य केवलज्ञानमहिमानं चक्रुः । हिमचूलश्च तद् दृष्ट्वा भीतस्तं शरणं ययौ । वज्रायुधोऽपि च तस्य मुनेर्यथावद् महिमानं विधाय देशनां श्रुत्वा स्वपुरीं ययौ ।
अथाऽन्यदा क्षेमङ्करप्रभुस्तत्र समवसृतः । तच्छ्रुत्वा च सपरिच्छदो वज्रायुधस्तत्र गत्वा यथाविधि वन्दित्वा यथास्थानमुपविश्य धर्मदेशनामश्रौषीत् । देशनान्ते च नत्वा स चक्र्यवदत्-"स्वामिन् ! संसाराद् भीतोऽस्मि, ततः स्वे राज्ये सहस्रायुधं निवेश्य यावदागच्छामि, तावद् मम दीक्षां दातुं प्रतीक्षस्व" । ततो 'न प्रमादो विधातव्य' इति स्वामिनोक्तः स निजां पुरीं गत्वा सहस्रायुधं राज्ये निवेश्य सहस्रायुधेन कृतनिष्क्रमणोत्सवः क्षेमङ्करजिनपार्श्वमेत्य राज्ञीनां नृपाणां च चतुःसहस्त्रया पुत्राणां सप्तशत्या च सह व्रतमाददे । विविधाभिग्रहपरः परीषहान् सहमानश्च वज्रायुधमुनिर्विहरन् सिद्धगिरिमुपेत्योपसर्गान् सहिष्येऽहमिति बुद्ध्या तत्र विरोचने स्तम्भे वार्षिकी प्रतिमां दधौ ।
इतश्चाऽश्वग्रीवसुतौ मणिकुम्भो मणिकेतुश्च द्वावपि भवान् भ्रान्त्वा कृतबालतपसावसुरभावमापन्नौ स्वैरचर्यया तत्र समायातौ तं मुनिमपश्यताम् । ततश्चाऽमिततेजोभववैरेण तं मुनिमुपद्रोतुं प्रारेभाते। तौ सिंहीभूयोभयोः पार्श्वयोस्तं मुनि नखरैश्चख्नतुः, कुञ्जरीभूय कराद्याघातैर्जघ्नतुः, भुजगीभूय तस्य द्वयोः पार्श्वयोर्दृढबन्धं ललम्बात, राक्षसीभूय च तीक्ष्णदंष्ट्राभिः पीडयामासतुः। इत्थं यावत् तौ तं मुनिमुपाद्रवतां, तावदिन्द्रपन्योऽर्हन्तं वन्दितुं चेलुः । तस्य मुनेश्चोपसर्ग कुर्वाणौ तौ दृष्ट्वा "आः पापौ ! यवाभ्यां किमिदमारब्ध"मिति ब्रुवाणाश्च ता गगनादवतेरुः । ताः प्रेक्ष्य च भयातौं तौ सतुः । ततश्च रम्भाद्याः सुरस्त्रियो भक्तितस्तस्य मुनेरग्रे नाट्यं विस्तारयामासुः । तं मुनि वन्दित्वा च स्वं स्वं स्थानं ययुः । स मुनिरपि वार्षिकी प्रतिमां पारयित्वा महीं विजहार ।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75