Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 65
________________ पञ्चमं पर्व-चतुर्थः सर्गः ११७ विदधत्सु च गगने विमानमेकं प्रादुरासीत् । तत्र च रत्या काम इवैकया युवत्या युतः पुमानेको ददृशे । कोऽयं, केयं, कुतो हेतोश्चेत आगच्छत इति प्रियमित्रया पृष्टश्च मेघरथ उवाच___ "जम्बूद्वीपे भरते वैताढ्यस्योत्तरश्रेण्यामलकायां पुरि विद्युद्रथो नाम विद्याधरेश्वर आसीत् । तस्य च मानसवेगायां पन्यां सिंहरथस्वप्नसूचनाज्जातः सिंहरथः पुत्रश्चन्द्रो रोहिणीमिव कुलीनां वेगवती नाम कन्यां परिणीतवान् । विद्यद्रथश्च तं निजे राज्ये निधाय संसारं विद्युच्चपलस्वभावं ज्ञात्वा वैराग्यमापन्नो दीक्षां गृहीत्वा संयमादिभिः कर्मक्षयं कृत्वा शिवमगात् । सिंहरथश्च विद्याधरचक्री चार्हद्दर्शनेच्छयैकदा धातकीखण्डे पश्चिमविदेहेषु सीतानद्या उत्तरतटे सूत्राख्ये विजये खड्गपुरे पन्या समं गत्वाऽमितवाहनं ददर्श । तं नत्वा देशनां श्रुत्वा च पुनर्जिनं नत्वा स्वनगरी प्रति गच्छन् गति स्खलितां विज्ञाय कारणजिज्ञासयाऽध: पश्यन् मामिह स्थितं दृष्ट्वा सकोपमुत्क्षेप्तुमुपासरत् । मया च वामेन पाणिनाऽऽक्रान्तो विरसं रसन् सपरिवारो मां शरणं प्रपन्नो मया मुक्तो नानारूपाणि विकृत्येदं सङ्गीतकमकार्षीत्" । ततः पुनः प्रियमित्रयोचे-"देव ! पूर्वभवे किं कर्माऽमुना कृतं येनाऽस्यैषा महीयसी ऋद्धिः?" ततो मेघरथः पुनरुवाच-"भरते पुष्करार्धे सङ्घपुरे राज्यगुप्तो नाम कुलपुत्रोऽतिदुःस्थ आसीत् । तस्याऽनुरक्ता भक्ता च शखिकानाम्नी पत्न्यासीत् । तौ द्वावपि परगृहेषु कर्माणि चक्राते । एकदा च तौ सम्भूय फलार्थं सङ्घगिरि गतौ भ्रमन्तौ देशनां कुर्वाणं सर्वगुप्तं मुनि दृष्ट्वोपेत्य नत्वा देशनां श्रुत्वा च पुनः प्रणम्योचतुः-अस्मदर्थं किञ्चित् तपः समादिश । ततो महामुनिः सर्वगुप्तो योग्यतानुसारेण द्वात्रिंशत्कल्याणकाख्यं तपस्तयोदिदेश । तौ च तथेति प्रतिपद्य गृहं गतौ त्रिरात्रद्वयद्वात्रिंश ११८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च्चतुर्थात्मकं तत् तपो विधाय पारणसमये च धृतिधरं मुनि भक्तोदकादिना भक्त्या प्रत्यलाभयताम् । अन्यदा च विहारक्रमात् तत्राऽऽगतस्य सर्वगुप्तमुनेर्यथाविधि देशनां श्रुत्वा परिव्रज्यामाददाते । तत्र राज्यगुप्त आचामाम्लवर्धमानतपो विधायाऽन्ते चाऽनशनं प्रपद्य दशसागरोपमजीवितो ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽयं विद्युद्रथनृपात्मजः सिंहरथो जज्ञे । शङ्खिका चाऽपि विविधं तपो विधाय ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽस्य पत्न्यभूत् । अयं च सिंहस्थ इतः स्वनगरं गत्वा पुत्रं राज्ये निवेश्य मत्पितुर्दीक्षामादाय तपो-ध्यानादिभिः क्षीणकर्मोत्पन्नकेवलज्ञान: सिद्धि व्रजिष्यति । ततस्तद्वचनं श्रुत्वा मेघरथं प्रणम्य स्वपुरं गत्वा पुत्र राज्ये निवेश्य सिंहरथो घनरथजिनान्तिके दीक्षामादाय तपोऽनुष्ठाय सिद्धिमियाय । नृपो मेघरथोऽपि च देवरमणोद्यानात् स्वपुरी पुण्डरीकिणी प्राविशत् । अथैकदा पौषधशालायां पौषधमादाय धर्ममाख्यातुमुपक्रान्तस्य मेघरथस्योत्सङ्गे भीत एक: पारापत: पपात । मनुष्यभाषयाऽभयं याचमानं च तं मा भैषीरिति नृपोऽभाषिष्ट । तं पारापतमनुधावमानः श्येनश्च ममेदं भक्ष्यमाशु मुञ्चेतिवदन्नागात् । ततो मेघरथ ऊचे"नाऽमुमर्पयिष्यामि, क्षत्रियो हि शरणागतं नाऽर्पयति । किं च परप्राणापहारेण स्वप्राणपरिपोषणं न कस्याऽपि युज्यते । तवाऽनेन भक्षितेन क्षणमात्रं तृप्तिः । अस्य तु सर्वप्राणापहार एव भवेत् । परहिंसायां च परत्र भूरिदुःखम् । पञ्चेन्द्रियवधात् तन्मांसभक्षणाच्च जन्तवो नरके दुःसहां व्यथां प्राप्नुवन्ति । ततः प्राणिवधं मुञ्च । धर्म समाचर । येन भवे भवे सुखमेष्यसि" ।

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75