Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थः सर्गः अथाऽस्य जम्बूद्वीपस्य प्राग्विदेहेषु पुष्कलावत्यां विजये सीतानद्याः समीपे पुण्डरीकिण्यां नगर्यां घनरथो नाम नृपतिरासीत्। तस्य च प्रियमति-मनोरमानाम्न्यौ द्वे पत्न्यावास्ताम् । तत्र प्रियमत्या उदरे वज्रायुधजीवो ग्रैवेयकाच्च्युत्वा समवातरत् । तदा च तया निशाशेषे स्वप्ने मुखे प्रविशन् गर्जन् वर्षन् विद्युद्भास्वरश्च मेघो दृष्टः । तयाऽऽख्यातस्वप्नश्च महीपतिर्मेघ इव पृथिवीसन्तापहृत् तव पुत्रो भवितेति फलं व्याजहार । मनोरमादेव्या उदरे च सहस्रायुधजीवो ग्रैवेयकाच्च्युत्वाऽवतीर्णवान् । तयाऽपि च तदा स्वप्ने किङ्किणीपताकादिशोभितो रथो ददृशे । राज्ञा च ज्ञातस्वप्नेन महारथश्रेष्ठस्तव पुत्रो भावीति फलमूचे । पूर्णे च समये ताभ्यामुभौ तनयौ सुषुवाते। राजा च शुभेऽहनि क्रमेण प्रियमत्याः सूनोर्मेघरथ इति मनोरमाया: सूनोश्च दृढरथ इति स्वप्नानुसारेण नाम चक्रे । तौ च क्रमेण वर्धमानौ सर्वकलाकुशलौ यौवनं प्रापतुः । ___ अथैकदा निहतशत्रोः सुमन्दिरपुरनृपस्याऽमात्यः समेत्य घनरथं प्रणम्य व्यजिज्ञपत्-"नृप ! तव कुन्दधवला कीर्तिदिक्षु निर्बाधं प्रसरति । सुमन्दिरपुरेशितुनिहतशत्रोस्तिस्रः कन्याः सन्ति । तत्र मेघरथस्य द्वे दृढरथस्य चैकां स दित्सते, "तदनुमन्यस्वे"ति । तदा घनरथ ऊचे-"अमुना सम्बन्धेन नौ स्नेहो दृढीभवतु" । ततो नृपो दैवज्ञेन लग्नं निर्णीय कुमारयोरागमनं च प्रतिपद्य तं सचिवं विससर्ज ।
११२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ____ सचिवश्च प्रमुदितः सुमन्दिरपुरमेत्य नृपं निहतशत्रु तवृत्तमाख्यायाऽहर्षयत् । घनरथश्च दृढरथेन सहितं मेघरथं सुमन्दिरपुरं प्रति प्रेषीत् । तौ च सैन्यपरिवारपरिवृत्तौ कतिपयैः प्रयाणैः सुरेन्द्रदत्तनृपदेशसीमन्यूषतुः । तत्र च सुरेन्द्रदत्तेन शिक्षित्वा प्रेषितो दूतोऽभ्युपेत्य मेघरथमुवाच-"न: स्वामी 'अस्मद्देशमध्येन मा गास्त्व'मिति वक्ति । अन्येन मार्गेण गच्छ, अन्यथा न ते कुशलम्"। ततो मेघरथो विहस्योवाच-"अस्माकमयमेव मार्गः सरलः, स कथं त्यज्यताम् ? अतो वयमनेनैव मार्गेण यास्यामः। तव स्वामी स्वशक्ति दर्शयतु"।
तच्छ्रुत्वा कुपितः सुरेन्द्रदत्तो रणभेरीमवादयत् । तथा सर्वथा सन्नद्धेन सैन्येन मेघरथं प्रति रणेच्छु: प्रतस्थे । मेघरथोऽपि दृढरथेन सह रथमारुह्य सैन्यानि रणायाऽऽदिदेश । प्रवृत्ते च शस्त्रसम्पाते परैः कुमारयोः सैन्यमभञ्जि। ततः क्रुद्धौ कुमारौ परसैन्यमध्यं विगाह्य तद् ममन्थ । ततः सुरेन्द्रदत्तो युवराजेन सहितस्ताभ्यां योद्धं प्रावृतत् । ततश्च मेघरथ-दृढरथाभ्यां तौ रणे खेदयित्वा शीघ्रं बबन्धाते । तस्मिन् देशे च निजाज्ञां प्रवर्त्तयित्वा तौ सुमन्दिरपुरं प्रतीयतुः ।
निहतशत्रुश्च तयोः सहर्ष स्वागतादिकं विधाय सुलग्ने मेघरथेन प्रियमित्रा-मनोरमे दृढरथेन च सुमतिं परिणाययामास । ततो विवाहे जाते राज्ञा विसृष्टौ तौ कुमारौ स्वां पुरीं प्रति गच्छन्तौ सुरेन्द्रदत्तं सयुवराजं स्वे राज्ये पूर्ववत् संस्थाप्य निजां नगरी प्राप्तवन्तौ । तत्र च प्रियाभिस्तौ विविधान् भोगान् भुञ्जानौ सुखेन कालं गमयामासतुः । तत्र मेघरथस्य पत्नी प्रियमित्रा नन्दिषेणं, मनोरमा च मेघसेनं, दृढरथस्य पत्नी सुमतिश्च रथसेनं नाम पुत्र सुषुवे ।
अन्येधुश्च घनरथोऽन्तःपुरे कलत्र-पुत्र-पौत्रादिभिः परिवृतः कुक्कुटहस्तया सुसेनाख्यया वेश्यया व्यज्ञपि-"देव ! अयं मे कुक्कुट: स्वजातिषु रत्नम् । यत: केनाऽपि कुक्कुटेन कदाऽप्ययं न जीयते । यदि कस्याऽपि कुक्कुट एनं जयेत् तदाऽहं तस्य दीनाराणां लक्षं पणे

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75