Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व-तृतीयः सर्गः
१०७ अनुबन्धं त्यक्त्वैनं क्षमयतम् । यतः कषाया नरकायैव भवन्ति । एवं वज्रायुधगिरा मुक्तवैरास्त्रयोऽपि संविग्ना: परस्परं क्षमयामासुः ।
तत: पुनश्चयवोचत्-“यूयं त्रयोऽपि क्षेमङ्करजिनान्तिकेऽचिरेणैव प्रव्रज्यां ग्रहीष्यथ । तत्र शान्तिमती रत्नावलीतपो विधायाऽनशनेन मृत्वेशानेन्द्रो भविष्यति । युवयोश्च तदैव घातिकर्मपरिक्षयात् केवलं ज्ञानमुत्पत्स्यते । स चेशानेन्द्रः समेत्य यवयोः केवलज्ञानमहिमानं भवन्मृतदेहपूजां च महोत्सवात् करिष्यति । ततः कालक्रमेण च्युत्वा चेशानेन्द्रो मर्त्यतां प्राप्योत्पन्नकेवलज्ञान: सिद्धिमासादयिष्यति" । चक्रिणश्च त्रिकालज्ञानविषयं तद्वचः श्रुत्वा तत्र सर्वे सभासदो विसिष्मियिरे ।
तत: पवनवेगः शान्तिमती सोऽजितसेनश्च त्रयोऽपि राजानं नत्वोचुः-"त्वमेवाऽस्माकं पिता स्वामी गुरुर्देवश्च । अन्यथाऽपायप्रवृत्तानां नः कोऽन्यस्त्राता भवेत् ? तदनुमन्यस्व, अद्यैव वयं क्षेमकरजिनेश्वरं गमिष्यामः" । ततश्च नृपेणाऽनुज्ञातास्ते त्रयोऽपि क्षेमङ्करजिनान्तिकं गत्वा प्रव्रज्योग्रं तपस्तेपिरे। चयुक्तप्रकारेण च परमं पदं ययुः । वज्रायुधश्चक्री च सहस्रायुधेन सहेन्द्रो दिवमिव भुवं पालयामास ।
एकदा च सहस्रायुधपत्नी जयना निशि स्वप्ने भास्वरां कनकशक्ति ददर्श । तया ख्यातस्य च तस्य स्वप्नस्य "महाशक्तिस्तव पुत्रो भविष्यती"ति पतिः फलमुक्तवान् । तत्प्रभृति गर्भं दधाना सा पूर्णे समये तनयरत्नमजनिष्ट । पितरौ च तस्य दृष्टस्वप्नानुसारेण समहोत्सवं कनकशक्तिरिति नाम चक्रतुः । स च क्रमाद् बाल्यमतीत्य प्राप्तयौवनः सुमन्दिरपुरे मेरुमालिनो मल्लागर्भजां रूपलावण्यशालिनी कनकमालां नाम तनयामुपयेमे । तस्याश्च कनकमालाया: सखीं मशकासारपुरनृपस्याऽजितसेनस्य प्रियसेना
१०८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुक्षिभवां वसन्तसेनां स्वयम्वरां पित्रा प्रेषितां कनकशक्तिर्यथाविधि परिणिन्ये । तदुद्वाहतश्च तस्या वसन्तसेनाया: पैतृष्वस्रेयश्चुकोप । ___ एकदा च कनकशक्तिरुद्याने कमप्येकं नरमुत्पतन्तं निपतन्तं च वीक्ष्य कस्त्वमिति पप्रच्छ । ततः स नर उवाच-"अहं विद्याधरोऽस्मि । वैताढ्यशैलात् केनचिदर्थेनाऽग्रतो गच्छन्निहोद्याने समापतम् । अत्र चोद्यानरम्यतां पश्यन् क्षणं स्थित उत्पित्सुर्यावदाकाशगामिनी विद्यामस्मार्षम् तावत् तस्या विद्याया एकं पदं विस्मृतम् । तेनेषद्बद्धपक्ष: पक्षीवोत्पतामि निपतामि च" । ततः कनकशक्तिरुवाच-"यद्यपरस्याऽग्रतस्तत् पठितुं युज्यते तहि यावत् स्मृतं पठ" । ततस्तेन विद्याधरेण पादहीनायां तस्यां पठितायां पदानुसारिबुद्धिर्नृपस्तत्पादमाख्यत् । ततः पुनर्जातविद्याशक्तिः स विद्याधरः प्रमुदितो नृपाय विद्या: प्रदाय यथागतं ययौ । कनकशक्तिरपि ता विद्या यथाविधि साधयित्वा महाविद्याधरोऽभवत् ।
वसन्तसेनायाः पैतृष्वस्रेयश्चाऽतिरुष्टोऽपि कनकशक्तेरपकर्तुमसमर्थो लज्जया भक्तपानादि परिहृत्य विपद्य च हिमचूलनामा देवोऽभवत् । कनकशक्तिश्च वसन्तसेना-कनकमालाभ्यां सह विद्याशक्त्या समीरवद् महीं भ्रमन् हिमवगिरि प्राप्तो विपुलमत्याख्यं चारणं मुनि दृष्ट्वा वन्दित्वा भार्याभ्यां सह तदीयदेशनां श्रुत्वा प्रबुद्धस्ते भार्ये गृहे मुक्त्वा प्रवव्राज । ते देव्यावपि च संविग्ने विमलमतेरार्याया: पार्श्वे व्रतं जगृहतुः ।।
कनकशक्तिश्च विहरन् सिद्धगिरि प्राप्तस्तत्र शिलायामेकरात्रिकया प्रतिमया स्थिरस्तस्थौ। तत्र च तथास्थितं तं दृष्ट्वा दुराशयो हिमचूलसुर उपसर्गान् कर्तुं प्रचक्रमे । तं च तथा कुर्वन्तं विद्याधरा न्यत्रासयन् । ततः प्रतिमां पारयित्वा विहरन् स रत्नसञ्चयां नगरी प्राप्तः सूरनिपाताख्ये वने एकरात्रिकी प्रतिमां चक्रे । ततश्च क्षपकश्रेणिमारूढस्य तस्याऽमलं केवलमुत्पन्नम् । तदा सुराः समुपेत्य

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75